पूर्वम्: २।३।४४
अनन्तरम्: २।३।४६
 
प्रथमावृत्तिः

सूत्रम्॥ नक्षत्रे च लुपि॥ २।३।४५

पदच्छेदः॥ नक्षत्रे ७।१ लुपि ७।१ तृतीया १।१ ४४ सप्तमी १।१ ४३

काशिका-वृत्तिः
नक्षत्रे च लुपि २।३।४५

तृतीयासप्तम्यावनुवर्तते। लुबन्तात् नक्षत्रशब्दात् तृतीयासप्तम्यौ विभक्ती भ्वतः। पुष्येण पायसमश्नीयात्, पुष्ये पायसमश्नीयात्। मघाभिः पललौदनम्, मघसु पललौदनम्। नक्षत्र इति किम्? पञ्चालेषु वसति। लुपि इति किम्? मघासु ग्रहः। इह कस्मान् न भवति, अद्य पुस्यः, अद्य कृत्तिका? अधिकरणे इति वर्तते। वचनं तु पक्षे तृतीयाविधानार्थम्।
न्यासः
नक्षत्रे च लुपि। , २।३।४५

नक्षत्रे च लुपीति सुब्व्यत्ययेन पञ्चम्यर्थे सप्तमीविधानम्। अत एवाह-- "लबन्तान्नक्षत्रशब्दात्" इत्यादि। "पुष्येण" इत्यादि। "नक्षत्रेण युक्तः कालः" ४।२।३ इति विहितस्याणः "लुबविशेषे" ४।२।४ इति लुप्। पञ्चालेषु वसतीत्यत्रापि "तस्य निवासः" २।३।३६ इति विहितस्याणः "जनपदे लुप्" ४।२।८० इति लुप्()। "मघासु ग्रहः" इति। सामीप्येऽधिकरण एव सप्तमी। अत्र "नक्षत्रेण युक्तः कालः" ४।२।३ इत्यस्यार्थस्याविवक्षितत्वादण् न भवति। "अद्य पुष्यः" इति। पूर्ववदण्, लुप्। "अधिकरणे" २।३।३६ इत्यनुवत्र्तते। न चेहाधिकरणत्वं विवक्षितमिति भावः॥
बाल-मनोरमा
नक्षत्रे च लुपि ६३४, २।३।४५

नक्षत्रे च लुपि। "नक्षत्रे " इत्यनन्तरं "प्रकृत्यर्थे सती"ति शेषः। लुप्शब्देन लुप्संज्ञाया लुप्तप्रत्ययार्थो विवक्षितः। तदाह--नक्षत्रे प्रकृत्यर्थे इति। अधिकरण इति। "सप्तम्यधिकरणे चे"त्यत मण्डूकप्लुत्या तदनुवृत्तेरिति भावः। मूलेनेति। मूलनक्षत्रयुक्तकाल इत्यर्थः। "नक्षत्रेण युक्तः कालः" इत्यण्। "लुबविशेषे" इति तस्य लुप्। अधिकरणे किम्?। मूलं प्रतीक्षते। नक्षत्र इति किम्?। पञ्चालेषु तिष्ठति। इह "जनपदे" इति लुप्।

तत्त्व-बोधिनी
नक्षत्रे च लुपि ५६३, २।३।४५

नक्षत्रे च लुपि। लुप्शब्दोऽत्रार्थविशेषे लाक्षणिक इत्याशयेनाह--यो लुप्संज्ञयेत्यादि। अधिकरण इति। एतच्च "सप्तम्यधिकरणे च" इत्यतो मण्डूकप्लुत्यानुवर्तत इति भावः। अधिकरणे किम्, मूलं प्रतीक्षते, मूलाय स्पृहयति। मूलेनेति। "नक्षत्रेण युक्तः कालः" इत्यणो "लुबविशेषे" इति लुप्। नक्षत्र इति किम्()। पञ्चालेषु तिष्ठति। इह "जनपदे लुप्" इथि लुप्।