पूर्वम्: २।४।२२
अनन्तरम्: २।४।२४
 
सूत्रम्
सभा राजाऽमनुष्यपूर्वा॥ २।४।२३
काशिका-वृत्तिः
सभा राजा ऽमनुस्यपूर्वा २।४।२३

सभान्तस् तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् सभा राजपूर्वा, अमनुस्यपूर्वा च भवति। इनसभम्। ईश्वरसभम्। इह कस्मान् न भवति, राजसभा? पर्यायवचनस्य एव इष्यते। तदुक्तम् जित्पर्यायस्य एव राजाध्यर्थम् इति। अमनुष्यपूर्वा रक्षःसभम्। पिशाचसभम्। इह कस्मान् न भवति, काष्ठसभा? अमनुष्यशब्दो रूढिरूपेण् रक्षःपिशाचादिष्वेव वर्तते। राजा अमनुष्यपूर्वा इति किम्? देवदत्तसभा।
न्यासः
सभा राजाऽमनुष्यपूर्वा। , २।४।२३

"इह कस्मान्न भवति-- राजसभा" इति। "स्वं रूपं शब्दस्याशब्दसंज्ञा" १।१।६७ इति वचनदिहैव युक्तं भवितुमित्यभिप्रायः। "तदयुक्तम्" इत्यादि। एतेन "पर्यायवचनस्यैवेष्यते" (का।वृ।२।४।२३) इत्येतदाप्तवचनेन द्रढयति। यतः पर्यायवचनस्यैवेष्यते तस्मादेव हेतोरिदमुक्तम्। "{जित्पर्यायवचनस्यैव-काशिका। जदित्पर्यायवनस्यैव" इत्यादि। कथं पुनः पर्यायवचनस्यैव भवतीत्येषोऽर्थः, यावता नेह सूत्रे तथाविधं वचनमस्ति? एवं मन्यते-- ननु च पूर्वग्रहणमस्ति, अतः पूर्वग्रहणादेषोऽर्थो लभ्यते, कथम्? यदि स्वरूपग्रहणं स्यात् "राजाऽमनुष्यात्" इत्येवं ब्राऊयात्, पञ्चम्येव हि दिक्शब्दमध्याहरयिष्यति, न च सभान्तस्य तत्पुरुषस्य पूर्वशब्दादन्यो दिक्शब्दोऽध्याहर्त्तुं शक्यत इति किं पूर्वग्रहणेन? तत् क्रियतेऽर्थग्रहणं यथा स्यात्। अर्थग्रहणे च सत्यराजाऽमनुष्यपूर्वा इति द्विष्प्रतिषेधो वण्र्यते-- अराजपूर्वा, अमनुष्यपूर्वेति। तदनेन नञिवयुक्तन्यायेन (व्या।प।६५) तत्सदृशा राजपर्याया गृह्रन्ते, न तु तद्विशेषाश्चन्द्रगुप्तादयः, न हि ते राजार्थस्य वाचका इति। अथ वा-- अर्थग्रहणेऽस्मिन् "विभाषा समीपे" २।४।१६ इत्यतो विभाषागर्हणमनुवत्र्तते मण्डूकप्लुतिन्यायेन, सा च व्यवस्थितविभाषा विज्ञायते। तेनेह प्रयायवचनस्यैवे()आरादेग्र्रहणं भविष्यति, नान्यस्य। "अमनुष्यशब्दो {हि-- वृत्तौ नास्ति} हि रूढिरूपेण रक्षः पिशाचादिषु वत्र्तते" इति। यद्येवम्, "अनुष्यकर्त्तृके च" ३।२।५३ इत्यत्र यदुदाहरिष्यति-- जायाघ्नस्तिलकालकः, पतिघ्नी पाणिरेखा, श्लेष्मध्नं मधु, पित्तघ्नं घृतमिति,तद्व्याहन्यते? नैष दोषः; अत्र हि चकार क्रियते, तस्यैव विधेः समुच्चयार्थः। तेन पुनर्विधानात्, "कृत्यल्युटो बहुलम्" (३।३।क११३) इति वचनाद्वा रक्षः पिशाचादिभ्योऽन्यत्रापि भविष्यति। अथ वा-- अमनुष्यशब्दोऽयं द्विविधः-- अस्त्येवायमव्युत्पन्नो यो रक्षः पिशाचादिषु वत्र्तते, अस्ति च व्युत्पन्नो नञ्समासः; तत्रेहाव्युत्पन्नस्य रूढिशब्दस्य ग्रहणम्। "अमनुष्यकर्त्तृके च"३।२।५३ इत्यत्र व्युत्पन्नस्यारूढिशब्दस्य ग्रहणमित्यविरोधः। "देवदत्तसभा" इति। देवदत्तशब्दो न राजपर्यायः; नाप्यमनुष्यवचनः॥
बाल-मनोरमा
सभाराजाऽमनुष्यपूर्वा ८१६, २।४।२३

सभा। राजा च अमनुष्यश्च राजाऽमनुष्यौ, तौ पूर्वौ यस्याः सा-राजाऽमनुष्यपूर्वा इति विग्रहः। सभया तत्पुरुषविशेषणात्तदन्तविदिः। राजशब्देन राजपर्याय एव विवक्षितः, न तु राजन्शब्दः। तदाह--राजपर्यायपूर्व इति। इनसभम् ई()आरसभमिति। इनस्य ई()आरस्य वा सभेति विग्रहः। इनेस्वरशब्दौ राजपर्यायाविति भावः।

पर्यायमात्रग्रहणे प्रमाणं दर्शयति--पर्यायस्यैवेष्यत इति। "भाष्यकृते"ति शेषः। "स्वं रूप"मिति सूत्रे "जित्पर्यायवचनस्यैव राजाद्यर्थ"मिति वार्तिकं भाष्ये पठितमिति भावः। राजसभेति। राजन्शब्दपूर्वकत्वेऽप्यत्र राजपर्यायपूर्वकत्वं नास्तीति भावः। चन्द्रगुप्तसभेति। "चन्द्रगुप्त" इति राजविशेषस्य नाम, न तु तत्पर्याय इति भावः। नन्वमनुष्यपूर्वकत्वाद्देवसभेत्यादावपि स्यादित्यत आह--अमनुष्यशब्दो रूढ()एति। असुरशब्दो दैत्यानिवेति भावः।

तत्त्व-बोधिनी
सभा राजाऽमनुष्यपूर्वा ७१६, २।४।२३

सभा। इनसभमित्यादि। इनशब्दोऽत्र राजपर्यायः, ई()आरशब्दश्च। ननु "स्वं रूप"मिति वचनाद्राजशब्दस्यैव ग्रहणं युक्तं, नपर्यायस्येत्यत आह--।

पर्ययस्यैवेष्यते। पर्यायस्यावेष्यत इति एवकारेण स्वरूपस्य विशेशणां च निरासः। कथं तर्हि "नृपतिसभामगमन्न वेपमानः"इति कीचकवधे। अत्र केचित्--ना पतिर्यस्यां सभायामिति बहुव्रीहौ कृते पश्चात्कर्मधारयः। "अनञ्कर्मधारयः"इत्युक्तेर्न क्लीबत्वमित्याहुः। रक्षितस्त्वाह---गजपतिवन्नृपतिरपि राजविशेषस्तेनात्र नानुपपत्तिरिति।