पूर्वम्: २।३।५९
अनन्तरम्: २।३।६१
 
प्रथमावृत्तिः

सूत्रम्॥ द्वितीया ब्राह्मणे॥ २।३।६०

पदच्छेदः॥ द्वितीया १।१ ब्राह्मणे ७।१ दिवः ६।१ ५८ तदर्थस्य ६।१ ५८ कर्मणि ७।१ ५२ षष्ठी १।१ ५०

काशिका-वृत्तिः
द्वितीया ब्राह्मणे २।३।६०

ब्राह्मणविषये प्रयोगे दिवस् तदर्थस्य कर्मणि कारके द्वितीया विभक्तिर् भवति। गामस्य तदहः सभायां, दीव्येयुः। अनुपसर्गस्य षष्ठ्यां प्राप्तायाम् इदं वचनम्। सोपसर्गस्य तु छन्दसि व्यवस्थितविभाशाया ऽपि सिध्यति।
न्यासः
द्वितीया ब्राआहृणे। , २।३।६०

"ब्राआहृणे; इति। ब्राआहृणशब्दः शथपथस्याख्या। "ग्रामस्य" इति। शेषषष्ठी। सभायामित्येतदपेक्षया। "तदहः" इति। एतदुहारणम्। "स्वमोर्नपुंसकात्" ७।१।२३ इत्यमो लुक्। "अहन्" ८।२।६८ इत्यनुवत्र्तमाने "रोऽसुपि" ८।२।६९ इति नकारस्य रेफः, विसर्जनीयः। "दीव्येयुः" इति। लिङ, झेर्जुस्, "अतो येयः" ७।२।८० इतीयादेशः, "लिङ सलोपोऽनन्त्तयस्य" ७।२।७९ इति सलोपः। सोपसर्गस्य विभाषया षष्ठ()आं प्राप्तायां नित्यं द्वितीयाविधानार्थं वचनं कस्मान्न भवतीत्याह-- "सोपसर्गस्य" इति। "विभाषोपसर्गे" २।३।५९ इत्यनेन व्यवस्थितविभाषयापि च्छन्दसि नित्यं द्वितीया भविष्यतीति तदर्थकमिदं वचनं नोपपद्यते॥