पूर्वम्: २।३।७३
अनन्तरम्: २।४।२
 
सूत्रम्
द्विगुरेकवचनम्॥ २।४।१
काशिका-वृत्तिः
द्विगुरेकवचनम् २।४।१

द्विगुः समासः एकवचनं भवति। एकस्य वचनम् एकवचनम्। एकस्य अर्थस्य वाचको भवति इत्यर्थः। तदनेन प्रकारेण द्विग्वर्थस्य एकवद् भावो विधीयते, द्विग्वर्थ एकवद् भवति इति। समाहारद्विगोश्च इदं ग्रहणम्, न अन्यस्य। पञ्चपूलाः समाहृताः पञ्चपूली। दशपूली। द्विग्वर्थस्य् ए)कत्वादनुप्रयोगे ऽप्येकवचनं भवति, पञ्चपूलीयं शोभना इति।
लघु-सिद्धान्त-कौमुदी
द्विगुरेकवचनम् ९४५, २।४।१

द्विग्वर्थः समाहार एकवत्स्यात्॥
न्यासः
द्विगुरेकवचनम्। , २।४।१

अत्र यदि पारिभाषिकमेकवचनं गृह्रेत तदानुप्रयोग एकवचनं न स्यात्-- पञ्चपूलीयं शोभनेति, अनुप्रयोगस्याद्विगुत्वात्। यदि पारिभाषिकमेकवचनमिहाभिप्रेतं स्यात् तदा द्विगोरेकवचनमित्येवं ब्राऊयात्, तस्मादन्वर्थस्यैकवचनस्येदं ग्रहणं न पारिभाषिकस्येति मनसि कृत्वाह-- "एकस्य वचनमेकवचनम्" इति। एतेनैकवचनशब्दस्य षष्ठीसमासतां दर्शयन्नन्वर्थतां दर्शयति। एकस्य वचनं वाचकमेकवचनमिति। वक्तीति वचनम्, "कृत्यल्युटो बहुलम्" ३।३।११३ इति कत्र्तरि ल्युट्। एकवचनस्यैवार्थं पर्यायान्तरेण स्पष्टीकर्तुमाह-- "एकार्थस्य" इत्यादि। ननु चैकवचनमिति पुंल्लिङ्गेन भवितव्यम्; कथम्? द्विगोः पुंल्लिङ्गत्वात्; न; लिङ्गसामान्यस्य विवक्षितत्वान्नपुंसकलिङ्गेनैव सामान्येन निर्देशः कृत इत्यदोषः। "तदनेन प्रकारेण" इति। अन्वर्थस्यैकवचनशब्दग्रहणात्मकेनेत्यर्थः। नचानेकार्थाभिधायिनः शब्दस्य वचनशतैरप्येकार्मथाभिधायित्वं शक्यते कर्त्तुम्; शब्दानामर्थाभिधायित्वस्य स्वाभाविकत्वात्; उच्यते चेदं वचनम्, ततः सामथ्र्यादतिदेशोऽयं विज्ञायत इत्यत आह-- "द्विग्वर्थस्यैकवद्भावो विधीयते" इति। अस्यैवार्थं स्पष्टीकत्र्तमाह-- "द्विग्वर्थ एकवद्भवति" इति। यद्येवम्, तद्धितार्थो यो द्विगुस्तस्याप्यकवद्भावः प्राप्नोति-- पञ्चसु कपालेषु संस्कृतौ संस्कृता वा पञ्चकपालौ पञ्चकपाला वेत्यत आह-- "समाहारद्विगोश्च" इत्यादि। चकारोऽवधारणे। समाहारद्विगोरेवेति यावत्। कथं पुनः समाहारद्विगोरेव ग्रहणं लभ्यते? एवं मन्यते-- "द्वन्द्वश्च" २।४।२ इत्यत्र चकारेण द्विगुरनुकृष्यते। यस्मिन्नर्थे द्वन्द्व एकार्थीभवति तस्मिन्नेवार्थे द्विगोरप्येकवद्भावो यथा स्यादिति। द्वन्द्वश्च समाहार एवैकार्थीभवति, नान्यत्र। तस्मात् द्विगोरप्येकवद्भावस्तत्रैव भवति; अतः समाहारद्विगोरेवेदं ग्रहणं युक्तं भवति। यदि तर्हि समाहारद्विगोरेवेदं ग्रहणं तदा निष्प्रयोजनोऽतिदेशः, तथा हि-- समाहारो द्विगोरर्थः, समाहारश्च भावसाधनः, समाहरणं समाहारः = समुदायः, स चैक एव। तत्र न्यायप्राप्तमेवैकवचनमिति निष्फलः सूत्रारम्भः? नैतदस्ति; यतः "समुदायिभ्योऽनन्यः समुदायः" इत्यस्मिन् दर्शनेऽनेकद्रव्यात्मकत्वात् समुदायस्यैकवचनं न सिद्ध्यतीतीदमारब्धम्। तथा चोक्तं भाष्ये-- "प्रत्यधिकरणं वचनोत्पत्तेः संख्यासामानाधिकरण्याच्च द्विगोरेकवचने विधानम्" इति। प्रत्यधिकरणम् = प्रतिद्रव्यम्। वचनस्योत्पत्तौ प्रत्यभिधेयद्रव्यसमवायिनी संख्याविभक्तिः प्रयोजिकोत्पद्यते। द्विगोश्च योऽर्थः सोऽनेकद्रव्यात्मकः। तथा हि-- पञ्च समाह्मताः। समाह्यियमाणानां पूलानां पञ्चसंख्यावच्छिन्नत्वात् संख्यासामानाधिकरण्याच्च पञ्चैतानि द्रव्याणीति कृत्वा समुदायस्यैकवचनं न सिद्ध्यति। तत्रासत्यस्मिन् वचने बहुत्वात् बहुवचनं स्यात्। अत एवद्भावो विधीयत इति वाक्यार्थः। "समुदायिभ्योऽन्यः समुदायः" इत्यस्मिन् दर्शने सूत्रमिदं प्रत्याख्यातव्यमेव। तथा चोक्तं भाष्ये-- "न वा समाहारैकत्वात्" इति। न वा योगारम्भेणैवार्थः। यस्मादेकोऽयमर्थः समाहारो नाम। तत्रैकत्वादेकवचनं भविष्यतीति वाक्यार्थः। "पञ्चपूली" इति। "अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते" (वा।१५६) इति स्त्रीत्वे सति द्विगोः" ४।१।२१ इति ङीप्। "अर्थस्यैकत्वात्" इत्यादिनाऽर्थातिदेशस्य फलं दर्शयति॥
बाल-मनोरमा
द्विगुरेकवचनम् ७२१, २।४।१

