पूर्वम्: २।४।११
अनन्तरम्: २।४।१३
 
सूत्रम्
विभाषा वृक्षमृगतृणधान्यव्यञ्जन- पशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्॥ २।४।१२
काशिका-वृत्तिः
विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् २।४।१२

वृक्ष मृग तृण धन्य व्यञ्जन पशु शकुनि अश्ववडव पूर्वापर अधरोत्तर इत्येतेषाम् द्वन्द्वो विभाषा एकवद् भवति। प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः। रुरुपृषतम्, रुरुपृषताः। कुशकाशम्, कुशकाशाः। व्रीहियवम्, व्रीहियवाः। दधिघृतम्, दधिघृते। गोमहिषम्, गोमहिषाः। तित्तिरिकपिञ्जलम्, तित्तिरिकपिञ्जलाः। अश्ववडवम्, अश्ववडवौ। पूर्वापरम्, पूर्वाप्रे। अधरोत्तरम्, अधरोत्तरे। बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम्। एषां बहुप्रकृतिरेव द्वन्द्व एकवद् भवति, न द्विप्रकृतिः। बदरामलके। रथिकाश्वारोहौ। प्लक्षन्यग्रोधौ। रुरुपृषतौ। हंसचक्रवाकौ। यूकालिक्षे व्रीहियवौ। कुशकाशौ।
न्यासः
विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्य�आवडवपूर्वापराधरोत्तराणाम्। , २।४।१२

वृक्षादिग्रहयणेनेह वक्षादिविशेषवाचिनां ग्रहणम्। कथम्? यस्मादत्र हि वृक्षादिभिद्र्वन्द्वः प्रत्येकं विशिष्यते, तेनैषा विभाषा तुल्यजातीयेष्वेवावतिष्ठते। विरूपेषु तुल्यजातीयेष्वपि, न स्वरूपेषु। तेषां द्वन्द्वो नास्ति; एकशेषविधानात्। विरूपेष्वपि न पर्यायेषु। तेषां द्वन्द्वाभावात्। द्वन्द्वाभावश्च युगपत्प्रयोगाभावात्, युक्तार्थाभावाच्च। चार्थाभावस्त्वर्थभेदाभावात्। भिन्नाधिष्ठाना हि चार्थता। न च पर्यायाणां भिन्नार्थता सम्भवति; तस्माद्वरूपेष्वेव वृक्षादिविशेषवाचिष्वस्या विभाषाया उपस्थानम्। तेन विशेषग्रहणं वृक्षादिषु विज्ञायते, न स्वरूपग्रहणम्, नापि पर्यायग्रहणम्। अथ सामान्यविशेषवाचिनां ग्रहणं कस्मान्न विज्ञायते, सम्भवति हि सामान्यविशेषवाचिनां द्वन्द्वः, यथा-- गोवलीवर्दमिति? न; अनभिधानात्। न हि वृक्षधवमित्येवं लोकेऽभिधानमस्ति; धवशब्दादेव तदर्थाभिधायिनो वृक्षशब्दस्यार्थस्यावगत्वात्, धवादिशब्दप्रयोगे वृक्षादिशब्दस्य प्रयोगानर्हत्वात्। गोवलीवर्दमित्यत्र तु बलीवर्दसन्निधाने गोशब्दस्य स्त्रीगवीष्वेव वृत्तेद्र्वावपि विशेषवाचिनाविति युक्तो द्वन्द्वः। येऽत्राप्राणिवाचिनस्तेषां "जातिरप्राणिनाम्" २।४।६ इत्येकवद्भावे नित्ये प्राप्ते वचनमिदं विभाषार्थम्। परिशिष्टानामप्राप्ते। पशुग्रहणेनैव मृगादिग्रहणे सत्यपि प()आन्तरेणेषां किमर्थम्? तुल्यजातीयानां द्वन्द्वोऽयमेकवद्भवतीत्युक्तम्, अत्र पशुग्रहणेनैव सिद्धे मृगादिग्रहणे सत्यपि प()आन्तरेणेषां परस्परेण वा द्वन्द्वो मा भूदित्येवमर्थम्। "पशुद्वन्द्व" इत्येवं सिद्धेऽ()आवडवग्रहणं नियमार्थम्। योऽन्य एतयोः पर्यायस्तत्र मा भूत्-- हयवडवे इति। "बहुप्रकृतिः" इति। बह्वर्था बहुवचनान्ता वा प्रकृतिर्यस्य स बहुप्रकृतिः। बह्वर्थानां फलादीनामेषां बहुवचनान्तानां वा द्वन्द्व एकवद्भवतीत्यर्थः॥
बाल-मनोरमा
विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्य�आवडवपूर्वापराधरोत्तराणाम् ९०६, २।४।१२

