पूर्वम्: २।४।४८
अनन्तरम्: २।४।५०
 
सूत्रम्
गाङ् लिटि॥ २।४।४९
काशिका-वृत्तिः
गाङ् लिटि २।४।४९

गाङदेशो भवति इङो लिटि परतः। अधिजगे, अधिजगाते, अधिजगिरे। गाङो ऽनुबन्धग्रहणं विशेषनार्थम्, गाङ् कुटादिभ्यो ऽञ्णिन् ङित् १।२।१ इत्यत्र अस्य ग्रहणं यथा स्यात्। न हि स्थानिवद्भावेन गाङिति रूपं लभ्यते।
लघु-सिद्धान्त-कौमुदी
गाङ् लिटि ५८८, २।४।४९

इङो गाङ् स्याल्लिटि। अधिजगे। अधिजगाते। अधिजगिरे। अध्येता। अध्येष्यते। अधीताम्। अधीयाताम्। अधीयताम्। अधीष्व। अधीयाथाम्। अधीध्वम्। अध्ययै। अध्ययावहै। अध्ययामहै। अध्यैत। अध्यैयाताम्। अध्यैयत। अध्यैथाः। अध्यैयाथाम्। अध्यैध्वम्। अध्यैयि। अध्यैवहि। अध्यैमहि। अधीयीत। अधीयीयाताम्। अधीयीरन्। अध्येषीष्ट॥
न्यासः
गाङ् लिटि। , २।४।४९

"अधिजगे" इति। "लिटस्तझयोरेशिरेच्" ३।४।८१ इत्येश्। "आतो लोप इटि च" ६।४।६४ इत्याकारलोपः। गा इत्येतस्य द्विर्वचनम्। ननु लिटि परभूते तशब्दस्य परत्वात् प्रगेवैशादेशेन भवितव्यम्; पश्चात् गाङादेशेन, ततश्च द्विर्वचने निमित्तेऽच्ययं गाङादेश इति "द्विर्वचनेऽचि" १।१।५८ इति स्थानिवद्भावादिवर्णस्य द्विर्वचनं प्राप्नोति, तत्कथं गा इत्येतस्य द्वर्वचनम्? नैतदस्ति; यस्मात् लिण्मात्रापेक्षत्वात् गाङादेशोऽन्तरङ्गः, लिडादेशविशेषाश्रयत्वादेशादेशो बहिरङगः, तस्मादन्तरङ्गत्वादेशादेशात् प्रागेव गाङ्गादेशेन भवितव्यम्, ततश्च द्विर्वचननिमित्तेनायमच्यजादेश इति स्थानिवद्भावो न भवति, तत्कुत इवर्णस्य द्विर्वचनप्रसङ्गः। "गाङोऽनुबन्धकरणं विशेषणार्थम्" इति। गाङकुटादिसूत्रे १।२।१ "गाङकुटादिभ्यः" इत्युच्यमाने "कै गै शब्दे" (धा।पा।९१६,९१७) इत्यस्यापि ग्रहणं स्यात्, ततश्चागासीन्नट इत्यत्र ग्रहणं कस्मान्न भवति? येन हेतुना न भवति स हेतुर्गाङ्कुटादिसूत्रे एव दर्शितः। ननु चेङो ङितस्तत्र स्थानिवद्भावेनैव ग्रहणं भविष्यति, त()त्क ङकारेणेत्यत आह-- "न हि" इत्यादि। तत्र हि गाङित्येतस्य स्वरूपस्य ग्रहणम्। न च तत् स्थान#इवद्भावेन लभ्यते। किं तर्हि? कार्यम्। यस्मात् "स्थानिवदादेशः" १।१।५५ इति कार्यातिदेशोऽयम्, न रूपातिदेशः॥
बाल-मनोरमा
गाङ् लिटि २९०, २।४।४९

