पूर्वम्: २।४।२५
अनन्तरम्: २।४।२७
 
सूत्रम्
परवल्लिङ्गं द्वंद्वतत्पुरुषयोः॥ २।४।२६
काशिका-वृत्तिः
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः २।४।२६

समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वादितरेतरयोगद्वन्द्वस्य इदं ग्रहणम्। परस्य यल् लिङ्गं तत् भवति द्वन्द्वस्य तत्पुरुषस्य च। उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोर् विधीयते। कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। तत्पुरुषस्य अर्धं पिप्पल्याः अर्धपिप्पली। अर्धकोशातकी। अर्धनखरञ्जनी। द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः। द्विगुः पञ्चसु कपालेसु संस्कृतः पुरोडाशः पञ्चकपालः। प्राप्तो जीविकाम् प्राप्तजीविकः। आपन्नो जीविकाम् आपन्नजीविकः। अलं जीविकायै अलंजीविकः। गतिसमासः निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः।
लघु-सिद्धान्त-कौमुदी
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ९६५, २।४।२६

एतयोः परपदस्येव लिङ्गं स्यात्। कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। (द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः)। पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः॥
न्यासः
कपरवल्लिङ्गं द्वन्द्वतत्पुरुषयोः। , २।४।२६

किमर्थमिदम्? इहायं द्वन्द्वः रुआवपदार्थप्रधानः, स यदा भिन्नलिङ्गवयवो भवति तदा पूर्वोत्तरयोः पदयोर्भिन्नलिङ्गयोरनुग्राहकमेकं लिङ्गं नास्ति येन समुदायो व्यपदिश्यते। उभाभ्याञ्च युगपदसम्भवादशक्यो व्यपदेशः कर्तृम्। अतः पर्यायः स्यादिति द्वन्द्वे नियमार्थं वचनम्। तत्पुरुषोऽपि द्विविधः-- पूर्वपदार्थप्रधानः, उत्तरपदार्थप्रधानश्चेति। ततो य उत्तरपदार्थप्रधानस्तत्पुरुषस्तस्य प्रधानत्वादेव परस्य यल्लिङगं तत्समुदायस्य भविष्यतीति तं प्रत्यनर्थकं वचनम्। यस्तु पूर्वपदार्थप्रधानस्तस्य पूर्वपदस्य यल्लिङ्गं तस्मिन् प्रसक्त उत्तरपदस्य यल्लिङ्गं तद्विधीयत इति तत्र विध्यर्थमेतद्भवति। "द्वन्द्वस्य तत्पुरुषस्य च" इति। द्वन्द्वतत्पुरुषयोरिति षष्ठीयपरशब्दस्य सम्बन्धिशब्दत्वात्। तथा च मयूरीकुक्कुटावित्यत्र पूर्वपदस्य स्त्रीप्रत्ययो निवत्र्तेत, तत्पुरुषेऽप्यर्थपिप्पलीत्यत्र पूर्वपदस्यापि स्त्रीप्रत्ययः स्यात्; तस्मात षष्ठीयम्। तथा च सति समासार्थस्यायमतिदेशो विज्ञायते। पूर्वपद्सय न प्रतिषिध्यते; नापि विधीयत इति न भवति पूर्वोक्तदोषावसरप्रसङ्गः। समासार्थस्य लिङ्गातिदेशादनुप्रयोगोऽपि समासार्थस्यैव विशेषणमिति तल्लिङ्गमेव भवति। क"कुक्कुटमयूर्याविमे" इति। उपसर्जनह्यस्वत्वं न भवति, उपसर्जनसंज्ञाया अभावात्। उक्तं ह्रेतत् प्राक्-- "उपसर्जनमिति महत्याः संज्ञायाः प्रयोजनमन्वर्थसंज्ञा यथा विज्ञायेत-- अप्रधानमुपसर्जनम्" इति। द्वन्द्वश्च सर्वपदार्थप्रधान इति नास्त्युपसर्जनसंज्ञा। अर्धपिप्पलीत्यादावपि सत्येकविभक्तियोगे यथा पिप्पल्यादेरुपसर्जनसंज्ञा न भवति, तथोपसर्जनसंज्ञाविधावेव तत्प्रतिपादितम्। "वक्तव्यः" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- "तत्पुरुषः" २।४।१९ इत्यनुवर्तमाने पुनस्तत्पुरुषग्रहणस्यैतत् प्रयोजनम्-- तत्पुरुषविशेषस्य परवल्लिङ्गता यथा स्यादिति। तेन द्विगुप्राप्तापन्नलम्पूर्वगतिसमासेषु परवल्लिङ्गता न भवति; अन्यथा यदि सर्वस्थेयं तत्पुरुषस्य परवल्लिङ्गता स्यात् तदा "परकवल्लिङ्गं द्वन्द्वस्य च" इत्येवं ब्राऊयात्। चकाराद्धि प्रकृतस्य तत्पुरुषस्येति विज्ञास्यत एवेति। "पञ्चकपालः" इति। तद्धितार्थे द्विगुः। संस्कृतार्थ उत्पन्नस्याणः "द्विगोर्लुगनपत्ये"४।१।८८ इति लुक्। "प्राप्तजीविकः" इति। प्राप्तापन्ने च द्वितीयया" २।२।४ इति समासः। "अलञ्जीविकः" इति। "पर्यादयो ग्लानाद्यर्थे चतुथ्र्या" (वा। ९३) इति समासः। निष्कौशाम्बिः" इति। "निरादयः क्रान्ताद्यर्थे पञ्चम्या" (वा।९४) इति॥
बाल-मनोरमा
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ८०२, २।४।२६

