पूर्वम्: २।३।८
अनन्तरम्: २।३।१०
 
प्रथमावृत्तिः

सूत्रम्॥ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी॥ २।३।९

पदच्छेदः॥ यस्मात् ५।१ अधिकम् १।१ यस्य ६।१ ईश्वरवचनम् १।१ तत्र सप्तमी १।१ कर्मप्रवचनीययुक्ते ७।१

काशिका-वृत्तिः
यस्मादधिकं यस्य च ईश्वरवचनं तत्र सप्तमी २।३।९

कर्मप्रवचनीययुक्त इति वर्तते। यसमा दधिकं यस्य च ईश्वरवचनं कर्मप्रवचनीयैर् युक्ते तत्र सप्तमी विभक्तिर् भवति। उप खार्यं द्रोणः। उप निष्के कार्षापणम्। यस्य च ईश्वरवचनम् इति स्वस्वामिनोर्द्वयोरपि पर्यायेण सप्तमी विभक्तिर् भवति। अधि ब्रह्मदत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मदत्तः इति। द्वितीयापवादो योगः।
न्यासः
यस्मादधिकं यस्य चे�आरवचनं तत्र सप्तमी। , २।३।९

"उपखार्यां द्रोणः" इति। खार्या अधिको द्रोण इत्यर्थः। "उपोऽधिके च" १।४।८६ इत्युपशब्दस्य कर्मप्रवचनीयसंज्ञा। "यस्य चे()आरवचनम्" इति। यस्य चे()आरव्यपदेश इत्यर्थः। ई()आरव्यदेशस्तु स्वामिन एव सम्भवति। तत्रैव सप्तम्या भवितव्यमिति कस्यचिद्भ्रान्ति स्यात्, अतस्तान्निराकर्त्तुमाह-- "यस्य चे()आरवचनम्" इत्यादि। यस्य चे()आरवचनमित्यनेन द्वयोरपि = स्वस्वामिनोः पर्यायेण सप्तमी भवतीति। कथम्, यावता "अधिरी()आरे" १।४।९६ इत्यनेनाधिकशब्दस्य कर्मप्रवचनीयसंज्ञा विहिता, ई()आरस्तु स्वमी, स च स्वमपेक्ष्य भवति? स्वस्वामिसम्बन्धेऽधिशब्दः कर्मप्रवचनीयसंज्ञो भवति। तत्र कदाचित् स्वामी कर्मप्रवचनीयविभक्तया युज्यते, कदाचित् स्वमित्येतत् प्रतिपादितं प्रागेव। कथं पुनर्यस्य चे()आरवचनमित्युच्यमाने स्वमपि कर्मप्रवचनीयविभक्त्या युज्यते, न हि तस्ये()आरव्यपदेशोऽस्ति? एवं तर्हि अनुक्तसमुच्चयार्थश्चकारः क्रियते, तेन यस्ये()आरव्यपदेशो नास्ति तत्रापि सप्तमी विज्ञायत इत्यदोषः॥
बाल-मनोरमा
यस्मादधिकं यस्यचे�आरवचनं तत्र सप्तमी ६३७, २।३।९

यस्मादधिकम्। "कर्मप्रवचनीययुक्ते" इत्यनुवर्तते। तदाह--अत्र कर्मप्रवचनीयेति। शेषषष्ठ()पवादः। उप पराध इति। अवधित्वं सप्तम्यर्थः। तदाह--परार्धादधिका इत्यर्थ इति। यस्मादधिकं संख्यान्तरं न विद्यते तत्परार्धम्। तदपेक्षयेत्यर्थः। "उपोऽधिके च" इति उपेत्यस्य कर्मप्रवचनीयत्वस्येदं फलम्। यस्ये()आरवचनमित्यस्य यत्सम्बन्धी ईस्वर उच्यते तत सप्तमीत्येकोऽर्थः। इह यच्छब्देन स्वमुच्यते। #एवंच स्ववाचकात्सप्तमीति लभ्यते। ई()आरशब्दो भावप्रधानः। यस्ये()आरत्वमुच्यते ततः सप्तमीत्यन्योऽर्थः। यन्निष्ठमी()आरत्वमुच्यते ततः सप्तमीति यावत्। स्वामिवाचकात्सप्तमीति लभ्यते। तदाह--ऐ()आर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमीति।

अधि भुवि राम इति। अधिरी()आरपर्यायः। संबन्धः सप्तम्यर्थः। भुवः स्वामी राम इत्यर्थः। अत्र स्ववाचकात्सप्तमी। अधि रामे भूरिति। अत्र अधिः स्वशब्दपर्यायः। सम्बन्धः सप्तम्यर्थः। रामस्य स्वभूता भूरित्यर्थः। अत्र स्वामिवाचकात्सप्तमी। समासपक्षे त्विति। शौण्डादिगणे अधिशब्दस्य पठितत्वेन तेनाऽधिशब्देन रामे इति सप्तम्यन्तस्य समासे सति "सुपो धातु" इति सुब्लुकि रामाधिशब्दात् "अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाध्युत्तरपदात्खः" इति खप्रत्यये "आयनेयीनीयियः" इति तस्य ईनादेशे रामाधीना भूरिति सिध्यति। रामस्वामिकेत्यर्थः। विभक्त्यर्थे अव्ययीभावे त्वधिरामं भूः। रामाधिकरणिका भूरित्यर्थः। खप्रत्ययस्तु न, अध्युत्तरपदत्वाऽभावात्।