पूर्वम्: २।४।३३
अनन्तरम्: २।४।३५
 
सूत्रम्
द्वितीयाटौस्स्वेनः॥ २।४।३४
काशिका-वृत्तिः
द्वितीयाटाओस्स्वेनः २।४।३४

अन्वादेशे ऽनुदात्तः इति वर्तते। द्वितीया टा ओसित्येतेषु परत इदम् एतदोरन्वादेशविषययोः एनशब्द आदेशो आदेशो भवति अनुदात्तः। इदमो मण्डूकप्लुतिन्यायेन अनुवृत्तिः। इमं छात्रं छन्दो ऽध्यापय, अथो एनं व्याकरणमध्यापय। अनेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम्। अनयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम्। एतदः खल्वपि एतं छात्रं छन्तो ऽध्यापय, अथो एनं व्याकरणमप्यध्यापय। एतेन छात्रेन रात्रिरधीता, अथो एनेनाहरप्यधीतम्। एतयोश् छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम्। एनदिति नपुंसकैकवचने वक्तव्यम्। प्रक्षालयैनत्। परिवर्तयैनत्। इह कस्मान् न भवति, अयं दण्डो हरानेन, एतमातं ङितं विद्यातिति? यत्र किञ्चिद् विधाय वाक्यान्तरेण पुनरन्यदुपदिश्यते सो ऽन्वादेशः। इह तु वस्तुनिर्देशमात्रं कृत्वा एकम् एव विधानम्।
लघु-सिद्धान्त-कौमुदी
द्वितीयाटौस्स्वेनः २८२, २।४।३४

इदमेतदोरन्वादेशे। किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः। यथा - अनेन व्याकरणमधीत मेनं छन्दोऽध्यापयेति। अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वामिति॥ एनम्। एनौ। एनान्। एनेन। एनयोः। एनयोः॥ राजा॥
न्यासः
द्विदीयाटौस्स्वेन। , २।४।३४

"इदमेतदोः" इत्यादि। ननु चानन्तरत्वादेतद एवात्रानुवृत्तिः प्राप्नोति, नेदमः; व्यवहितत्वादित्यत आह-- "मण्()डूकप्लुतिन्यायेन" इत्यादि। "एकमेवेदं विधानम्" इति। अयं दण्ड इत्यनेन दण्डस्य सत्तोपलक्षणमात्रं कृत्वा "हरानेन" इत्यनेनैव हरणक्रियां प्रति दण्डस्य करणभावो निर्दिश्यत इत्येकं विधानम्। "एतमातं ङितं विद्यात्" इत्यत्रापि "ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः" (म।भा।१।७१) इतीषदाद्यर्थस्याकारस्य निर्देशामात्रं कृत्वा "एतमातं ङितं विद्यात्" इत्यनेन वेदनक्रियां प्रत्याकारमात्रस्य कर्मभाव एव विधीयत इत्येकमेव विधानम्॥
बाल-मनोरमा
इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ , २।४।३४

इदमोऽन्वादेशे। "अन्वादेशे अश" इतिच्छेदः। अन्वादेशे इदमोऽश् स्यात्तृतीयादिविभक्तौ, स चानुदात्त इति स्पष्टोऽर्थः। "आशास्ते यं यजमानोऽसौ। आयुराशास्ते" इति प्रस्तुत्य "तदस्मै देवा राधन्ता"मित्युदाहरणम्। तत् आयुरादि अस्मे यजमानाय देवाः साधयन्त्वित्यर्थः। अत्र अस्मै इत्यादहरणम्। इद-स्मै इति स्थिते प्रकृतेरशादेशे अनुदात्ते सति "अनुदात्तौ सुप्पितौ" इति स्मै इत्यैकारोऽनुदात्तः। तथाच अस्मै इति सर्वानुदात्तः। एवमाभ्यामित्यादावपि हलादावुदाहरणम्। द्वितीयादावचि टौसोरेनादेशस्य विशिष्ट विधानात्। ननु अनुदात्तत्वमेवात्र विधीयतां न त्वशादेशोऽपि। त्यदाद्यत्वे हलि लोपे च अस्मै, आभ्यामित्यादिरूपस्या।ञन्वादेशेऽपि सिद्धेरत आह-अ()आचनं साकच्कार्थमिति। "इमकाभ्यां रात्रावधीतमाभ्यामहरप्यधीत" मित्यत्रान्वादेशे इमकाभ्यामिति न भवति। अत्र अ अ इति प्रश्लिष्टनिर्देशादनेकाल्त्वात्सर्वादेशत्वसिद्धेः शित्करणं न कर्तव्यमिति भाष्ये स्पष्टम्।

