पूर्वम्: २।३।३
अनन्तरम्: २।३।५
 
प्रथमावृत्तिः

सूत्रम्॥ अन्तराऽन्तरेणयुक्ते॥ २।३।४

पदच्छेदः॥ अन्तराऽन्तरेणयुक्ते ७।१ द्वितीया १।१

काशिका-वृत्तिः
अन्तरा ऽन्तरेण युक्ते २।३।४

द्वितीया स्वर्यते, न तृतीया। अन्तरान्तरेण शब्दौ निपातौ साहचर्याद् गृह्येते। आभ्यां योगे द्वितीया विभक्तिर् भवति। षष्ठ्यपवादो ऽयम् योगः। तत्र अन्तराशब्दो मध्यमाधेयप्रधानम् आचष्टे। अन्तरेण शब्दस् तु तच् च विनार्थं च। अन्तरा त्वां च मां च कमण्डलुः। अन्तरेण त्वां च मां च कमण्डलुः। अन्तरेण पुरुषकारं न किंचिल् लभ्यते। युक्तग्रहणं किम्? अन्तरा तक्षशिलां च पाटलिपुत्रं स्रुघ्नस्य प्राकारः।
न्यासः
अन्तरान्तरेण युक्ते। , २।३।४

"अन्तरान्तरेणशब्दौ निपातौ साहचर्याद्गृह्रेते" इति। अयमन्तराशब्दो यद्यपि स्त्रीप्रत्ययान्तोऽस्ति, तथाऽस्त्रीप्रत्ययान्तोऽपि;अन्तरेणशब्दस्त्वस्त्रीप्रत्ययान्तो गृह्रते। यश्चास्त्रीप्रत्ययान्तोऽन्तराशब्दः स निपात एवेत्यन्तराशब्दस्य तावन्निपातस्य ग्रहणम्। अतस्तेन निपातेन साहचर्यादन्तरेणशब्दस्यापि तस्यैव ग्रहणम्। तेनानिपातो यस्तृतीयान्तोऽन्तरेणशब्दः, यश्च टाबन्तोऽन्तराशब्दस्ताभ्यां योगे द्वितीया न भवति। किं ते बाभ्रावाणां शालङ्कायमानाञ्चान्तरेण गतेन? ग्रामयोरन्तरायां पुरि वसतीत्यन्तरशब्दोऽत्र विशेषवचनः। गमिरपि ज्ञानवचनः। किं ते विशेषण ज्ञानेनेत्यर्थः। "षष्ठ()पवादोऽयं योगः" इति।र शेषलक्षणायां षषठ()आं प्राप्तायामस्यारम्भात्। षष्ठ()आपवादत्वमस्य योगस्यान्तरान्तरेणशब्दार्थप्रदर्शनद्वारेण विस्पष्टीकर्त्तुमाह-- "तत्र" इत्यादि। मध्यं हि सम्बन्धिशब्दत्वादमध्यभूतं द्वितीयं सम्बन्धिनमपेक्ष्य भवति। तत्र यदपेक्षं मध्यत्वं ततो मध्येन व्यतिरेके समुपजनिते षष्ठी प्राप्नोति। विनार्थोऽपि शेष एव। अत्रापि षष्ठ()एव प्राप्नोति। "अन्तरा त्वाञ्च माञ्च कमण्डलुः" इति। तव मम मध्ये कमण्डलुरित्यर्थः। अथ कमण्डलुशब्दाद्द्वितीता कस्मान्न भवति? सत्यप्यन्तरान्तरेणयोगे तस्य प्राधान्यात्। तथा हि-- कमण्डलोः स्वार्था प्रवृत्तिः , युष्मदस्मदोस्तु परार्था; कमण्डलुविशेषणत्वेन तयोः प्रवृत्तत्वात्। तत्र कमण्डलोः स्वार्थे वत्र्तमानात् प्राधान्येनावस्थित्वात् प्रातिपदिकार्थादप्रच्युतत्वात् परत्वात् प्रथमैव भवति। द्वितीयायास्त्वप्रधाने युष्मदस्मच्छब्देऽवकाश इति ताभ्यां तेनेव प्रथमान्तेन कमण्डलुनोपजनिते व्यतिरेके षष्ठ()आं प्राप्तायां द्वितीया विधीयते। "अन्तरेण पुरुषकारम्" इति। विना पुरुषकारेणेत्यर्थः। "अन्तरा तक्षशिलां पाटलिपुत्रञ्च रुआउघ्()नस्य प्राकारः" इति। अत्र रुआउघ्नः प्राकारविशेषणत्वेनोपक्षीणसामथ्र्य इति न भवति त्सयान्तराशब्देन योगः॥
बाल-मनोरमा
अन्तराऽन्तरेण युक्ते ५३७, २।३।४

अन्तरान्तरेणयुक्ते। "अन्तरा" इत्याकारान्तमव्ययं, नतु टाबन्तम्। अन्तरेणेत्यप्यव्ययमेव, नतु तृतीयान्तमिति भाष्ये स्थितम्। अन्तरा त्वां मां हरिरिति। तव च मम च मध्ये हरिरित्यर्थः। "अन्तरा मध्ये" इत्यमरः। अन्तरेण हरिमिति। हरेर्वर्जने सुखं नास्तीत्यर्थः। "पृथिग्विनान्तरेणर्ते हिरुङ्नाना वर्जने इत्यमरः। "किमनयोरन्तरेण गतेने"त्यत्र तु अन्तरशब्दो विशेषवाची। अनयोर्विशेषेण ज्ञातेनेत्यर्थः। अत्र अन्तरेणेत्यस्य तृतीयान्तत्वादव्ययत्वाऽभावान्न तद्योगे द्वितीया। नचैवं सति "हलोऽनन्तराः संयोगः" इत्यत्र द्वयोश्चैवान्तरा कश्चि"दिति भाष्यप्रयोगः कथमिति शङ्क्यम्, मध्यत्वनिमित्तमवधित्वं हि ययोर्निर्णीतं तत्र द्वितीया। ययोस्तु न तन्निर्णयस्तत्र संबन्धसामान्ये षष्ठ()एव भवति युक्तग्रहणादिति कैयटः।

तत्त्व-बोधिनी
अन्तराऽन्तरेण युक्ते ४८३, २।३।४

अन्तरान्तरेण। प्रतिपदोक्तत्वान्निपातयोरेव ग्रहणं न तु टाबन्ततृतीयान्तयोः, परस्परसाहचर्याच्च। तद्यथा गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्न त्वाचर्यपरशुरामयोः। तेन किमनयोरन्तरेणावगतेनेति सिद्धम्। किमनयोर्विशेषण ज्ञातेनेत्यर्थः। अन्तरा त्वां मामिति। तव मम च मध्ये इत्यर्थः। हरिशब्दात्तु द्वितीया न भवति, अन्तरङ्गतया प्रथमाया एवोत्पत्तेः। अन्तरेण हरिमिति। हरिं विनेत्यर्थः। "मध्ये"इत्यर्थेऽप्यन्तरेणशब्दो वर्तते, "मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोद्र्वयं सः" इति। चलच्चामरयोद्र्वयं यस्य मध्ये इत्यर्थः। युक्ताग्रहणान्नेह,--"अन्तरा त्वां मां कृष्णस्य मूर्तिः"। इह कृष्णान्न द्वितीया, अन्तराशब्दप्रयोगेऽपि अन्तरेत्यनेनाऽनन्वयात्।