विभाषा वक्ष। द्वन्द्व" इत्यनुवृत्तम्। एकापि षष्ठी विषयभेदाद्भिद्यते। वृक्षादिसप्तानामवयवत्वेनान्वयः--वृक्षादीनां द्वन्द्व" इति। वृक्षाद्यवयवको द्वन्द्व इति लभ्यते। अ()आबहबादियुगलत्रयस्य त्वभेदेनान्वयः-"अ()आवडव", "पूर्वापर," "अधरोत्तरे"त्यात्मको द्वन्द्व" इति।

तदाह--वृक्षादीनामिति। प्राग्वदिति। विकल्पेन एकवदित्यर्थः। वृक्षादाविति। वृक्षविशेषवाचिनां, तृणविशेषवाचिनां, धान्यविसेषवाचिनां पशिविशेषवाचिनां चेत्यर्थः। "स्वं रूप"मिति सूत्रे भाष्यवार्तिकयोस्तथोक्तत्वादिति भावः। तथा च वृक्षाश्च धवाश्चेत्यादौ नायं विधिरिति फलितम्। किं तु "जातिरप्राणिना"मिति नित्यमेवैकवत्त्वम्। तत्र वृक्षाद्यवयवकद्वन्द्वेषु सप्तसु वृक्षद्वन्द्वमुदाहरति--प्लक्षेति। प्लक्षाश्च न्यग्रोधाश्चेति विग्रहः। मृगद्वन्द्वमुदाहरति--रुरुपृषतमिति। रुरवश्च पृषताश्चेति विग्रहः। तृणद्वन्द्वमुदाहरति--कुशेति। कुशास्च काशाश्चेति विग्रहः। धान्यद्वन्द्वमुदाहरति--व्रीहिति। व्रीहयश्च यवाश्चेति विग्रहः। व्यञ्जनद्वन्द्वमुदाहरचि--दधीति। दधि च घृतं चेति विग्रहः। पसुद्वन्द्वमुदाहरति-गोमहिषमिति। गावस्च महिषाश्चेति विग्रहः। शकुनिद्वन्द्वमुदाहरति--शुकेति। शुकाश्च बकाश्चेति विग्रहः। अ()आवडवादिद्वन्द्वमुदाहरति-अ()आवडवमिति। अ()आआश्च वडवाश्चेति विग्रहः। "पूर्वपद()आवडवौ" इति अ()आवडवादित्यत्र पूर्वपदवत्पुंलिङ्गता।

