पूर्वम्: २।४।२७
अनन्तरम्: २।४।२९
 
सूत्रम्
हेमन्तशिशिरावहोरात्रे च च्छन्दसि॥ २।४।२८
काशिका-वृत्तिः
हेमन्तशिशिरावहोरात्रे च छन्दसि २।४।२८

पूर्ववतिति वर्तते। हेमन्तशिशिरौ अहोरात्रे इत्येतयोश् छन्दसि विषये पूर्ववल्लिङ्गं भवति। हेमन्तशिशिरावृतूनां प्रीणामि। अहोरात्रे इदं व्रूमः। परवल्लिङ्गतापवादो योगः। अर्थातिदेशश्च अयं न निपातनं, तेन द्विवचनमतन्त्रम्। वचनान्तरे ऽपि पूर्ववल्लिङ्गता भवति। पूर्वपक्षाश्चितयः। अपरपक्षाः पुरीषम्, अहोरात्राणीष्टकाः। छन्दसि इति किम्? दुःखे हेमन्तशिशिरे। अहोरात्राविमौ पुण्यौ। छन्दसि लिङ्गव्यत्यय उक्तः, तस्य एव अयं प्रपञ्चः।
न्यासः
हेमन्तशिशिरावहोरात्रे च च्छन्दसि। , २।४।२८

परवल्लिङ्गतापवादोऽयं योग इति हेमन्तशिशिरावित्यत्र नपुंसकत्वापवादः, परस्य शिशिरशब्दस्य नपुंसकत्वात्। "अहोरात्रे" इति। पुंल्लिङ्गत्वापवादोऽयम्। "रात्राह्नाहाः पुंसि" २।४।२९ इति पुंल्लिङ्गत्वे प्राप्ते छन्दसि लिङ्गव्यत्यय उक्त इति-- "व्यत्ययो बहुलम्" ३।१।८५ इत्यनेन॥