बाल-मनोरमा
द्वितीयाटौस्स्वेनः , २।४।३४

द्वितीयाटौस्स्वेनः। द्वितीया च टाश्च ओश्च द्वितीयाटौसः, तेष्विति द्वन्द्वः। "इदमोऽन्वादेशे" इत्यत "इदम" इति, "अन्वादेशे" इति चानुवर्तते। "एतदस्त्रतसोः" इत्यत "एतद" इति च। तदाह--द्वितीयायामित्यादिना। "अनावादेश" शब्दं व्याचष्टे-किञ्चिदिति। विधातुमिति। अपूर्वं बोधयितुमित्यर्थः। अन्वादेशमुदाह्मत्य दर्शयति -यथेति। उदाहरणप्रदर्शने यथाशब्द। "ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्" इत्यत्र तु एनादेशो न, पूर्वार्धस्य यच्छब्दयोगेनानुवादत्वात्। किञ्चित् कार्यं विधातुमुपात्तस्य इत्यत्र च पूर्ववाक्ये यथाकथंचित्तदुपादानं विवक्षितं, न त्विदमैवेत्याग्रह इति भाष्ये स्पष्टम्। इति मान्ताः। अथ णकारान्ताः। गणयतेर्विजिति। "गण सङ्ख्याने" इति चुरादिरदन्तः। ततः सुपूर्वात्स्वार्थे णिच्। अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः। तस्माद्विच्, "अन्येभ्योऽपि दृश्यते" इति वचनाण्णिलोपः, अपृक्तलोपः, ततः सुबुत्पत्तिः, हल्ङ्यादिना सुलोपः। सुगण् इति रूपम्। सुगणौ, सुगण इत्याद्यविकृतमेव। सुपि "ङ्णोः कुक्टुक्शरी"ति टुग्विकल्पः। "चयो द्वितीयाः" इति टस्य ठ इत्यभिप्रेत्याह--सुगण्ठ्सु इति। द्वितीया।ञभावे रूपमाह--सुगण्ट्सु इति। टुगभावे रूपमाह--सुगण्सु इति। सुगाणिति। गणधातोरदन्ताण्णिच्, अल्लोपः। तस्य स्थानिवत्त्वान्नोपधावृद्धिः। तस्मात्क्विप्, णिलोपः अपृक्तलोपः। "अनुनासिकस्य क्विझलो"रिति दीर्घः। सुगाणिति रूपम्। सुगाणौ सुगाण इत्यादि। नच दीर्घे कर्तव्ये णिलोपाऽल्लोपयोः स्थानिवत्त्वं शङ्क्यं, दीर्घविधौ तन्निषेधात् , क्वौ विधिं प्रति तन्निषेधाच्च। इति आन्ताः। अथ नान्ताः। राजन्शब्दे विशेषमाह--परत्वादिति। हल्ङ्यादिलोपापेक्षया परत्वात्पूर्वमेव "सर्वनामस्थाने चाऽसंबुद्धौ" इति दीर्घः। ततो हल्ङ्यादिलोप इत्यर्थः। नच "विप्रतिषेधे यद्बाधितं तद्वाधितमेवे"ति न्यायात्कथमिह हल्ङ्यादिलोप इति वाच्यं, "पुनः प्रसङ्गविज्ञानात्सिद्ध"मिति। विप्रतिषेधे यद्वाधितं"मित्यस्याऽसार्वत्रिकत्वादिति भावः। नलोप इति। "न लोपः प्रातिपदिकान्तास्ये"ति नकारस्य लोप इत्यर्थः।

तत्त्व-बोधिनी
द्वितीयाटौस्स्वेनः ३११, २।४।३४

द्वितीयाटौस्सु। "इदमोऽन्वादेशे"इत्यतः "इदम"इत्यनुवर्तते, "अन्वादेश"इति च। "एतदस्त्रतसो"रित्यत "एतद"इत्यपि, तदाह--इदमेतदोरेनादेश इत्यादि। "अनुदात्त"इत्यनुवर्तनादेनादेशोऽनुदात्त इति ज्ञेयः। कार्य विधातुमिति। अपूर्वं बोधयितुमित्यर्थः। ईषदर्थेक्रियायोगे मर्यादाङिविधौ च यः। एतमातं "ङितं विद्या"दित्यत्र तु ईषदर्थादयो न विधीयन्ते किंत्वनूद्यते इति न तत्रैनादेशः। एतेन "नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापये"त्यपि व्याख्यातम्। भीरुत्वस्याऽनुवाद्यकत्वेन विवक्षितत्वात्।इति मान्ताः। सुदाणिति। क्विप्। न च "अनुनासिकस्य क्वी"ति दीर्घे कर्तव्ये अल्लोपणिलोपयोः--स्थानिवद्भावः शङ्क्यः, दीर्घविधौ तन्निषेधात्। क्वौ विधिं प्रति निषेधाच्च। इति णान्ताः।