फलसेनेति। एकवद्भावप्रकरणशेषभूतमिदं वार्तिकम्। द्वन्द्वश्च प्राणी"त्यादिसूत्रैः फलसेनादीनां द्वन्द्व एकवद्भवन् बहुवचनान्तावयवक एव एरवद्भवति, नत्वेकद्विवचनान्तावयवक इत्यर्थः। तत्र फलद्वन्द्वमुदाहरति--बदराणि चेति। बदरीफलानि आमलकीफलानि चेत्यर्थः। विकारतद्धितस्य फले लुक्। "सुक्तद्धितलुकी"ति स्त्रीप्रत्ययस्य लुक्। जातिरिति। बहुवचनान्तावयवकद्वन्द्वत्वात् "जातिरप्राणिना"मित्येकवत्त्वमित्यर्थः। "बहुप्रकृतिरेवे"त्यस्य प्रयोजनमाह--नेहेति। बदरामलके इति। बदरं चामलकं चेति विग्रहः। बहुवचनान्तावयवकद्वन्द्वत्वाऽभावान्न "जातिरप्राणिना"मित्येकवत्त्वम्। रतिका()आआरोहाविति। अत्र सेनाङ्गत्वेऽपि नैकवत्त्वम्। प्लक्षन्यग्रोधाविति। इह वृक्षद्वन्द्वत्वेऽपि "विभाषा वृक्षे"त्येकवत्त्वं न। इत्यादीति। रुरुपृषतौ।अत्र मृगद्वन्द्वत्वेऽपि नैकत्त्वम्। हंसचक्रवाकौ। अत्र शकुनिद्वन्द्वत्वेऽपि नैकवत्त्वम्। यूकालिक्षे। अत्र क्षुद्रजन्तुद्वन्द्वत्वेऽपि नैकवत्त्वम्। व्रीहियवौ। अत्र धान्यद्वन्द्वत्वेऽपि नैकवत्त्वम्। कुशकाशौ। अत्र तृणद्वन्द्वत्वेऽपि नैकवत्त्वम्। ननु "चार्थे द्वन्द्वः" इत्यनेन#एतरेतरयोगसमाहारद्वन्द्वाभ्यामेव एकवत्त्वविकल्पस्य सिद्धत्वात् "विभाषा वृक्षे"ति सूत्रंव्यर्थंमित्याशङ्क्याह--विभाषेत्यादि, विकल्पार्थमित्यन्तम्। वृक्षमृगतृणधान्यव्यञ्जनद्वन्द्वेषु प्लक्षन्यग्रोधं, रुरुपृषतं, कुशकाशं, व्रीहियवं, दधिघृतमित्येतेषु "जातिरप्राणिना"मिति नित्यविहितैकवत्त्वाऽनित्यत्वार्थमप्राणिवृक्षादिग्रहणमित्यर्थः।

नन्वेवमपि पशुग्रहणं व्यर्थं, तदुदाहरणे "गोमहिष"मित्यत्र "जातिरप्राणिना"मिति नित्यैकवत्त्वनियमस्याऽप्राप्त्या तन्निवृत्त्यर्थत्वाऽयोगादित्यत आह--पशुग्रहणं हस्त्य()आआदिषु सेनाङ्गत्वान्नित्यं प्राप्ते इति। "विकल्पार्थ"मित्यनुषज्यते। नन्वेवमपि मृगशकुनिग्रहणं व्यर्थं, तदुदाहरणे रुरुपृषतं शुकबकमित्यादौ "जातिप्राणिना"मित्येकवत्त्वस्य सेनाङ्गनिबन्धनैकवत्त्वस्य च अप्राप्त्या तन्निवृत्त्यर्थत्वाऽभावेन "चार्थे द्वन्द्वः" इत्येवेतरेतरयोगसमाहारद्वन्द्वाभ्यामेकवत्त्वविकल्पसिद्धेरित्यत आह--मृगाणां मृगौरेवेत्यादि, मृगशकुनिग्रहणमित्यन्तम्। मृगाणां मृगैरेव सह उभयत्र=इतरेतरयोगे समाहारे च "चार्थे"इति द्वन्द्वः। यथा--शुकबकं, शुकबकाविति। मृगाणां तदितरैः शकुनीनां तदन्यैश्च सह इतरेतरयोगद्वन्द्व एव भवति, न समाहारद्वन्द्वः। यता--रुरुशुका इति। एतादृशनियमार्थं मृगशकुनिग्रहणमित्यर्थः। ननु पूर्वापरग्रहणमधरोत्तरग्रहणं च व्यर्थंस "चार्थे"इत्येव सिद्धेः। "जातिरप्राणिना"मित्यादिनित्यैकवत्त्वस्य तत्राऽप्रवृत्त्या तन्निवृत्त्यर्थत्वाऽसंभवादित्यत आह--एवं पूर्वापरमधरोत्तरमित्यपीति। यथा मृगशकुनिग्रहणं मृगैर#एव मृगाणां, शकुनीनां तैरेव उभयत्र द्वन्द्वः, एवं पूर्वशब्दस्य अपरशब्देनैव, अधरशब्दस्य उत्तरशब्देनैव उभयत्र=इतरेतरयोगे समाहारे च द्वन्द्वः, अन्येन तु सह पूर्वोत्तरावित्यादौ इतरेतरयोगे एवेति नियमार्थं पूर्वापरग्रहणमधरोत्तरग्रहणं चेत्यर्थः। नन्व()आवडवग्रहणं व्यर्थं, सेनाङ्गत्वेऽपि पशुद्वन्द्वत्वादेव एकवद्भावविकल्पसिद्धेरित्यत आह--अ()आवडवेति। नपुंसकत्वविकल्पार्थमित्यर्थः। ननु समाहारस्य एकत्वादेव एकवत्त्वसिद्धेरिदमेकवत्त्वप्रकरणं समाहार एव द्वन्द्व इति नियमार्थमित्युक्तम्। तथा च पशुद्वन्द्वत्वादेकवत्त्वविकल्पे सति समाहारे वा, इतरेतरयोगे वा द्वन्द्व इत्यनियमः पर्यवस्यति। एवंच समाहारद्वन्दवपक्षे "स नपुंसक"मिति नपुंसकत्वम्, इतरेतरयोगे तु नेति नपुंसकत्वविकल्पस्य सिद्धत्वाद()आवडवग्रहणं व्यर्थमेवेत्यत आह--अन्यथेति। इह नपुंसकत्वविध्यभावे समाहारद्वन्द्वपक्षेऽपि "स नपुंसक"मिति नपुंसकत्वं बाधित्वा परत्वात् "पूर्वपदस्ववडवौ" इह पुंस्त्वं स्यात्। नपुंसकविधौ तु तत्सामथ्र्यात्समाहारद्वन्द्वपक्षे "पूर्वपद()आवडवौ" इत्येतद्बाधित्वा नपुंसकत्वं भवत्येव। अधिकारप्राप्तपूर्ववद()ओत्येतत्तु इतरेतरयोगद्वन्द्वे सावकाशमिति भावः।

