पूर्वम्: २।३।६६
अनन्तरम्: २।३।६८
 
प्रथमावृत्तिः

सूत्रम्॥ क्तस्य च वर्तमाने॥ २।३।६७

पदच्छेदः॥ क्तस्य ६।१ ६८ वर्तमाने ७।१ षष्ठी १।१ ५०

काशिका-वृत्तिः
क्तस्य च वर्तमाने २।३।६७

न लौउकाव्यय। निष्ठाखलर्थतृनाम् २।३।६९ इति प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते। क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर् भवति। रज्ञां मतः। राज्ञां बुद्धः। राज्ञां पूजितः। क्तस्य इति किम्? ओदनं पचमानः। वर्तमाने इति किम्? ग्रामं गतः। नपुंसके भाव उपसङ्ख्यानम्। छात्रस्य हसितम्। मयूरस्य नृत्तम्। कोकिलस्य व्याहृतम्। शेषविज्ञानात् सिद्धम्। तथा च कर्तृविवक्षायां तृतीया ऽपि भवति, छाऽत्रेण हसितम् इति।
न्यासः
क्तस्य च वत्र्तमाने। , २।३।६७

"राज्ञां मतः" इति। "मतिबुद्धि" ३।२।१८८ इत्यादिना क्तः। राज्ञामिति कत्र्तरि षष्ठी। कर्म तु निष्ठयाभिहितम्। अथेह कस्मान्न भवति-- शीलितो देवदत्तेन, रक्षितो देवदत्तेनेत्यादि, शीलितादिष्वपि "मतिबुद्धिपूजार्थेभ्यश्च" (३।२।१८८) इति चकारस्यानुक्तसमुच्चयार्थत्वनाद्वर्तमान एव क्तो विधीयते? यद्यप्येवम्, तथापि बहुलग्रहणानुवृत्तेरिह न भविष्यतीत्यदोषः। अथ वा-- प्रकरणादेवात्र वत्र्तमानकालता गम्यते। पदार्थस्तु भूतत्वमेव प्रतिपादयति, न वत्र्तमानताम्। यस्य तु पदार्थो वत्र्तमानस्तत्प्रयोगे भवत्येव षष्ठी, यथा-- "कान्तो हरिश्चन्द्र इव प्रजानाम्" इति। "शेषविज्ञानात् सिद्धम्" इति। उपसंख्यानं प्त्याचष्टे-- "तथा च" इत्यादिना। यस्तूपसंख्यानमारभते, तस्य कर्त्तृत्वाविवक्षायामपि षष्ठ()एव भवति, न तृतीयेति दर्शयति॥
बाल-मनोरमा
क्तस्य च वर्तमाने ६१७, २।३।६७

क्तस्य च वर्तमाने। ननु "कर्तृकर्मणोः कृती"त्येव सिद्धे किमर्थमिदमित्यत आह-न लोकेति। राज्ञां मतो बुद्धः पूजितो वेति। मनुधातोः बुधधातोः पूजधातोश्च "मतिबुद्धिपूजार्थेभ्यश्चे"ति वर्तमाने क्तप्रत्ययः। तत्र मतिरिच्छा, बुद्धेः पृथग्ग्रहणात्। राजकर्तृकवर्तमानेच्छाविषयः, राजकर्त्तृकवर्तमानज्ञानविषयः, राजकर्तृकवर्तमानपूजाश्रय इति क्रमेणार्थः। "पूजितो यः सुरासुरैः" "त्वया ज्ञातो घटः" इत्यत्र तु भूते क्तप्रत्ययो बोध्यः।

तत्त्व-बोधिनी
क्तस्य च वर्तमाने ५५२, २।३।६७

अधिकरण। अयमपि निषेधापवादः। आसितमिति। आस्यते अस्मिन्नित्यासितं, "क्तोऽधिकरणे च---" इत्यधिकरणे क्तः। इदमेषामिति। कर्तरि षष्ठीयम्। सकर्मकेभ्यस्त्वधिकरणे क्ते कृते कर्तृकर्मणोद्र्वयोरपि षष्ठी, अनभिहितत्वाऽविशेषात्। इदमेषां भुक्तमोदनस्य। "उभयप्राप्तौ कर्मणि" इत्ययं नियमस्तु नेह प्रवर्तते, "कर्तृकर्मणोः कृति"इत्यनन्तरस्या एव षष्ठ()आस्तन्निमाभ्युपगमात्। एतच्च कौस्तुभे स्पष्टम्।