पूर्वम्: २।४।१०
अनन्तरम्: २।४।१२
 
सूत्रम्
गवाश्वप्रभृतीनि च॥ २।४।११
काशिका-वृत्तिः
गवाश्वप्रभृतीनि च २।४।११

गवाश्वप्रभृतीनि च कृतएकवद्भावनि द्वन्द्वरूपाणि साधूनि भव्न्ति। गवाश्वम्। गवाविकम्। गवैडकम्। अजाविकम्। अजैडकम्। कुब्जवामनम्। कुब्जकैरातकम्। पुत्रपौत्रम्। श्वचण्डालम्। स्त्रीकुमारम्। दासीमाणवकम्। शाटीपिच्छकम्। उष्ट्रखरम्। उष्त्रशशम्। मूत्रशकृत्। मूत्रपुरीषम्। यकृन्मेदः। मांसशोणितम्। दर्भशरम्। दर्भपूतीकम्। अर्जुनशिरीषम्। तृणोलपम्। दासीदासम्। कुटीकुटम्। भागवतीभागवतम्। गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम्। रूपान्तरे तु न अयं विधिर् भवति। गो ऽश्वम्, गो ऽश्वौ। पशुद्वन्द्वविभाषा एव भवति।
न्यासः
गवा�आप्रभृतीनि च। , २।४।११

गवाश्चादीनि कृतैकवद्भावानि गणे पठ()न्ते। तेषाममनेन साधुत्वमात्रं विधीयते। न त्वेकवद्भाव इति दर्शयन्नाह-- "गवा()आआदीनि" इति। ग्वा()आमित्येवमादीनामजैडकपर्यन्तानां पशुद्वन्द्वविकल्पे वचनमिदम्। कुब्जवामनप्रभृतीनां त्रयाणामप्राप्ते। ()आचाण्डालस्याविरोधः? यदा विरोधं द्वन्द्वो नाचष्टे केवलञ्चार्थमात्रे वत्र्तते तदा ()आचाण्डालमिहास्तीति। "स्त्रीकुमारं दासीमाणवकम्" इत्यप्राप्ते वचनम्। "शाटीपिच्छकम्" इति "जातिरप्राणिनाम्" २।४।६ इति सिद्धे, अबहुप्रकृत्यर्थः पाठः। "उष्ट्रखरमुष्ट्रशशम्" इति। पशुद्वन्द्वविभाषाप्राप्तौ नित्यार्थम्। मूत्रशकृदादीनां मांसशोणितपर्यन्तानामप्राणिजातीनामबहुप्रकृत्यर्थः पाठः। दर्भशरप्रभृतीनां तृणविभाषायां प्राप्तायां वचनम्। दासीदासादीनां त्रयाणामप्राप्ते। "पुमान् स्त्रिया" १।२।६७ इत्येकशेषो न भवत्यस्मादेव निपातनात्। "गवा()आप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम्" इति। कथम्? तथा रूप्सयाश्रयणात्। गणपाठे हि यदेषां शब्दानां रूपं तदाश्रितम्। येन यथोच्चारितानामेकवद्भावलक्षणं द्वन्द्ववृतं भवति। "रूपान्तरे तु नायं विधिः" इति। यदा "अवङ स्फोटायनस्य " ६।१।११९ इत्यवङ नास्ति तदा रूपान्तरे जातेऽनेन सूत्रेण यो विधिः क्रियते स न भवति। पशुद्वन्द्वविभाषैव प्रवत्र्तते॥
बाल-मनोरमा
गवा�आप्रभृतीनि च ९०५, २।४।११

गवाशम्वप्रभृतीनि च। यथागणे गणितानि तथैव साधीनित्यर्थः। गवा()आमिति। गावश्चा()आआश्चेति विग्रहः। अत्र "विभाषा वृक्षे"ति पशुद्वन्द्वत्वाद्विकल्पे प्राप्ते नित्योऽयं विधिः।अत्र "सर्वत्र विभाषे"ति प्रकृतिभावे पूर्वरूपे च गो-अ()आं, गोऽ()आमिति नैकवत्त्वनियमः, "यथोच्चारितानी"त्युक्तेः, गणे च गवा()आमित्येव निर्देशात्। गवा()आआदिषु "यथोच्चारितं द्वन्द्ववृत्तमिति वार्तिकमत्र मानम्। दासीदासमिति। अत्रैकवत्त्वनियमः। पुमान्स्त्रिये"त्येकसेषस्तु निपातनान्न। इत्यादिति। गवाविकं गवैडकमित्यादि वृत्तौ स्पष्टम्।

तत्त्व-बोधिनी
गवा�आप्रभृतीनि च ७८१, २।४।११

गवा()आ। यथोच्चारितानीति। गणपाठे पाणिनिना यथा पाठितानि तथैव साधूनीत्यर्थः। तेनाऽवङः पाक्षिकत्वाद्यदा नावङ् तदा उत्तरसूत्रेण विकल्पो न भवति। गोअ()आम्। "अपशवो वा अन्ये गोअ()ओभ्यः, पशवो गोअ()आआः"। गवा()आमिति। इह पशुद्वन्द्वे विभाषा प्राप्ता। दशीदासमिति। अत्र "पुमान्स्त्रिये"त्येकशेषो बाध्यते।