पूर्वम्: २।३।७
अनन्तरम्: २।३।९
 
प्रथमावृत्तिः

सूत्रम्॥ कर्मप्रवचनीययुक्ते द्वितीया॥ २।३।८

पदच्छेदः॥ कर्मप्रवचनीययुक्ते ७।१ ११ द्वितीया १।१

काशिका-वृत्तिः
कर्मप्रवचनीययुक्ते द्वितीया २।३।८

कर्मप्रवचनीयैर् युक्ते द्वितीया विभ्क्तिर् भवति। अनुर् लक्षणे १।४।८३ शाकल्यसय संहिताम् अनुप्रावर्षत्। आगस्त्यम् अन्वसिञ्चत् प्रजाः।
न्यासः
कर्मप्रवचनीययुक्ते द्वितीया। , २।३।८

"शाकल्यस्य संहितामनु प्रावर्षत्" इति। "अनुर्लक्षणे" १।४।८३ इति कर्मप्रवचनयीसंज्ञा।
बाल-मनोरमा
कर्मप्रवचनीययुक्ते द्वितीया ५४०, २।३।८

कर्मप्रवचनीय। युक्ते इति भावे क्तः। तदाह--एतेन योगे इति जपमन्विति। कदा पर्जन्योऽवर्षदिति प्रश्ने उत्तरमिदम्। अत्र वृष्टिकाल उपदेश्यः, स च दुज्र्ञानत्वात्"शाखाग्रं प्रति द्विकलश्चन्द्र" इतिवत्प्रज्ञानं किंचिदवलम्ब्यैव ज्ञाप्यः। जपोऽत्र प्रज्ञानम्, तत्र जपकाले पर्जन्यः प्रावर्षदिति संभवति। हेतुभूतजपो ह्रत्र लक्षणम्। हेतुत्वं च पूर्वकालवृत्तित्वघटितम्। एवंच वर्षहेतुभूतवरुणजपोत्तरकाले पर्जन्यः प्रावर्षदित्युत्तरं पर्यवस्यति। तत्र लक्षणत्वं हेतुत्त्वं चेति द्वयं द्वितीयार्थः। तदुभयमनुना द्योत्यते। लक्षणत्वं च ज्ञानजनकज्ञानविषयत्वम्। जपज्ञानेन तदुत्तरकालविशिष्टा वृष्टिज्र्ञाप्यते। ततस्च जपात्मकहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः। तदाह--हेतुभूतेति। अनभिहिताधिकारान्न पर्जन्यात्तृतीया, तस्य तिङा अभिहितत्वात्। ननु हेतुत्वाऽविवक्षायां "वृक्षमनु विद्योतते विद्यु"दित्यत्र "अनुर्लक्षणे"इत्यत्र तदनुपादानात्। एवंच हेतुत्वाऽविवक्षायां "वक्षमनु विद्योतते विद्यु"दित्यत्र "अनुर्लक्षणे" इति सावकाशम्। "हेतौ" इति तृतीया तु "धनेन कुल"मित्यादौ सावकाशा। "पर्जन्यो जपमनु प्रावर्ष"दित्यत्र तु तदुभयमपि प्रसक्तम्। तत्र परत्वाद्धेतुतृतीयैव स्यादित्यत आह--परापीति। "अनुर्लक्षणे" #इति कर्मप्रवचनीयत्वप्रयुक्तद्वितीयाविधिनेत्यर्थः। पुनः संज्ञेति। "वृक्षमनु विद्योतते विद्यु" दित्यत्र हि "अनुर्लक्षणे" इत्यस्य न प्रयोजनम्, "लक्षणेत्थ"मित्येव सिद्धेः। ततश्च "अनुर्लक्षणे" इत्यारम्भसामथ्र्याद्धेतुभूते लक्षणेऽनोः कर्मप्रवचनीयत्वलब्धया द्वितीयया हेतौतृतीया बाध्यत इति विज्ञायते इत्यर्थः। ततश्च हेतुत्वमपि शाब्दबोधे विषय इति फलति।