पूर्वम्: २।४।४५
अनन्तरम्: २।४।४७
 
सूत्रम्
णौ गमिरबोधने॥ २।४।४६
काशिका-वृत्तिः
णौ गमिरबोधने २।४।४६

णौ परतः इणो ऽबोधनार्थस्य गमिरादेशो भवति। इकार उच्चारणार्थः। गमयति, गमयतः, गमयन्ति। अबोधने इति किम्? प्रत्याययति। इण्वदिक इत्येव, अधिगमयति।
न्यासः
णौ गमिरबोधने। , २।४।४६

"गमयति" इति। "जनीजृ()ष्क्नसुरञ्जोऽमन्ताश्च" (धा।पा।ग।सू।८१७) इति मित्त्वात् ह्यस्वत्वम्॥
बाल-मनोरमा
णौ गमिरबोधने १६३९, २।४।४६

णौ गमिरबोधने। "इणो गा लुङी"त्यत इण इत्यनुवर्तते। तदाह --इणो गमिरिति। मकारादिकार उच्चारणार्थः। गमयतीति। प्रापयतीत्यर्थः। प्रत्याययतीति। बोधयतीत्यर्थः। लुङि- प्रत्यायियत्। इणो णिचि "इणो य"णिति यणं बाधित्वा परत्वाद्वृद्धावायादेशो आय् इ अ त् इति स्थिते "यी"त्यस्य द्वित्वम्। न च द्वित्वे कार्ये णावजादेशस्य निषिद्धत्वाद्वृद्धेर्निषेधः शङ्क्यः, "अजादेर्द्वितीयस्य" इति णिचो द्वित्वे उत्तरखण्डे अवर्णाऽभावात्। "इक स्मरणे" इत्यस्य इण्वत्त्वमुक्तं स्मारयति-- इण्वदिक इति।अधिगमयतीति। स्मारयतीत्यर्थः। हन्तेर्ञिति णिति च तकारादेशमुक्तं णौ स्मारयति-- हनस्तोऽतचिण्णलोरिति। कुत्वमिति। "हस्ये"ति शेषः। उपधावृदिं()ध मत्वाह-- घातयतीति। लुङि अजीघतत्। ईष्र्ययतीति। ईष्र्यतेर्णौ रूपम्। वक्तव्यमिति। "द्वित्व"मिति शेषः। इति वाऽर्थ इति। "न न्द्राः" इति सूत्रभाष्ये स्पष्टमिदम्। आद्ये इति। "तृतीयस्य व्यञ्जनस्ये"ति पक्षे इत्यर्थः। षकारस्येति। अन्यथा इर्ष्य् इ अ त् इति स्थिते "न न्द्राः" इति रेफं वर्जयित्वा षकारसहितस्य "ष्यि" इत्यस्य द्वित्वं स्यात्। ततश्च उत्तरखण्डे णिलोपे ऐर्षिष्यदिति स्यात्। ऐर्ष्य्यदितीष्टं न स्यात्। अतस्तृतीयव्यञ्जनस्येत्युक्तम्। एवं च यकारद्वित्वे णिलोपे संयुक्तद्वियकारमिष्टं सिध्यतीत्यर्थः। द्वितीये इति। "तृतीयैकाच"इति व्याख्याने इत्यर्थः। सन्नन्ते प्रवर्तते इति। "उक्तवार्तिक"मिति शेषः। सनि इटि ईर्ष्य् इस इति स्थिते ईर्ष्य् इति प्रथमैकाच्, "ष्यिस्" इति द्वितीयैकाच्" स इति तृतीयैकाजिति स्थितिः। तत्र तृतीयैकाचः संभवात्तस्य द्वित्वविधिः। अन्यथा "अजादेर्द्वितीयस्ये"ति स्यादिति भाव)। ऐर्ष्य्यदिति। यकारमात्रस्य द्वत्वे णिलोपे संयुक्ताद्वियकारकं रूपम्ऽथ द्वितीयव्याख्यायां रूपमाह-- ऐर्षिष्यदिति। तदुपपादयति-- द्वितीयव्याख्यायामिति। ण्यन्ताच्चङि ईर्ष्य् इ अ त् इति स्थिते "न न्द्राः" इति निषेधाद्रेफं वर्जयित्वा "अजादेर्द्वितीयस्ये"ति "ष्यि" इत्यस्य द्वित्वं न तु यकारमात्रस्य, प्रथमव्याख्याने एव तृतीयव्यञ्जनस्येत्युक्तेः। तत्र "ष्यि" इत्यस्य द्वित्वे कृतेऽपि अभ्यासे षकारएव हल् इकारशिरस्कः श्रूयते, न तु यकारोऽपीत्यर्थः। कुत इत्यत आह-- हलादिशेषादिति। नतु तृतीयस्यैकाच द्वितीयव्याख्यायामिह द्वितीयस्यैकाचः कथं द्वित्वमित्यत आह-- द्वित्वं तु द्वितीयस्यैवेति। "एकाच" इति शेषः। कुत इत्यत आह-- तृतीयाभावेनेति। ईर्ष्य् इ अ त् इत्यत्र ईर्ष्य् इति प्रथमैकाच्, र्ष्यि इति द्वितीयैकाच् , न तु चङि परे तृतीयैकाजस्ति। अतोऽत्र "तृतीयैकाच" इति वार्तिकं न प्रवर्तते। तस्माद्द्वितीयस्यैव एकाचो द्वित्वमित्यर्थः। एवं च "तृतीयस्यैकाच" इति वार्तिकं सन्नन्त एव प्रवर्तते। ईष्र्यतेरामः सत्त्वेन ततः परस्यलिटोऽभावादिति बोध्यम्। ननु "प्रार्थयन्ति शयनोत्थितं प्रियाः" इति माघकाव्ये प्रार्थयन्तीति न चौरादिकस्वार्थिकणिजन्तं, तस्याऽ‌ऽगर्वीयतया आत्मनेपदप्रसङ्गात्। नापिहेतुमण्ण्यन्तं ,स्वाभीष्टं याचते इत्यर्थे तदसंभवात्। नहि प्रयोजकव्यापाराऽभावे तत्प्रवृत्तिरस्तीत्यत आह-- निवृत्तेति। निवृत्तं प्रेषणं यस्मात् स निवृत्तप्रेषमः। संप्रति अविवक्षितप्रेषण इत्यर्थः। त्समाद्धातोर्भूतपूर्वगत्या प्रेषणमादाय हेतुमण्णौ कृते शुद्धेन णिज्विहीनेन धातुना तुल्योऽर्थः प्रतीयते इत्यर्थः। तदुक्तं--"निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते"इति। इदं च "णेरणौ" इति सूत्रे भाष्ये स्पष्टम्।

