पूर्वम्: २।४।९
अनन्तरम्: २।४।११
 
सूत्रम्
शूद्राणामनिरवसितानाम्॥ २।४।१०
काशिका-वृत्तिः
शूद्राणाम् अनिरवसितानाम् २।४।१०

निरवसानं बहिष्करणम्। कुतो बहिष्करणम्? पात्रात्। यैर् भुक्ते पात्रं संस्कारेण अपि न शुध्यति ते निरवसिताः। न निरवसिताः अनिरवसिताः। अनिरवसितशूद्रवाचिनां शब्दानां द्वन्द्व एकवद् भवति। तक्षायस्कारम्। रजकतन्तुबायम्। अनिरवसितानाम् इति किम्? चण्डालमृतपाः।
न्यासः
शूद्राणामनिरवसितानाम्। , २।४।१०

यद्यपि "षिञ् बन्धने" (धा।पा। १२४८) इति सिनोतिर्बन्धने वत्र्तते; तथापि निरवपूर्वो बहिष्करणे वत्र्तत इत्याह-- "निरवसानं बहिष्करणम्"। यैर्भुक्ते पात्रं संस्कारेणापि न शुद्ध्यति तस्मात् ते ततो बहिष्कृताः = पृथक्कृताः। न लभन्ते तत्र भोक्तुमित्यर्थः॥
बाल-मनोरमा
शूद्राणामनिरवसितानाम् ९०४, २।४।१०

शूद्राणाम्। "अनिरवसित"शब्दं व्याचष्टे--अबहिष्कृतानामिति। "यैर्भुक्तं पात्रं क्षारोदकप्रक्षालनेन संस्कारेणापि न शुध्यत ते निरवसिताः,--चण्डालादयः। यैस्तु भुक्तं पात्रं संस्कारेण शुध्यति तेऽनिरवसिताः"इति भाष्ये स्पष्टम्य। शूद्राणामिति।त्रैवर्णिकेतरः शूद्रशब्देन विवक्षितः, "अनिरवसिताना"मिति लिङ्गात्। प्राग्वदिति। समाहरद्वन्द्व एकवदित्यर्थः। तक्षायस्कारमिति। तक्षाणश्च अयस्काराश्चेति विग्रहः। "अनिरवसिताना"मित्यस्य प्रयोजनमाह--पात्रादिति। चण्डालमृतपा इति। #एतद्भुक्तपात्रस्य संस्कारेणापि नास्ति शुद्धिरिति-अत एव भाष्याद्विज्ञेयम्। धर्मशात्रेषु च प्रसिद्धमेतत्।

तत्त्व-बोधिनी
शूद्राणामनिरवसितानाम् ७८०, २।४।१०

शूद्राणां। "त्रैवर्णिकेतरमनुष्यपरः शूद्रशब्दो न तु शूद्रत्वजातिपरः, "अनिरवसिताना"मिति निषेधात्। पात्रादिति। यैर्भुक्ते"भस्मना शुध्यते कांस्य"मित्यादिस्मृत्युक्तसंस्कारेणापि पात्रं न शुध्यति तेषामित्यर्थः।