पूर्वम्: २।४।३९
अनन्तरम्: २।४।४१
 
सूत्रम्
लिट्यन्यतरस्याम्॥ २।४।४०
काशिका-वृत्तिः
लिट्यन्तरस्याम् २।४।४०

लिटि परतो ऽदो ऽन्यतरस्यां घस्लादेशो भवति। जघास, जक्षतुः, जक्षुः। आद्, आदतुः, आदुः।
लघु-सिद्धान्त-कौमुदी
लिट्यन्यतरस्याम् ५५५, २।४।४०

अदो घसॢ वा स्याल्लिटि। जघास। उपधालोपः॥
न्यासः
लिट�न्यतरस्याम्। , २।४।४०

"लिटि परतः" इति। ननु च "आर्धधातुके" २।४।३५ इति वत्र्तते, "आर्धधातुके" इति च विषयसप्तमीयमित्युक्तम्, तदयुक्तं लिटि परत इति वचनम्? नेदमयुक्तम्; आर्धधातुकशब्दस्यार्धधातुकत्वमनेकप्रत्ययसाधारणं सामान्यमर्थः, तेन च पौर्वापर्यं न सम्भवति। तद्धि देशतो वा भवति कालतो वा, सामान्यस्य चादेशत्वात् कालत्वान्नित्यत्वाच्च तेन सह देशकृतं कालकृतञ्च पौर्वापर्यं नोपपद्यते, अतो युक्ता "आर्धधातुके" इति विषयसप्तमी। इह तु "लिटि" इत्यार्धधातुक उपात्तः, सम्भवति चानेन पौर्वापर्यम्। किञ्च-- लिटि रभूते घस्लृ- आदेशे विधीयमाने न किञ्चिदनिष्टमापद्यते। तस्मात् परसप्तम्येवैषा युक्ता। "जक्षतुः" इति। "गमहन" ६।४।९८ इत्यादिनोपधालोपः, "शासिवसिघसीनाञ्च" ८।३।६० इति षत्वम्, "खरि च" ८।४।५४ इति चत्र्वम्। "आद, आदतुः, "आदुः" इति। "अत आदेः" ७।४।७० इत्यभ्यासस्य दीर्घः। ननु च "घस्लृ अदने" (धा।पा।७१५) इत्येतस्य जाघास, जक्षतुः, जक्षुरिति भविष्यति; "अद भक्षणे" (धा।पा।त१०११) इत्यस्य आद, आदतुः, आदुरिति; अस्ति घसिः प्रकृत्यन्तरम्, "सृघस्यदः क्मरच्" ३।२।१६० इति क्मरज्विधानात्, तत् कथमिह लिटि विकल्पविधानम्? घसेः प्रकृत्यन्तरस्यासर्वविषयत्वज्ञापनार्थम्। तेन तस्य सार्वधातुक आर्धधातुके च यत्र लिङ्गं नास्ति वचनञ्च, तत्र प्रयोगो न भवति॥
बाल-मनोरमा
लिट�न्यतरस्याम् २५५, २।४।४०

लिट()न्यतरस्याम्। "अदो जग्धि" रित्यतोऽद इति, "लुङ्सनोर्घस्लृ" इत्यतो घस्लृ इति चानुवर्तते। तदाह--अद इति। आदेशे लृकार इत्। घसादेशोऽत्राऽनिट्। जघासेति। अकित्त्वात् "गमहने"त्युपधालोपो नेति भावः। जघस् अतुसिति स्थिते आह--गमहनेत्युपधालोप इति। "असंयोगा"दिति कित्त्वादिति भावः। जघ्()स् अतुसिति स्थिते घकारस्य चर्त्वं वक्ष्यन्नुपधालोपस्य स्थानिवत्त्वमाशङ्क्याह-- तस्येति। उपधालोपस्येत्यर्थः। जघ्()स् अतुसिति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाऽभावादाह-- शासीति। थलितु क्रादिनियमान्नित्यमिट्। "उपदेशेऽत्वतः" इति निषेधस्य तासौ नित्याऽनिड्विषयत्वात्। रघस् तु तासौ न विद्यत एव, कुतस्तस्य तासावनिट्कत्वम्। "यस्तासावस्ति अनिट् चे"ति हि भाष्यम्। तदाह--घसेस्तासाविति। जघसिथेति। जक्षयुः जक्ष। जघासजघस जक्षिव जक्षिम। घसादेशाऽभावपक्षे त्वाह--आदेति। थलि भारद्वाजनियमादिड्विकल्पे प्राप्ते इडत्त्यर्तीति। आदिथेति। आदथुः आद। आद आदिव आदिम। अत्ता। अत्स्यतीति। अनिट्। दस्य तः। अत्तु अत्तात् अत्ताम् अदन्तु। अद्--हि इति स्थिते "झयो होऽन्यतरस्या"मिति हकारस्य पूर्वसवर्णविकल्पेन धकारविकल्पे प्राप्ते--