पूर्वम्: २।४।५३
अनन्तरम्: २।४।५५
 
सूत्रम्
चक्षिङः ख्याञ्॥ २।४।५४
काशिका-वृत्तिः
चक्षिङः ख्याञ् २।४।५४

चक्षिङः ख्याञादेशो भवति आर्धधातुके। आख्याता। आख्यातुम्। आख्यातव्यम्। स्थानिवद्भावेन नित्यम् आत्मनेपदं न भवति, ञकारानुबन्धकरणसामर्थ्यात्। आख्यास्यति। आख्यास्यते। क्शादिरप्ययम् आदेश इष्यते। आक्शाता। आक्शातुम्। आक्शातव्यम्। वर्जने प्रतिषेधो वक्तव्यः। दुर्जनः संचक्ष्याः। वर्जनीयाः इत्यर्थः। असनयोश्च प्रतिषेधो वक्तव्यः। नृचक्षा रक्षः हिंसार्थो ऽत्र भातुः। अने खल्वपि विचक्षणः पण्डितः। बहुलं संज्ञाछन्दसोरिति वक्तव्यम्। अन्नवधकगात्रविचक्षणाजिराद्यर्थम्।
लघु-सिद्धान्त-कौमुदी
तृतीयासप्तम्योर्बहुलम् ९१६, २।४।५४

अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात्। अधिगोपम्, अधिगोपेन, अधिगोपे वा। कृष्णस्य समीपम् उपकृष्णम्। मद्राणां समृद्धिः सुमद्रम्। यवनानां व्यृद्धिर्दुर्यवनम्। मक्षिकाणामभावो निर्मक्षिकम्। हिमस्यात्ययोऽतिहिमम्। निद्रा संप्रति न युज्यत इत्यतिनिद्रम्। हरिशब्दस्य प्रकाश इतिहरि। विष्णोः पश्चादनुविष्णु। योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः। रूपस्य योग्यमनुरूपम्। अर्थमर्थं प्रति प्रर्त्षथम्। शक्तिमनतिक्रम्य यथाशक्ति॥
न्यासः
चक्षिङः ख्याञ्। , २।४।५४

"नित्यमात्मनेपदं न भवति" इति। यदि हि स्यात्, अकारानुबन्धकरणमनर्थकं स्यात्। तस्मात् कत्र्रभिप्राये क्रियाफले विवक्षित आत्मनेपदं स्यान्नान्यत्र। "क्शादिरपि" इति। ककारशकारयोरकार उच्चारणार्थः। क्()श् ख्याञित्येवंरूप आदेशो वक्तव्यः कथं पुनरिष्यमाणोऽप्येवंविध आदेशो लभ्यते? पूर्वोक्तस्य बहुलग्रहणस्यानुवृत्तेः। अत ए बहुलग्रहणस्यानुवृत्तेर्वर्जनेऽसनयोश्चादेशप्रतिषेधो भवतीति व्याख्यानं कत्र्तव्यम्। "संचक्ष्या" इति। "ऋहलोण्र्यत्" ३।१।१२४। "नृचक्षा" इति। "सर्वधातुभ्योऽसुन्" (द।उ।९।४९), "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः। "विचक्षणः" इति। "कृत्यल्युटो बहुलम्" ३।३।११३ इति कत्र्तरि ल्युट्। "बहुलम्" इत्यादि। संज्ञायां छन्दसि च जग्ध्यादेशादिकार्यं बहुलं न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थम्? अन्नाद्यर्थम्। अन्नादयः शब्दा साधवो यथा स्युः। व्याख्यानन्तु तदेव बहुलग्रहणमाश्रित्य कत्र्तव्यम्। "अन्नम्" इति। अदो जग्धिरादेशो न भवति; बहुलग्रहणस्य सिंहावलोकितन्यायेनानुवृत्तेः। "वधक" इति। "हनो वध" २।४।४२ इत्यादिना वधादेशो लिङ्युटच्यमानो हन्तेर्ण्वुल्प्रत्यये कृतेऽपि भवति। "गात्रम्" इति। औणादिकः ष्ट्रन्। "इणो गा लुङि" २।४।४५ इति लुङ्युच्यमानो गादेशोऽत्रापि भवति। " विचक्षणः" इति। चक्षिङ ख्याञादेशो न भवति ल्युटि। अजिरशब्दस्तु "अजिरशिशिरशिथिर" (द।उ।८।२७) इति किरच्प्रत्ययान्त औणादिको निपातितः। तस्यात एव निपातनात् "अजेघञपोः" २।४।५६ इति विधीयमानो वीभावो न भवति। आदिशब्देन "प्रघस" इत्यादेग्र्रहणम्॥
बाल-मनोरमा
चक्षिङः ख्याञ् २६७, २।४।५४

चक्षिङः ख्याञ्। चक्षिङः ख्याञ् स्यादाद्र्धधातुके परे इत्यर्थः।

तत्त्व-बोधिनी
चक्षिङः ख्शाञ् २३३, २।४।५४

ख्शादिरिति। तेन "पुंख्यान"मित्यत्र "पुमः खय्यम्परे" इति रुत्वं नेत्यादि पूर्वार्धे एवोक्तम्।