पूर्वम्: २।३।७१
अनन्तरम्: २।३।७३
 
प्रथमावृत्तिः

सूत्रम्॥ तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्॥ २।३।७२

पदच्छेदः॥ तुल्यार्थैः ३।३ अतुलोपमाभ्यां ३।२ तृतीया १।१ अन्यतरस्याम् ७३ षष्ठी १।१ ५० शेषे ७।१ ५०

काशिका-वृत्तिः
तुल्यार्थैरतुलाउपमाभ्यां तृतीया ऽन्यतरस्याम् २।३।७२

तुल्यार्थैः शब्दैर् योगे तृतीया विभक्तिर् भवत्यन्यतरस्याम्, पक्षे षष्थी च, तुलाउपमाशब्दौ वर्जयित्वा। शेषे विषये तृतीयाविधानात् तया मुक्ते षष्थ्येव भवति। तुल्यो देवदत्तेन, तुल्यो देवदत्तस्य। सदृशो देएवदत्तेन, सदृशो देवदत्तस्य। अतुलोपमाभ्याम् इति किम्? तुला देवदत्तस्य न अस्ति। उपमा कृष्णस्य न विद्यते। वा इति वर्तमाने ऽन्यतरस्यां ग्रहनम् उत्तरसूत्रे तस्य चकारेन अनुकर्षणार्थम्। इतरथा हि तृतीया ऽनुकृष्येत।
न्यासः
तुल्यार्थैरतुलोपमाभ्मां तृतीयाऽन्यतरस्याम्। , २।३।७२

तुल्यार्थैः सदृशार्थैरित्यर्थः। अर्थग्रहणं पदान्तरनिरपेक्षया ये तुल्यार्थतामाहुस्तत्परिग्रहार्थम्। तेन पदान्तरसान्निध्येन द्योतका इवादयो निवर्तिता भवन्ति-- गौरिव गवय इति, यथा गौस्तथा गवय इति। स्वरूपनिवृत्त्यर्थत्वर्थग्रहणं न भवति; बहुवचननिर्देशादेव स्वरूपविधेर्निरस्तत्वात्। इहापि पितुस्तुल्यः प्रज्ञयेति प्रज्ञाशब्दात् षष्ठी न भवति हेतुत्वन करणत्वेन वा प्रज्ञाया विवक्षितत्वात् "इतरथा हि तृकतीयानुकृष्येत" इति। तस्या अनन्तरसूत्रे श्रुतत्वात्। अन्यतरस्यांग्रहणस्य त्वेतदेव प्रयोजनमिति। तदेव चकारेणानुकृष्यत इति॥ "तृतीयानिर्देशादेवार्थग्रहणे सिद्धेऽर्थग्रहणादर्थशब्दः पृथगेव निमित्तं विज्ञायते। कथं पुनस्तृतीयाग्रहणादर्थग्रहणं सिध्यति? अपरिसमाप्तत्वादस्य योग इत्यध्याह्यियते। स चार्थैरेव सम्भवति, न शब्दैरिति सामथ्र्यादर्थग्रहणं सिध्यति॥ इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेदन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां द्वितीयाध्यायस्य तृतीयः पादः ----------------- अथ द्वितीयाध्यायस्य चतुर्थः पादः
बाल-मनोरमा
तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् ६२२, २।३।७२

अथोपपदविभक्तयः। तुल्यार्थैः। शेषषष्ठ()आं नित्यं प्राप्तायां तृतीयाविकल्पोयम्। तुल्यैरिति बहुवचनादेव पर्यायग्रहणे सिद्धेऽर्थग्रहणं पदान्तरनिरपेक्षश्चेत्तुल्यार्थस्तेषां ग्रहणार्थम्। तेन "गौरिव गवय" इत्यादौ नेत्याहुः। अतुलोपमाभ्यामिति पर्युदासादनव्यययोग एवेदमित्यन्ये।

तत्त्व-बोधिनी
तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् ५५४, २।३।७२

तुल्य इति। तुलया संमितस्तुल्यः। "नौवयोधर्म--"इत्यादिना यत्। तुला उपमा वेति। तोलनं तुला। अस्मिन्नेव सूत्रे णिलुगङोर्निपातनात्साधुरिति माधवः। उपमितिरुपमा। "आतश्चोपसर्गे"इत्यङ्।