पूर्वम्: २।४।३७
अनन्तरम्: २।४।३९
 
सूत्रम्
घञपोश्च॥ २।४।३८
काशिका-वृत्तिः
घञपोश् च २।४।३८

घञि अपि च परतः अदो घस्ल्̥ आदेशो भवति। घासः। प्रघसः। उपसर्गे ऽदः ३।३।५९ इत्यप्।
न्यासः
घञपोश्च। , २।४।३८

"घासः" इति। भावे घञ्। "प्रघसः" इति। "उपसर्गेऽदः" ३।३।५९ इत्यप्। "लुङसन्घञ्प्सु घस्लृ" इत्येकयोगे कत्र्तव्ये योगविभागो वैचित्र्यार्थः॥
तत्त्व-बोधिनी
घञपोश्च १५४४, २।४।३८

व्यद्यते विशेषेण भक्ष्यते इति विघसः = वै()आदेबशिष्टमन्नम्। घासश्चतुष्पदां भक्ष्यम्। "शष्पं बालतृणं घासः"इत्यमरः।