परवल्लिङ्गं। "परहव"दिति षष्ठ()न्ताद्वतिः। तदाह--एतयोः परपदस्येवेति। द्व्न्द्वपदमत्र इतरेतरयोगद्वन्द्वपरं, समाहाद्वन्द्वे "स नपुंसक"मित्यस्य तदपवादत्वात्। कुक्कुटमयूर्याविमे इति। अत्र द्वन्द्वे अवयवलिङ्गनाऽनियमे प्राप्ते नियमार्थमिदम्। अर्धपिप्पलीति। "अर्धं नपुंसकम्" इति तत्पुरुषः। अस्यैकदेशिसमासस्य पूर्वपदार्थप्रधानतया पूर्वपदलिङ्गे प्राप्ते उत्तरपदलिङ्गार्थं विधिः। अत्र "द्वन्द्वतत्पुरुषयोः" इति षष्ठ()न्तमर्थपरम्। द्वन्द्वतत्पुरुषार्थयोरित्यर्थः। एवंच "कुक्कुटमयूर्याविमे" इत्यनुप्रयोगेऽपि तदेव लिङ्गम्।

द्विगुप्राप्तेति। "द्विगु" "प्राप्त" "आपन्न" "अलंपूर्व" "गतिसमास"-एतेषु परवल्लिङ्गस्य प्रतिषेधो वक्तव्यः इत्यर्थः। पञ्चस्विति। उत्तरपदस्य नपुंसकत्वात्समासस्य नपुंसकत्वं प्राप्तं, न भवति, किन्तु विशेष्यलिङ्गमेव प्राप्तजीविक इति। अत्रोत्तरपदस्य जीविकाशब्दस्य यल्लिङ्गं तत्समासस्य न भवति। अलंपूर्वस्योदाहरति--अलंकुमारिरिति। अत्र उत्तरपदकुमारीलिङ्गं समासस्य न भवति। नन्वत्र तदर्थादियोगाऽभावान्न चतुर्थीसमासः। "पर्यादयो ग्लानाद्यर्थे" इत्यपि न भवति, तस्य समासस्य नित्यत्वेन "अलं कुमार्यै" इति भाष्ये विग्रहप्रदर्शनानुपपत्तेरित्यत आह--अत एवेति। "एकविभक्ति चे"ति कुमारीशब्दस्योपसर्जनत्वाद्ध्रस्वः। गतिसमासमुदाहरति--निष्कौशाम्बिरिति। अत्र कौशाम्बीशब्दलिङ्गं समासस्य न भवति। यद्यपि निरादिसमास एवायं, न तु गतिसमासः, प्रादिग्रहणमगत्यर्थमित्युक्तेः, तथापि गतिसमासग्रहणं प्रादिसमासोपलक्षणमित्याशयः।

