पूर्वम्: २।३।२
अनन्तरम्: २।३।४
 
प्रथमावृत्तिः

सूत्रम्॥ तृतीया च होश्छन्दसि॥ २।३।३

पदच्छेदः॥ तृतीया १।१ होः ६।१ छन्दसि ७।१ कर्मणि ७।१ द्वितीया १।१ अनभिहिते ७।१

काशिका-वृत्तिः
तृतीया च होश् छन्दसि २।३।३

कर्मणि इति वर्तते। द्वितीयायां प्राप्तायां तृतीया विधीयते। चशब्दात् सा च भवति। छन्दसि विषये जुहोतेः कर्मणि कारके तृतीया विभक्तिर् भवति, द्वितीया च। यवाग्वा ऽग्निहोत्रं जुहोति। यवागूम् अग्निहोत्रं जुहोति। छन्दसि इति किम्? यवागूम् अग्निहोत्रं जुहोति।
न्यासः
तृतीया च होश्छन्दसि। , २।३।३

"यवाग्वाऽग्नहोत्रं जुहोति" इति। यद्यप्यत्र "सुपां सुपो भवन्ति" (वा।८१८) इति द्वितीयास्थाने तृतीयादेशविधानेऽप्येतत् सिध्यति; तथापि पयसा जुहोति, आज्येन जुहोतीत्येवमादि न सिध्यति। तथा हि-- स्थानिवद्भावात् "स्वमोर्नपुंसकात्" ७।१।२३ इत्येकस्य लुक् प्राप्नोति। अपरस्य "अतोऽम्" ७।१।२४ इत्यम्भावः॥