पूर्वम्: २।४।१८
अनन्तरम्: २।४।२०
 
सूत्रम्
तत्पुरुषोऽनञ् कर्मधारयः॥ २।४।१९
काशिका-वृत्तिः
तत्पुरुषो ऽनञ्कर्मधारयः २।४।१९

अधिकारो ऽयम् उत्तरसूत्रेषु उपतिष्ठते। नञ्समासं कर्मधारयं च वर्जयित्वा ऽन्यस् तत्पुरुषो नपुंसकलिङ्गो भवति इत्येतदधिकृतं विदितव्यम्, यदित ऊर्ध्वम् अनुक्रमिष्यामस् तत्र। वक्ष्यति विभाषा सेनासुराच्छायाशालानिशानाम् २।४।२५। ब्राह्मणसेनम्, ब्राह्मणसेना। तत्पुरुषः इति किम्? दृढसेनो राजा अनञिति किम्? असेना। अकर्मधार्यः इति किम्? परमसेना।
बाल-मनोरमा
तत्पुरुषोऽनञ्कर्मधारयः ८१२, २।४।१९

तत्पुरुषोऽनञ। नञ्समासकर्मधारयाभ्यां भिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभागित्यर्थः। तदाह--अधिकारोऽयमिति। "परवल्लिङ्गमित्यतः प्रा"गिति शेषः।

तत्त्व-बोधिनी
तत्पुरुषोऽनञ्कर्मधारयः ७१३, २।४।१९

तत्पुरुषोऽनञ्। नञ्समासकर्मधारयभिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभाग्भवतीति सूत्रार्थः।