पूर्वम्: २।३।६९
अनन्तरम्: २।३।७१
 
प्रथमावृत्तिः

सूत्रम्॥ अकेनोर्भविष्यदाधमर्ण्ययोः॥ २।३।७०

पदच्छेदः॥ अकेनोः ६।२ भविष्यदाधमर्ण्ययोः ७।२ ६९ षष्ठी १।१ ५०

काशिका-वृत्तिः
अकैनोर् भविष्यदाधमर्ण्ययोः २।३।७०

अकस्य भविष्यति काले विहितस्य, इनस् तु भविष्यति चाधमर्ण्ये च विहितस्य प्रयोगे षष्थी विभक्तिर् न भवति। कटं कारको व्रजति। ओदनं भोजको व्रजति। इनः खल्वपि ग्रामं गमी। ग्रामं गामी। शतं दायी। सहस्रं दायी। भविष्यदाधमर्ण्ययोः इति किम्? यवनां लावकः। सक्तूनां पायकः। अवश्यंकारी कटस्य। इह कस्मान् न भवति, वर्षशतस्य पूरकः, पुत्रपौत्राणां दर्शकः इति? भविष्यदधिकारे विहितस्य अकस्य इदं ग्रहणम्।
न्यासः
अकेनोर्भविष्यदाधमण्र्ययोः। , २।३।७०

"अकस्य भविष्यति काले" इति। नाधमण्र्ये, तस्य तत्रासम्भवात्। "इनस्तु भविष्यदाधमण्र्ययोः" इति। तस्योभयोरपि सम्भवात्। ननु च साम्यादिह संख्यातानुदेशेन भवितव्यम्? नैतदस्ति; स्वरितेन हि संख्यातानुदेशो भवति, न चेह तदर्थं स्वरितत्वं प्रतिज्ञायते। "कटं कारको व्रजति" इति। "तुमुन्ण्वुलौ" ३।३।१० इत्यादिना ण्वुल्। "ग्रामं गमी" इति। गमेरिनिः। स च "भविष्यति गम्यादयः" ३।३।३ इति वचनाद्भविष्यत्कालविषयः। "शतं दायी" इति। "आवश्यकाधमण्र्ययोर्णिनिः" ३।३।१७०। "यवानां लावकः" इति। "ण्वुलतृचौ" ३।१।१३३ इति ण्वुल्। "अवश्यं कारी" इति। आवश्यके णिनिः। "वर्षशतस्य पूरकः" इति। "पूरी आप्यायने" (धा।पा।११५१) चौरादिकः। तस्मात् "ण्वुल्तृचजौ" ३।१।१३३ इति भविष्यत्काले ण्वुल्। स हि त्रिषु कालेषु भवति। "भविष्यदधिकारविहितस्याकस्येदं ग्रहणम्" इति। इह हि भविष्यदिति स्वर्यते। स्वरितेनाधिकारावगतिर्भवति। तेन भविष्यदधिकारविहितस्येदमकस्य ग्रहणम्, न सर्वस्य॥
तत्त्व-बोधिनी
अकेनोर्भविष्यदाधमण्र्ययोः ५५२, २।३।७०

अकेनोः। आधमण्र्ये अकस्याऽसम्भवाह---भविष्यत्यकस्येति। इनस्तु उभयोः सम्भवादाह--भविष्यदाधमण्र्यार्थेनश्च योग इति। यथासंख्यं तु न भवति, भाष्ये "अकस्य भविष्यति" "इन आमण्र्ये च "इति योगं विभज्य व्याख्यानात्।इह भविष्यदिति स्वर्यते, तेन "भविष्यति गम्यादयः"इत्यधिकारे विहितः "तुमुन्()ण्वुलौ--" इति ण्वुलेव गृह्रत इत्याशयेनोदाहरति---सतः पालक इतिष सत इति शत्रन्तम्। यस्तु कालसामान्ये "ण्वुल्तृचौ--"इति ण्वुलुक्तस्त्तर न निषेधः, "ओदनस्य पाचकः" "पुत्रपौत्राणां दर्शक"इतीति भावः। व्रजं गामीति। "आवश्यकाधमण्र्ययोर्णिनिः" इत्यावश्यके णिनिः। यद्यप्ययं कालसामान्ये विहिकस्तथापि "भविष्यति गम्यादयः" इत्युक्तेर्भविष्यदर्थकः। गम्यादयः केचिदुणादयः, केचिदष्टाध्यायीगता इति हरदत्तः। ननु "गत्यर्थकर्मणि चतुर्थी च" इत्येव सिद्धे द्वितीय ग्रहणमपवादविषयेऽपि द्वितीयाप्रवृत्त्यर्थमिति व्रजङघ्गमिति सिध्यत्येवेति चेत्, अत्राहुः--इहैव सूत्रे ग्रामङ्गमीति भाष्योदाहरणात्तत्सूत्रं नाङ्गीक्रियते। तेन ग्रामस्य गन्तेति षष्ठ()एव साध्वी, न तु ग्रामं गन्तिति द्वितीयते। शतंदायीति। "आवश्यके"त्याधर्मण्ये णिनिः। "भविष्यदाधर्मण्यार्थेनश्च योग" इत्युक्तत्वान्नेह निषेधः। अवश्यं करोत्य वश्यङ्कारी कटस्य। गम्यादित्वाऽभावाद्वर्तमानेऽप्ययम्।