पूर्वम्: २।३।५१
अनन्तरम्: २।३।५३
 
प्रथमावृत्तिः

सूत्रम्॥ अधीगर्थदयेशां कर्मणि॥ २।३।५२

पदच्छेदः॥ अधीगर्थदयेशाम् ६।३ कर्मणि ७।१ ६१ षष्ठी १।१ ५० शेषे ७।१ ५०

काशिका-वृत्तिः
अधीगर्थदयैइशाम् कर्मणि २।३।५२

शेषे इति वर्तते। अधीगर्थाः स्मरनार्थाः, दय दानगतिरक्षनेषु, ईश एश्वर्ये, एतेषं कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर् भवति। मातुरध्येति। मातुः समरति। सर्पिषो द्यते। सर्पिष ईष्टे। मधुन ईष्टे। कर्मणि इत्येव, मातुर् गुणैः स्मरति। शेषे किम्? मातरं स्मरति।
न्यासः
अधीगर्थदयेशां कर्मणि। , २।३।५२

"अधीक" इति। "इक् स्मरणे" (धा।पा।१०४७) इत्यस्याधिपूर्वस्य ग्रहणम्। अधीगित्यनेन समानार्था अधीगर्थाः। ककारानुबन्धकरणमस्य धातोरत्रैव सूत्रे विशेषणार्थम्। अध्ययनार्थानामित्युच्यमाने सन्देहः स्यात्-- कोऽयं धातुरिति। अधिपूर्वस्योच्चारणेनाधिपूर्वस्यैवास्य प्रयोग इति दर्शयति। "कर्मणि कारके" इत्यादि। यदा तदेव कर्म शेषकार्यत्वाच्छेषत्वेन विवक्ष्यते न कर्मत्वेन, तदा तत्र षष्ठी भवति। "अध्येति" इति। अदादित्वाच्छपो लुक्। एवम् "ईष्टे" इति। व्रश्चादिसूत्रेण ८।२।३६ षत्वम्। "मातुर्गुणैः स्मरति" इति। अत्र कर्मग्रहणाद्गुणानां करणभूतानां शेषविवक्षायामपि षष्ठी न भवति॥
बाल-मनोरमा
अधीगर्थदयेशां कर्मणि ६०५, २।३।५२

अधीगर्थ। एषामिति। "इक्स्मरणे"नित्यमधिपूर्वः, तस्यार्थ इवार्थों यस्य सोऽधीगर्थः। स्मरणार्थक इति यावत्। शेष इति। "षष्ठी शेषे" इत्यतस्तदनुवृत्तेरिति भावः। मातुः स्मरणमिति। वस्तुतःकर्मीभूतमातृसंबन्धि स्मरणमित्यर्थः। सर्पिषो दयनमिति। वस्तुतः कर्मींभूतसर्पिःसंबन्धि दयनमित्यर्थः। "दय दानगतिरक्षणहिंसादानेषु"। दीनान्दयते इत्यत्र दुःखाद्वियोजयितुमिच्छतीत्यर्थः। परदुःखापहरणेच्छा दया। ईशनं वेति। "सर्पिष" इत्यनुषज्यते। वस्तुतः कर्मीभूतसर्पिःसंबन्धी यथेष्टविनियोग इत्यर्थः। इदमपि समासनिषेधार्थमेव। "लोकानीष्टे" इत्यत्र तु यथास्वेच्छमाज्ञापयतीत्यर्थः।

तत्त्व-बोधिनी
अधीगर्थदयेशां कर्मणि ५४२, २।३।५२

अधीगर्थ। अधिशब्दोच्चारणम् "इङिकावध्युपसर्गं न व्यभिचरतः"इति ज्ञापनार्थम्। अन्यथा "स्मृत्यर्थदयेशाम्" इत्येव ब्राऊयात्, "इगर्थे"ति वा। इङंशे नेदं ज्ञापकमिति चेत्तर्हि तदंशे "णेरध्ययने वृत्तम्" इत्यत्राऽधिशब्दोच्चारणं ज्ञापतमस्तु। अत्र व्याचख्युः--कर्मणि किम्()। करणे शेषत्वविवक्षायां मा भूत्। मातुर्गणस्मरणम्। अत्र माता कर्म, गुणास्तु करणम्, उभयत्र शेषत्वविवक्षायमपि मातृशब्दादेवानेन सूत्रेण षष्ठी, गुणशब्दात्तु "षष्ठी शेषे"इत्यनेन। तेन "गुणस्मरण"मितित समासो भवतीति।