पूर्वम्: २।३।२९
अनन्तरम्: २।३।३१
 
प्रथमावृत्तिः

सूत्रम्॥ षष्ठ्यतसर्थप्रत्ययेन॥ २।३।३०

पदच्छेदः॥ षष्ठी १।१ अतसर्थप्रत्ययेन ३।१

काशिका-वृत्तिः
षष्ठ्यतसर्थप्रत्ययेन २।३।३०

दक्षिणौत्तराभ्याम् अतसुच् ५।३।२८ इति वक्ष्यति, तस्य इदं ग्रहनम्। अतसर्थेन प्रत्ययेन युक्ते षष्ठी विभक्तिर् भवति। दक्षिणतो ग्रामस्य। उत्तरतो ग्रामस्य। पुरस्ताद् ग्रामस्य। उपरि ग्रामस्य। उपरिष्टाद् ग्रामस्य।
न्यासः
षष्ठ�तसर्थप्रत्ययेन। , २।३।३०

बाल-मनोरमा
षष्ठ�तसर्थप्रत्ययेन ६०१, २।३।३०

षष्ठ()तसर्थ। एतद्योगे इति। "दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्योदिग्देशकालेष्वस्तातिः" इत्यारभ्य "आहि च दूरे" "उत्तराच्चे"त्यन्तैः सूत्रैर्दिग्देशकालवृत्तिभ्यः शब्देभ्यः स्वार्थे प्रत्यया विहिताः। तत्र "दक्षिणोत्तराभ्यामतसुच्" इति विहितो योऽतसुच्प्रत्ययः, तस्यार्थः=दिग्देशकालरूपः, स एवार्थो यस्य स-अतसर्थप्रत्ययः, तद्योगे इत्यर्थः। यद्यप्यतसर्थप्रत्ययेषु अस्तातिरेव प्रथमस्थापि लाघवादतसर्थेत्युक्तम्, न त्वस्तात्यर्थेति, संयुक्ताक्षरघयितत्वेन गौरवात्। दिक्शब्देतीति। "अन्यारादि"ति सूत्रे दिक्शब्देत्यनेन या पञ्चमी विहिता तदपवाद इत्यर्थः। दक्षिणत इति। सप्तमीपञ्चमीप्रथमान्तात् स्वार्थे दिग्देशकालवृत्तेर्दक्षिणशब्दादतसुच्। दक्षिणस्यां, दक्षिणस्याः, दक्षिणा वा दिगित्यर्थः। एवं देशे काले च। पुर इति। पूर्वाशब्दादस्तात्यर्थे"पूर्वाधरावराणामसि पुरधवश्चैषाम्" इत्यसिप्रत्ययः प्रकृतेः पुरादेशश्च। पूर्वस्यां, पूर्वस्याः, पूर्वा वेत्यर्थः। पुरस्तादिति। पूर्वशब्दादस्तातिप्रत्यये सति "आस्ताति चे"ति प्रकृतेः पुरादेशः। पुरश्शब्दसमानार्थकमिदम्। उपरीति। "उपर्युपरिष्टादि"ति सूत्रेण ऊध्र्वशब्दाद्रिल्प्रत्ययो शिष्टातिल्प्रत्ययः प्रकृतेरूपादेशश्च निपातितः। ऊध्र्वायां दिशि, ऊध्र्वाया दिशः, ऊध्र्वादिगिति वा अर्थः। एवं देशे कालेऽपि।

तत्त्व-बोधिनी
षष्ठ�तसर्थप्रत्ययेन ५३९, २।३।३०

षष्ठ()सर्थ। "दक्षिणोत्तराभ्यामतसुच्" इत्यस्य योऽर्थे दिग्देशकालरूपः सोऽर्थे यस्य प्रत्ययस्य सोऽतसर्थप्रत्ययः, अस्तातिप्रभृतियञ्च, तदन्तेन योगे इत्यर्थः। अचसुचोऽस्तात्यनन्तरत्वेपि लाघवानुरोधेन अस्तात्यर्थेति नोक्तमित्याहुः। पञ्चाम्या अपवाद इति। "ततः पश्चात्स्त्रंस्यते ध्वंस्यते च" इति भाष्यप्रयोगात्पश्चाच्छब्दयोगे तु पञ्चम्यपि साधुः। अस्मादेव भाष्यप्रयोगात्पश्चाच्छब्देनाऽव्ययीभावो न भवतीति वक्ष्यते। प्रत्ययग्रहणं किम्()। इह मा भूत्, प्राग्ग्रामात्। प्रत्यग्ग्रामात्। कृतेऽपि प्रत्ययग्रहणे कृतो नेति चेत्। अत्राहुः कैयटादयः--प्रत्ययग्रहणमधिकं क्रियमाणं श्रूयमाणप्रत्ययग्रहणार्थं विज्ञास्यत इति लुप्तेऽस्तातौ षष्ठ()भावः। "अन्यारात्---"इत्यत्राञ्चूत्तरपदस्यापीदं प्रयोजनमुक्तम्। तत्रान्यतरच्छक्यमवक्तुम्, एक प्रयोजनत्वादिति। प्रत्ययग्रहणं चिनत्यप्रयोजनमिति तु मनोरमायां स्थितम्। पुर इति। "पीर्वाधरावराणाम्" इत्यसिप्रत्यये पुरादेशः। पुरस्तादिति।"दिक्शब्देभ्यः" इत्यादिनाऽस्तातिः, "अस्ताति च" इति पूर्वस्य पुरादेशः।