॥ इति बालमनोरमायाम् हेतुमण्णिच्प्रक्रिया॥

अथ पाञ्चमिकास्तत्र छयद्विधिः।

----------------------

तत्त्व-बोधिनी
णौ गमिरबोधने १३७०, २।४।४६

प्रत्याययतीति। प्रतिपूर्वस्येणो ज्ञानार्थता। लुङि-- प्रत्यायियत्। इह इणो णिचि कृते "इणो य"णिति यणं बाधित्वा परत्वाद्धृद्धिः। न च "ओः पुयण्जी"ति ज्ञापकात्पूर्वं द्वित्वं, पश्चाद्वृद्धिरिति शङ्क्यम्, "अजादेर्द्वितीयस्ये"ति णिचो द्वित्वेऽब्यासोत्तरखण्डस्याऽवर्णपरत्वाऽभावात्। इति वाऽर्थ इति। व्याख्यानद्वयमप्याकरारूढमिति भावः।

* ईष्र्यतेस्तृतीयस्येति वक्तव्यम्। षकारस्येति। रेफस्य तु "न न्द्राः" इत्यनेन निषेधादिति भावः। द्वितीये त्विति। "तृतीयस्यैकाच " इति पक्षे। सन्नन्ते प्रवर्तत इति। वचनसामथ्र्यादिति भावः। ऐर्ष्यियदिति। "तृतीयव्यञ्जनस्ये"ति पक्षे इदमुदाहरणम्। "ऐर्षिष्य"दिति रूपस्याऽसाधुत्वमाशङ्क्योपपादयति-- द्वितीयव्याख्यायामित्यादिना। द्वितीयस्यैवेति। "एकाच" इति शेषः। अप्रवृत्तेरिति। किंतु सन्नन्त एव प्रवर्तते। तत्र ह्रनुपदमीर्ष्यियिषतीत्युदाहरिष्यति। "अर्थ उपयाच्ञाया"मित्यस्य आगर्वीयत्वादात्मनेपदेन भाव्यमिति "प्रार्थयन्ती"ति माघकाव्यादिप्रयोगोऽसाधुरित्याशङ्क्य तत्समर्थनायाह-- निवृत्तप्रेषणादिति। उक्तं च-- "निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते" इति। तेनेत्यादि। "प्रार्थना कुर्वन्ती" ति विवक्षितार्थे प्रयोगः सिद्ध इति भावः। केचित्तु परस्मैपदसिद्ध्यर्थं-- प्रार्थनं प्रार्थः, तं कुर्वन्ति प्रार्थयन्तीति वयाचक्षते, तदसत्। धातुसंज्ञाप्रयोजकप्रत्यये चिकीर्षिते उपसर्गाणां पृथक्करमस्य वक्ष्यमाणतया "अर्थवेदे" त्यापुगागमस्य दुर्वारत्वात्। इति ण्यन्तप्रक्रिया॥