गाङ् लिटि। इङ इति। "इङश्चे"त्यतस्तदनुवृत्तेरिति भावः। स्थनिवत्त्वादेव ङित्त्वे सिद्धे ङित्करणं "गाङ्कुटादिभ्यः" इत्यत्र "इणो गा लुङी"त्यस्य ग्रहणाऽभावार्थमिति भाष्यम्। ननु कृते गाङादेशे द्वित्वेऽभ्यासजश्त्वे आल्लोपे अधिजगे इति रूपं वक्ष्यति। तदयुक्तम्। "द्विर्वचनेऽचीति गाङादेशनिषेधाद्गाङादेशात् प्रागेव द्वित्वे सति उत्तरखण्डस्य गादेशे अधीगे इति रूपापत्तेरित्यत आह-- लावस्थायां, विवक्षिते वेति। तत्र "लावस्थाया"मिति वार्तिकमते गाङ्गादेशात्प्रागेव "द्विर्वचनेऽची"ति सूत्रं न प्रवर्तते, द्वित्वनिमित्ताऽचोऽभावात्। "विवक्षिते" इति भाष्यमते तु सुतरां "द्विर्वचनेऽची"ति न प्रवर्तते, अनैमित्तिकत्वादिति भावः। अधिजगिरे इति। अधिजगिषे अधिजगाथे अधिजगिध्वे। अधिजगे अधिजगिवहे अधिजगिमहे। लोटि--अधीताम् अधीयाताम् अधीयताम्। अधीष्व अधीयाथाम् अधीध्वमिति सिद्धवत्कृत्य आह-- अध्ययै इति। तत्र प्रक्रियां दर्शयति-- गुणाऽयादेशयोरिति। "पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणेति "सुट्कात्पूर्वः इति सूत्रसिद्धान्तादिति भावः। तथा च इट् एत्त्वे आटि वृद्धौ अधि इ ऐ इति स्थिते गुणेऽयादेशे यणिति फलितम्। ननु "पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेने"त्यपि पक्षः "सुट्कात्पूर्वः" इति सूत्रभाष्ये स्थितः, तथा च अधि इ ऐ इति स्थिते पूर्वसवर्णदीर्गे सति गुणाऽयादेशयोः कृतयो अधयै इति स्यादित्याशङ्क्य निराकरोति--पूर्वं धातुरिति। साधनेनत्यस्य कारकबोधकेनेत्यर्थः। प्रत्ययेनेति यावत्। दर्शन इत्येतस्य मते इत्यर्थः। "पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेने"ति पक्षे पर्वप्रवृत्तिकत्वेन अन्तरङ्गत्वात् "सार्वधातुकाद्र्धधातुकयो"रिति गुणं बाधित्वा सवर्णदीर्घः प्राप्तो न भवतीत्यन्वयः। कुत इत्यत आह-- णेरध्ययने वृत्तमिति निर्देशादिति। अन्यथा ल्युटि अनादेशे अधि इ अन इति स्थिते पूर्वं सवर्णदीर्घे ततो गुणाऽयादेशयोः कृतयोरधयनमिति प्रसङ्गादिति भावः। वस्तुतस्तु "पूर्वं धातुः साधनेन युज्यते" इत्येव भाष्यसंमतं, "पूर्वं धातुरुपसर्गेण। नैतत्सार"मिति भाष्योक्तेरित्यन्यत्र विस्तरः। अध्ययावहै अध्ययामहै। लड()आह--अध्यैतेति। अधि आ इ त इति स्थिते "आटश्चे"ति वृद्धौ यणिति भावः। अधि इ आतामिति स्थिते आटि वृद्धौ यण अध्यैतामिति प्राप्ते आह-- परत्वादियङिति। आटः प्रागेव परत्वादिकारस्य इयङि तत आटि वृद्धौ यणि "अध्यैयाता"मिति रूपमित्यर्थः। अध्यैयतेति। "आत्मनेपदेष्वनतःट इत्यदादेशः। अध्यैथाः अध्यैयाथाम् अध्यैध्वमिति सिद्धवत्कृत्याह--अध्यैयि अध्यैवहि अध्यैमहीति। विधिलिङ्याह-- अधीयीतेति। अधि इ त इति स्तिते सीयुटि सुटि सलोपे अधि इ ईत इति स्थिते धातुभूतस्य इकारस्य इयङि सवर्णदीर्घ इति भावः। अधीयीयातामिति। अधि इ आतामिति स्थिते सीयुटि सुटि सलोपे अधि इ ईयातामिति स्थिते धातुभूतस्येकारस्य इयङि सवर्णदीर्घ इति भावः। झस्य रन्भावे सीयुटि सकारयकारलोपे अधि इ ई रन् स्थिते धातुभूतस्य इकारस्य इयङि सवर्णदीर्घे - अधीयीरन्, अधीयीथाः, अधीयीयाथामिति सिद्धवत्कृत्य आह-अधीयीध्वमिति। ध्वमि सीयुटि सलोपे यलोपे अधि इ ई ध्वमिति स्थिते इङ इयङि सवर्णदीर्घ इति भावः। अधीयीयेति। "इटोऽत्"। सीयुट्। सलोपः। अधि इ ईय इति स्थिते इङ इयङि सवर्णदीर्घ इति भावः। अधीयीवहि अधीयीमहि। आशीर्लिङ्याह-- अध्येषीष्टेति। सीयुटि गुणः। यण् षत्वम्। अध्येषीयास्ताम्- -- अध्येषीरन्। अध्येषीष्टाः अध्येषीयास्थाम् अध्येषीढ्वम्। अध्येषीय अध्येषीवहि अध्येषीमहि।लुङि आटि अधि आ इ त इति स्थिते--

तत्त्व-बोधिनी
गाङ् लिटि २५१, २।४।४९

गाङ् लिटि। लावस्थायामिति। वार्तिकमते तु एकादेशात्प्रागेव गाङ्गादेशे "द्विर्वचनेऽचि" इति सूत्रं न प्रवर्तते, द्वित्वनिमित्ताऽचोऽभावात्। विवक्षित इति। भाष्यमते तु सुतरां न प्रवर्तते, अनैमित्तिकत्वादिति भावः। निर्देशान्न भवतीति। "वार्णादाङ्गं बलीयः" इति समाधानं तु न प्रवर्तते, व्याश्रयत्वादिति भावः। अध्यैयतेति। "आत्मनेपदेष्वनतः" इति झस्य अत्। लड्मध्यमे तु -- अध्यैथाः। अध्यैयाथाम्। अध्यैध्म्। अध्येषीष्टेति। लिङः सीयुट्। अध्यैषीयास्ताम्। अध्यैषीरन्।