पूर्वम्: २।४।२३
अनन्तरम्: २।४।२५
 
सूत्रम्
अशाला च॥ २।४।२४
काशिका-वृत्तिः
अशाला च २।४।२४

अशाला च या सभा तदन्तस् तत्पुरुषो नपुंसकलिङ्गो भवति। सङ्घातवचनो ऽत्र सभाशब्दो गृह्यते। स्त्रीसभम्। दासीसभम्। दासीसङ्घातः इत्यर्थः। अशाला इति किम्। अनाथकुटी इत्यर्थः।
न्यासः
अशाला च। , २।४।२४

सभाशब्दोऽयमस्त्येव कुटीवचनः-- कदीर्घा सभा,ह्यस्वा सभेति। अस्ति च सङघातवचनः, यथा-- ब्राआहृणानां सभा, स्त्रीणां सभेति; इह चाशालेति कुटीवचनप्रतिषेधादितरो गृह्रत इत्यत आह-- "सङ्घातवचनः" इत्यादि॥
बाल-मनोरमा
अशाला च ८१७, २।४।२४

अशाला च। अशालार्थकेत्यर्थः। सभाशब्दः शालायां, सङ्घातार्थे च वर्तते। तत्र राजाऽमनुष्यपूर्वकस्य शालावाचिनः सभाशब्दस्य पूर्वसूत्रे क्लीबत्वमुक्तम्, संप्रति सङ्घातवाचिनः सभाशब्दस्य क्लीबत्वमुच्यत इत्याह--सङ्घातार्था या सभेति। सभाशब्द इत्यर्थः।

तत्त्व-बोधिनी
अशाला च ७१७, २।४।२४

अशाला च। शालावाची सङ्घातवाची च सभाशब्दस्तत्र राजमनुष्यपूर्वत्वे शालावाचिनः क्लीबत्वमुक्तम्, अनेन तु सङ्घातवाचिनो विधीयत इत्याह---सङ्घातार्थेति।