पूर्वम्: २।३।७०
अनन्तरम्: २।३।७२
 
प्रथमावृत्तिः

सूत्रम्॥ कृत्यानां कर्तरि वा॥ २।३।७१

पदच्छेदः॥ कृत्यानाम् ६।३ कर्तरि ७।१ वा षष्ठी १।१ ५० अनभिहिते ७।१

काशिका-वृत्तिः
कृत्यानां कर्तरि वा २।३।७१

कर्तृकर्मणोः कृति २।३।६५ इति नित्यं षष्थी प्राप्ता कर्तरि विकल्प्यते। कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर् भवति, न कर्मणि। भवता कटः कर्तव्यः, भवतः कटः कर्तव्यः। कर्तरि इति किम्? गेयो माणवकः साम्नाम्। उभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्यः। क्रष्टव्या ग्रामं शाखा देवदत्तेन। नेतव्या ग्राममजा देवदत्तेन।
न्यासः
कृत्यानां कत्र्तरि वा। , २।३।७१

"गेयो माणवकः साम्नाम्िति। "भव्यगेय" ३।४।६८ इत्यादिना कत्र्तरि गेयशब्दो व्युत्पादितः। गायतीति गेयः साम्नामिति कर्मणि षष्ठी नित्यमेव भवति। "वक्तव्यः" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- "न लोकाव्ययनिष्ठा" २।३।६९ इत्यत्र नेति योगविभागः कत्र्तव्यः, तेनोभयप्राप्तौ कृत्ये षष्ठ()आप्रतिषेधो भविष्यति। तेन क्रष्टव्या शाखा ग्रामं देवदत्तेनेति। कृषेः "अनुदात्तस्य चर्दुपधस्यान्तरस्याम्" ६।१।५८ इत्यमागमो भवति। देवदत्ते कत्र्तरि षष्ठी मा भूदिति। एवमुभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्य इत्युक्तम्। कर्मणि तु शाखायां कृत्येनाभिहित्वादेव षष्ठी न भविष्यति। ग्राम्यस्याप्रधानत्वादेव यथैव हि कृत्याः प्रधाने कर्मणि भवन्ति नाप्रधाने तथा षष्ठ()पि। न चेह ग्रामः प्रधानं कर्म, किं तर्हि? शाखेति॥
बाल-मनोरमा
कृत्यानां कर्तरि वा ६२१, २।३।७१

कृत्यानाम्। शेषपूरणेन सूत्रं व्याचष्टे--षष्ठी वा स्यादिति। "कृत्या" इत्यधिकृत्य विहिताः कतिपयकृत्प्रत्ययविशेषाः, तद्योगे कर्तरि षष्ठी वा स्यादित्यर्थः। कर्तृकर्मणोः" इति नित्यं प्राप्ते विकल्पोऽयम्। मया मम वा सेव्यो हरिरिति। "षेवृ सेवायाम्" "ऋहलोण्र्य"दिति कर्मणि ण्यत्प्रत्ययः। अस्मच्छब्दार्थस्य कर्तुरनभिहितत्वात्षष्ठींतृतीये। गेय इति। नन्विह साम्नः कर्मत्वस्य "अचो य"दिति यत्प्रत्ययाभिहितत्वात्कथं षष्ठीप्रसक्तिरित्यत आह--भव्येति। ननु "नेतव्या व्रजं गावः कृष्णेने"त्यत्र कृत्यसंज्ञकतव्यप्रत्यययोगात् "उभयप्राप्तौ" इति बाधित्वा कृष्णात्षष्ठीविकल्पः स्यात्, व्रज्रात्तु "कर्तृकर्मणोः कृती"ति नित्यं स्यादित्यत आह-अत्र योगो विभज्यत इति। विभागप्रकारं दर्शयति--कृत्यानामिति। अनुवर्तत इति। तथाच कृत्ययोगे कर्तृकर्मणोरुभयोः प्रसक्ता षष्ठी नेत्यर्थः फलति। नेतव्या व्रजमिति। "गुणकर्मणि वेष्यते" इति व्रजाद्विकल्पस्तु न भवति, नेता अ()आस्य रुआउघ्नस्य रुआउघ्नं वेति उभयप्राप्तिरहिते कृत्यव्यतिरेक्ते चरितार्थस्य "दोग्धव्या गाः पयः कृष्णेने"त्यादौ गुणकर्मण उक्तत्वेन प्रधानकर्मणि चरितार्थेनान#एन परत्वाद्बाधात्। ततः कर्तरि वेति। "कृत्याना"मिति सूत्रप्रणयनानन्तरं कर्तरि वेति पृथक्प्रेणतव्यमित्यर्थः। उक्तोऽर्थ इति। "कृत्याना"मित्यनुवर्त्त्य कृत्ययोगे कर्तरि षष्ठी वा स्यादिति व्याख्येयमित्यर्थः। उक्तोऽर्थ इति। "कृत्याना"मित्यनुवर्त्त्य कृत्ययोगे कर्तरि षष्ठी वा स्यादिति व्याख्येयमित्यर्थः। अनुभयप्राप्तिविषये "मया मम वा सेव्यो हरि"रित्यादाविदमवतिष्ठते।

तत्त्व-बोधिनी
कृत्यानां कर्तरिवा ५५३, २।३।७१

कृत्यानाम्। "कर्तृकर्मणोः" इति नित्ये प्राप्ते विभाषेयम्। सेव्य इति। "षेवृ सेवायाम्" , ऋहलोः--" इति कर्मणि निषेधार्थमिदम्। "गुणकर्मणि वेष्यते " इति तूभयप्राप्तिरहितस्थले नेताऽ()आरस्येत्यादौ चरितार्थमिति दिक्। तुल्यार्थेः। शेषषष्ठ()आं प्राप्तायां विकल्पेन तृतीया अनेन विधीयते, तया मुक्ते षष्ठ()एव भवेत्तदाह---पक्षे षष्ठीति। बहुवचननिर्देशादेव पर्यायग्रहणे सिद्धे"तुल्यार्थैः" इत्यर्थग्रहणं पदान्तरनैरपेक्ष्येण ये तुल्यार्थास्तेषां ग्रहणार्थं, तेन गौरवि गवय इत्यादौ नेत्याहुः। कथं तर्हि "तुलां यदारोहति दन्तवाससा" इति कालिदासः, "स्फुटोपमं भूतिसितेन शम्भुना" इति माघश्च()। उच्यते--"सहयुक्तेऽप्रधाने" इति तृतीया। न चात्र सहशब्दयोगो नेति शङ्क्यम्, विनापि तद्योगं तृतीयेत्यभ्युपगमात्। वेति वर्तमानेऽन्यतरस्याङ्ग्रहणमुत्तरसूत्रे चकारेण स्वस्यानुकर्षणार्थम्। अन्यथा हि तृतीयैवानुकृष्येत, संनिहितत्वात्।