तत्त्व-बोधिनी
विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्य�आवडवपूर्वापराधरोत्तराणाम् ७८२, २।४।१२

बिभाषा। विशेषणामेवेति। अयं भावः--वृक्षादिशब्दैः प्रत्येकं द्वन्द्वो विशेष्यते, न चैको वृक्षशब्दो द्वन्द्वः , न च द्वयोः सह प्रयोगः, "सरूपाणा"मित्येकशेषात्। नापि पर्यायाणां, "विरूपाणामपि समानार्थाना"मित्येकशेषात्। नापि वृक्षश्च धवश्चेत्यादिसामान्यविशेषयोः, अनभिधानात्तत्र द्वन्द्वस्यैवाऽभावादिति सर्वप्रकरणशेषतया नियममाह।

फलेसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम्। फलसेनेत्यादि। फलसेनादीनां द्वन्द्वो "विभाषा वृक्षमृगे"त्यनेन, लक्षणान्तरेण वा एकवद्भवन्बहुप्रकृतिरेव एकवद्भवतीत्यर्थः। बहवो वर्तिपदार्थाः, बहुवचनान्ता वा--प्रकृतिः=कारणं यस्य स बहुप्रकृतिः। बदराणि चामलकानि चेति। "जात्याख्यायामेकस्मि"न्निति वैकल्पिकं बहुवचनम्। बदरामलके इति। जातिप्राधान्येऽप्येकवचनान्तर्योद्वन्द्व इति नास्त्येकवद्भाव इति भावः। पशुग्रहणमिति। "विकल्पार्थ"मित्यनुषज्यते। "चार्थे द्वन्द्वः"इत्यनेनैव सिद्धे मृगशकुनिग्रहणं व्यर्थमित्याशङ्ख्याह--मृगाणां मृगैरेवेत्यादि। नपुंसकत्वार्थमिति। अयं भावः--पशुत्वाद्विकल्पे सिद्धे अ()आवडवग्रहणं प्रतिपदविधानार्थम्। तेना()आवडवमित्येकवद्भावपक्षे "पूर्ववद()आवडवौ" इत्यतब्दाधित्वा "स नपुंसक"मित्येतदेव भवति। "स" इति तच्छब्देन ह्रेकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमेकवद्भाववदेव प्रतिपदविहितं भवति। तथा च प्रतिपदेक्तस्य बलीयस्त्वान्नपुंसकत्वं सिध्यतीति।