पूर्वम्: २।३।५६
अनन्तरम्: २।३।५८
 
प्रथमावृत्तिः

सूत्रम्॥ व्यवहृपणोः समर्थयोः॥ २।३।५७

पदच्छेदः॥ व्यवहृपणोः ६।२ समर्थयोः ६।२ कर्मणि ७।१ ५२ षष्ठी १।१ ५० शेषे ७।१ ५०

काशिका-वृत्तिः
व्यवहृपणोः समर्थयोः २।३।५७

व्यवहृ पण इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके षष्ठी विभक्तिर् भवति। द्यूते क्रयविक्रयव्यवहारे च समानार्थत्वमनयोः। शतस्य व्यवहरति। सहस्रस्य व्यवहरति। शतस्य पणते। सहस्रस्य पणते। आयप्रत्ययः कस्मान् न भवति? स्तुत्यर्थस्य पनतेरायप्रत्यय इष्यते। समर्थयोः इति किम्? शलाकां व्यवहरति। विक्षिपति इत्यर्थः व्राहमणान् पणायते। स्तौति इत्यर्थः। शेषे इत्येव, शतं पणते।
न्यासः
व्यवह्मपणोः समर्थयोः। , २।३।५७

"शतस्य व्यवहरति" इति। शतं क्रयविक्रयेण विनियुङ्क्ते, दीव्यतीति वेत्यर्थः। "शतस्य पणते" इत्यत्रापि स एवार्थः। अनुदात्तेत्वादात्मनेपदम्,। "आयप्रत्ययः कस्मान्न भवति" इति। "गकपूधूप"३।१।२८ इत्यादिना प्राप्नोतीति भावः। "स्तुत्यर्थस्य" इत्यादि। यद्यपि "पण व्यवहारे स्तुतौ च"(धा।पा।४३९) इति स्तुतिव्यवहारयोः पणिः पठ()ते; तथापि स्तुत्यर्थस्यैव पणतेरायप्रत्यय इष्यते, न व्यवहारार्थस्य। तत्र वृत्तिकारः स्वयमेव युकिं()त वक्ष्यति। स्तुत्यर्थ्येन पणिना साहचर्यात् तदर्थ एव पणिरायमुत्पादयति,न व्यवहारार्थ इति। "शलाकां व्यवहरति" इति। परिगणयतीत्यर्थः। अत्र व्यवहारार्थे वत्र्तत इत्यसमानार्थत्वम्। "ब्राआहृणान् पणयति" इति। स्तौतीत्यर्थः। पणयीत्यस्यार्थे व्यवहरतेर्वृत्तिर्नास्तीत्यसमानार्थता।ओ।
बाल-मनोरमा
व्यवह्मपणोः समर्थयोः ६१०, २।३।५७

समर्थयोः किमिति। व्यवहारार्थकयोरिति किमर्थमित्यर्थः। शलाकाव्यवहार इति। प्रत्युदाहरणे व्यवहरतेर्न व्यवहारार्थकत्वमित्याह--गणनेत्यर्थ इति। वस्तुतःकर्मीभूतशलाकासंबन्धिगणनेति फलितम्। अत्र षष्ठ्याः पुनर्विध्यभावादस्त्येव समास इति भावः। ब्राआहृणपणनमिति। पणतेः प्रत्युदाहरणम्। अत्र पणिर्न व्यवाहारार्थ इत्याह--स्तुतिरित्यर्थ इति। वस्तुतःकर्मीभूतब्राआहृणसम्बन्धिनी स्तुतिरित्यर्थः। अत्रापि अस्त्येव समास इति भावः।

तत्त्व-बोधिनी
व्यवह्मपणोः समर्थयोः ५४६, २।३।५७

पणनमिति। "स्तुतावेव" इति वक्ष्यमाणत्वादायस्याऽभावः। ब्राआहृणपणनमिति। "आयादय आद्र्धधातुके वा" इत्यायस्य विकल्पः।