पूर्वम्: २।४।३२
अनन्तरम्: २।४।३४
 
सूत्रम्
एतदस्त्रतसोस्त्रतसौ चानुदात्तौ॥ २।४।३३
काशिका-वृत्तिः
एतदस् त्रतसोस् त्रतसौ च अनुदातौ २।४।३३

अन्वादेश अनुदात्त इति वर्तते। एतदो ऽन्वादेशविषयस्य अशादेशो भवति अनुदात्तः त्रतसोः परतः। तौ च अपि त्रतसावनुदात्तौ भवतः। एतस्मिन् ग्रामे सुखं वसामः, अथो अत्र युक्ता अधीमहे। एतस्माच् छात्राच्छन्तो ऽधीष्व, अथो अतो व्याकरणम् अप्यधीष्व। सर्वानुदात्तं पदं भवति। एतदो ऽशित्यादेशे लभे पुनर् वचनम् अनुदात्तार्थम्।
न्यासः
एतदस्त्रतसोस्त्रतसौ चानुदात्तौ। , २।४।३३

"अथो अत्र" इति। "सप्तम्यास्त्रल्" ५।३।१०। "अथो अतः" इति। "पञ्चम्यास्तसिल्" ५।३।७। "पुनर्वचनमनुदात्तार्थम्" इति। "एतदोऽश्" ५।३।५ इति यः पाञ्चमिकोऽशादेशः स उदात्तः स्यात्। अनुदात्ततश्चेष्यत इत्यनुदात्तार्थ वचनम्। अथ त्रतसोरिति किमर्थम्, यावता "त्रतसौ चानुदात्तौ" इति वचनात् तयोरेव निमित्तभावो विज्ञास्यते? नैतदस्ति; अन्वाचयोऽपि विज्ञायेत, यथा-- "कर्त्तुः क्यङ सलोपश्च" ३।१।११ इति। अत्राविशेषेण क्यङ भवति। तथाऽत्राविशेषेण तावदशादेशो भवति। यत्र तु त्रतसौ दृश्येते तत्र तावनुदात्तौ भवतः, तस्मात् तावन्निमितभावार्थं त्रतसोरितिवक्तव्यम्। अथ त्रतसोरनुदात्तत्वं किमर्थम्, यावता लित्स्वर एव तयोरनुदात्तत्वं करिष्यति? नैतदस्ति; न ह्रत्र लित्स्वरोऽस्ति, अनुदात्तस्यादेशस्य विधानात्। ननु च लितस्वरे कृत आदेशस्वरः क्रियते; यद्येवम्, लित्स्वरापवाद आदेशस्वरो विज्ञायेत, न चापवादविषयमनुत्सर्गोऽभिनिविशते? तस्माद्यथा गोष्पदप्रमित्यत्र लिति पूर्वमनुदात्तभावो नास्तीति प्रत्तययस्वर एव भवति; तथेहापि स्यादिति त्रतसोरनुदात्तार्थ वचनम्। ततश्चैतदपि सर्वमनुदात्तं पदं भवति। ताविति वक्तव्ये त्रतसोरिति वचनं स्पष्टार्थम्। गोषपदप्रमिति। "यावति विन्दरजीवोः" ३।४।३०। "चर्मोदयोः पूरेः" ३।४।३१। "वर्षप्रमाण ऊलोपश्चादन्यतरस्याम्" ३।४।३२ इति णमुल्, ऊलोपश्च॥
बाल-मनोरमा
एतदस्त्रतसोस्त्रतसौ चानुदात्तौ १९३७, २।४।३३

एतदस्त्रतसोः। "इदमोऽन्वादेशे" इत्यस्मादन्वादेशे अशनुदात्त इत्यनुवर्तते। तदाह--अन्वादेशेत्यादिना। अतोऽत्रेति। एतच्छब्दात्तसिल्, प्रकृतेरशादेशः। एतदोऽ"न्नित्येव सिद्धेऽनुदात्तार्थं वचनम्। नच लित्स्वरे सति शेषनिघातेन त्रतयसोरनुदात्तत्वं सिद्धमिति शङ्क्यं, लित्स्वरापवादेऽशोऽनुदात्तत्वे कृते लित्स्वराऽप्राप्त्या प्रत्ययस्वरेण त्रतसोरुदात्तत्वे प्राप्ते तद्विधानार्थत्वात्।