द्विगुरेकवचनम्। अत्र "समाहारग्रहणं कर्तव्य"मिति वार्तिकात्समाहार इति लभ्यते। वक्तीति वचनम्। बाहुलकः कर्तरि ल्युट्। सामान्ये नपुंसकम्। समाहारे द्विगुरेकार्थप्रतिपादकः स्यादिति लभ्यते। तत्र यदि समाह्यियत इति कर्मणि घञि समाहारशब्दः समाह्मतप्रधानः तदा समाह्मतगतद्वित्वबहुत्वयोः एकत्वानुपपत्तेरतिदेशः सम्पद्यते। तदाह--द्विग्वर्थः समाहार एकवदिति। यदा समाहरणं समाहारः=समूहः, तदा तस्यैकत्वादेव सिद्धमिति नेदं सूत्रमारम्भणीयमिति भाष्ये स्पष्टम्। केचित्तु समूहस्य वस्तुत एकत्वेऽपि उद्भूतावयवभेदविवक्षया द्विबहुवचनव्यावृत्त्यर्थमिदम्। एवं चात्र उद्भूतावयवभेदविवक्षा न कर्तव्येति फलतीत्याहुः।

स नपुंसकमिति। समाहारे द्विगुद्र्वन्द्वश्च नपुंसकं स्यादिति तदर्थो मूले वक्ष्यते।[इति द्विगुसमासः]।

तत्त्व-बोधिनी
सङ्ख्यापूर्वो द्विगुः ६३९, २।४।१

द्विगुरेकवचनम्। वक्तीति वचनम्। बाहुलकात्कर्तरि ल्युट्। "सामान्ये नपुंसकम्"। द्विगुः समास एकर्थप्रतिपादको भवतीत्यर्थः। न च वस्तुतोऽनेकार्थस्यैकार्थत्वं कथंचिदुपपद्यत इति सामथ्र्यादतिदेशः संपद्यत इत्याह--एकवत्स्यादिति। "समाहारे"इति तूपसङ्ख्यानाल्लभ्यते। समाहारे यो द्विगुस्तदर्थ एकवदित्यवयः। समाहारे किम्()। तद्धितार्थे माभूत्। पञ्चसु कपालेषु संस्कृताः पञ्चकपालाः, पञ्चभिर्गोभिः क्रीताः पञ्चगवः पटाः। पञ्चगवे पञ्चगवानीत्यत्र तु प्रथम् द्विगर्थस्यैकवद्भावे कृते योऽयमेकशेषे कृते द्विगर्थसमुदायस्तस्याऽद्विगर्थत्वाद्बहिरङ्गत्वाच्चैतवद्भावो न भवतीति स्थितमाकरे। यदा "तद्धितार्थ"इति सूत्रे "समाहारे"इति कर्मसाधनस्तदा समाह्मतप्रधानो द्विगुरिति बहुत्वे प्राप्तेऽनेन एकवद्भावः क्रियते। यदा तु भावसाधन एव समाहारस्तदा समूहप्रधानत्वाद्द्विगोः, समूहस्य चैकत्वात्सिद्धमेकत्वमिति नास्य प्रयोजनम्। न च "स नपुंसक"मिति नपुंसकत्वार्थमेकत्वविधानमितिवाच्यं, समुदायवाचकेषु "सामान्ये नपुंसक"मित्यभ्युपगमे बाधकाऽभावादित्याहुः। वस्तुतस्तु "तद्धितार्त"इति सूत्रे समाहार इति भावे घञ्न तु कर्मणि। "पञ्चगव"मित्यत्र पञ्च गव#ः समाह्मता इत्यर्थाभ्युपगमे समाह्यियमाणानां बहुत्वेन एकवचनानुपपत्तेः। न च "द्विगुरेकवचन"मिति सूत्रान्नैवमिति वाच्यम्, पञ्चखट्वीत्यसिद्धेः। तत्र हि पञ्च खट्वाः समाह्मताः, पञ्चसु खट्वासु समाह्मतास्वित्येवं विग्रहसंभवेन नियतविभक्तित्वाऽभावादेविभक्ति चापूर्वनिपाते इत्यप्रवृत्तेरनुपसर्जनत्वात् "गोस्त्रियो"रिति ह्यस्वो न स्यात्। ततश्च "आबन्तो वे"ति स्त्रीत्वपक्षे "द्विगोः"इत्यदन्तलक्षणो ङीब्न स्यात्। भावसाधनत्वे त्वेकविभक्तित्वादुपसर्जनत्वमव्याहतमेव। समाहारापेक्षया नियमेन वर्तिपदानां षष्ठ()न्तत्वात्, तथा च पञ्चखट्वीत्यादिरूपं निर्बाधमेवेति दिक्। स नपुंसकमिति। एतस्यार्थो मूल एव स्फुटीभविष्यति।