तत्त्व-बोधिनी
तत्पुरुषयोः ७०५, २।४।२६

परवल्लिङ्गम्। इतरेतरयोगे द्वन्द्वोऽत्र गृह्रते न समाहारे द्वन्द्वः, "स नपुंसक"मित्यपवादस्य वक्ष्यमाणत्वात्। सूत्रे "द्वन्द्वतत्पूरुषयो"रिति न सप्तमीद्विवचनम्, तथात्वे द्वन्द्वे तत्पुरुषे च यत्परपदं तद्वल्लिङ्गं पूर्वपदस्यातिदिश्येत, परपदस्य संबन्धिशब्दत्वेन पूर्वंपदाक्षेपकत्वात्, ततश्च मयूरी कुक्कुटावित्यत्र पूर्वपदे ईकारनिवृत्तिप्रसङ्गः। कुक्कुटमयूर्यौ, अद्र्धपिप्पलीत्यादौ तु पूर्वपदे स्त्रीप्रत्यय उत्पद्येत। किं तु षष्ठीद्विवचनमित्याशयेनाह--एतयोरिति। द्वन्द्वतत्पुरुषार्थयोरित्यर्थः। एवं चानुप्रयोगेऽपि तदेव लिङ्गं सिद्धम्। उपमेये षष्ठ()भ्युपगमाद्वतिरपि षष्ठ()न्तादेवेत्याशयेनाह--परपदस्येवेति। भाष्ये तु "लिङ्गमशिष्यं, लोकाश्रयत्वाल्लिङ्गस्ये"ति प्रत्याख्यातमिदं सूत्रम्। अ()स्मश्च प्रत्याख्याने तुल्यन्यायत्वाल्लिङ्गनुशासनं सर्वमेव प्रत्याख्यातं, तथापि तत्प्रौढिवादमात्रम्। अन्यथा व्याकरणस्यैव वैयथ्र्याप्रसङ्गात्।

द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वाच्यः। गतिसमासेष्विति। गतिग्रहणं प्रादीनामुपलक्षणं प्रादीनामुलक्षणं, मुख्यस्य गतेरसंभवादित्याशयेनोदाहरति---निष्कौशाम्बिरिति। अतन्त्रमिति। अत्र च लिङ्गं "पूर्वव"द्ग्रहणम्। अन्यथा निपातनादेव सिद्धे किं तेनेति भावः। इह समासार्थस्य वा पूर्ववल्लिङ्गातिदेशः, उत्तरपदार्थस्य वा, उभयथाप्य()आवडवौ शोभनावित्यनुप्रयोगेऽपि पुंस्त्वं सिध्यति। ननु समासार्थस्य पुंस्त्वेऽपि स्वाश्रयस्त्रीत्वस्याऽनिवर्तनाट्टापः श्रवणप्रसङ्गः। न चातिदेशवैयथ्र्यं, शसि नत्वप्रवृत्त्या, अनुप्रयोगे पुंलिङ्गत्वलाभेन च तत्सार्थक्यादिति चेदत्राहुः--इहैव निपातनात्, "अ()आवडवपूर्वापराधरोत्तराणा"मित्यत्र निपातनाद्वा टापो निवृत्तिरिति।