पूर्वम्: २।३।६३
अनन्तरम्: २।३।६५
 
प्रथमावृत्तिः

सूत्रम्॥ कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॥ २।३।६४

पदच्छेदः॥ कृत्वोऽर्थप्रयोगे ७।१ काले ७।१ अधिकरणे ७।१ षष्ठी १।१ ५० शेषे ७।१ ५०

काशिका-वृत्तिः
कृत्वो ऽर्थप्रयोगे काले ऽधिकरणे २।३।६४

छन्दसि बहुलम् इति निवृत्तम्। कृत्वो ऽर्थानां प्रयोगे काले ऽधिकरणे षष्ठी विभक्तिर् भवति। पञ्चकृत्वो ऽह्नो भुङ्क्ते। द्विरह्नो ऽधीते। कृत्वो ऽर्थग्रहणं किम्? आह्नि शेते। रात्रौ शेते। प्रयोगग्रहणं किम्? अहनि भुक्तम्। गम्यते हि द्विस् त्रश्चतुर् वेति, न त्वप्रयुज्यमाने भवति। कालग्रहणम् किम्? द्विः कांस्यपात्र्यां भुङ्क्ते। अधिकरणे इति किम्? द्विरह्नो भुङ्क्ते। शेषे इत्येव, द्विरहन्यधीते।
न्यासः
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे। , २।३।६४

"पञ्चकृत्वः" इति। "संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्" ५।४।१७ " द्विरह्नः" इति। "द्व्त्रिचतुर्थ्यः सुच्" ५।४।१८। "गम्यते हि द्विस्त्रिश्चतुर्वा" इति। प्रकरणादेरिति भावः। ननु च बहिरङ्गः प्रकरणाद्यर्थ इति पञ्चकृत्व इत्यमत्र च वचनस्य चरितार्थत्वादिह न भविष्यति? एवं तह्र्रेतज्ज्ञापयति-- प्रकरणाद्यर्थोऽपि विभक्तीनां निमित्तमिति। तेन "वृद्धो यूना" १।२।६५ इति " सहयुक्तेऽप्रधाने" २।३।१९ इति सहार्थे गम्यमाने तृतीया भवतीति॥
बाल-मनोरमा
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ६१४, २।३।६४

कृत्वोऽर्थ। कृत्वोऽर्थानामिति। कृत्वसुच्प्रत्ययस्यार्थ एवार्थो येषां ते कृत्वोऽर्थाः, तेषां प्रयोग इत्यर्थः। शेषे षष्ठीति। "दिवस्तदर्थस्ये"त्यादिपूर्वसूत्रे विच्छिन्नमपि शेषग्रहणं मण्डूकप्लुत्या इहानुवर्तते, व्याख्यानात्। पञ्चकृत्वोऽह्नो भोजनमिति। पञ्चवारं वस्तुतोऽधिकरणीभूतं यदहस्तत्संबन्धि भोजनमित्यर्थः। "सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्"। इह षष्ठ्याः शेषे पुनर्विधानान्न समासः। द्विरहन्यध्ययनमिति। "द्वित्रिचतुभ्र्यः सुच्" इति कृत्वोऽर्थे सुच्। अत्र अधिकरणस्य विवक्षितत्वात्सप्तम्येव,नतु षष्ठी।

तत्त्व-बोधिनी
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ५४९, २।३।६४

कृत्वोर्थ। कृत्वसुचोऽर्थ इवार्थो येषांप्रत्ययानां ते कृत्वोर्थाः। शेषे इति। इह "दिवस्तदर्थस्य"इत्यादिसूत्रषट्के विच्छिन्नमपि शेषग्रहणमनुवर्तते, व्याख्यानात्। पञ्चकृत्व इति। "सङ्ख्यायाः क्रिया---" इत्यादिना कृत्वसुच्। द्विरिति। "द्वित्रिचतुभ्र्यः सुच्"।