पूर्वम्: २।४।५७
अनन्तरम्: २।४।५९
 
सूत्रम्
ण्यक्षत्रियार्षञितो यूनि लुगणिञोः॥ २।४।५८
काशिका-वृत्तिः
ण्यक्षत्रियाऽर्षञितो यूनि लुगणिञोः २।४।५८

ण्याऽदयो गोत्रप्रत्ययाः। ण्यान्तात् क्षत्रियगोत्रादार्षाद् ञितश्च प्रयोः अण्डञोर्यूनि लुग् भवति। ण्यान्तात् तावत् कुर्वादिभ्यो ण्यः ४।१।१५१ , तस्माद् यूनि इञ्, तस्य लुक्। कौरव्यः पिता। कौरव्यः पुत्रः। ननु च कौरव्यशब्दः तिकादिषु पठ्यते, ततः फिञा भवितव्यम्, कौरव्यायणिः इति? क्षत्रियगोत्रस्य तत्र ग्रहणम्, कुरुनादिभ्यो ण्यः ४।१।१७० इत्यनेन विहितस्य, इदं तु ब्राह्मणगोत्रम्, कुर्वादिभ्यो ण्यः ४।१।१५१ इति। क्षत्रिय ऋष्यन्धकवृष्णिकुरुभ्यश्च ४।१।११४ इत् यण्, तस्माद् यूनि इञ्, तस्य लुक्। श्वाफल्कः पिता। श्वाफल्कः पुत्रः। आर्ष ऋष्यण् ४।१।११४, तस्माद् यूनि इञ्, तस्य लुक्। वासिष्ठः पिता। वासिष्ठः पुत्रः। ञित् अनृष्यानन्तर्ये विदाऽदिभ्यो ऽञ् ४।१।१०४, तस्माद् यूनि इञ्, तस्य लुक्। बैदः पिता। वैदः पुत्रः। अणः खल्वपि तिकाऽदिभ्यः फिञ् ४।१।१५४, तस्माद् यूनि प्राग् दीव्यतो ऽण् ४।१।८३, तस्य लुक्। तैकायनिः पिता। तैकायनिः पुत्रः। एतेभ्यः इति किम्? शिवाऽदिभ्यो ऽण् ४।१।११२, तस्माद् यूनि अत इञ् ४।१।९५, तस्य लुग् न भवति। कौहडः पिता। कौहडि पुत्रः। यूनि इति किम्? वामरथ्यस्य छात्राः वामरथाः। कुर्वादिभ्यो ण्यः ४।१।१५१ इति ण्यः, तस्मात् कण्वाऽदिभ्यो गोत्रे ४।२।११० इति शैषिको ऽण्। तस्य लुग् न भवति। अणिञोः इति किम्? दाक्षेरपत्यं युवा दाक्षायणः। अब्राह्मणगोत्रमात्रमात्राद्युवप्रत्ययस्तोपसङ्ह्यानम्। बौधिः पिता। बौधिः पुत्रः। जाबालिः पिता। जाबालिः पुत्रः। औदुम्बरिः पिता। औदुम्बरिः पुत्रः। भाण्डीजङ्घिः पिता। भाण्डीजङ्घिः पुत्रः। शाल्वावयवलक्षन इञ्, तस्मात् फक्, तस्य लुक्। पैलादिदर्शनात् सिद्धम्।
न्यासः
ण्यक्षत्त्रियार्षञितो यूनि लुगणिञोः। , २।४।५८

"ण्यादयो गोत्रप्रत्ययाः" इति। "गोत्राद्यून्यस्त्रियाम्" ४।१।९४ इति गोत्रप्रत्ययान्तादेव युवप्रत्ययविधानात्। "तस्माद्यूनीञ्" इति। "अत इञ्" ४।१।९५ इत्यनेन। "कौरव्यशब्दस्तिकादिषु पठ()ते" इति। औरसशब्दादनन्तरम्। "क्षत्रियगोत्रस्य तत्र ग्रहणम्" इति। औरसशब्देन क्षत्रियगोत्रप्रत्ययान्तेन साहचर्यात्। औरसशब्दो हि जनपदशब्दात् क्षत्त्रियादञ् ४।१।१६६ इति क्षत्त्रियगोत्रप्रत्ययान्तः॥ "ऋष्यण्" इति। "ऋष्यन्धकवृष्णिकुरुभ्यश्च" ४।१।११४ इत्यनेन। "कुर्वादिभ्यो ण्यः" इति। वमरथ्यशब्दं व्युत्पादयति। तस्मात् "कण्वादिभ्योगोत्रे इति शैषिकोऽण्" इति। ननु च वामरथ्यशब्दः कुर्वादिषु पठ()ते, न कण्वादिषु, तत्कथमेवमुक्तम्? यद्यपि न पठ()ते, तथापि वामरथ्यस्य कण्वादिवत् स्वरवर्जमिति पाठात् कण्वादिवद्भावोऽस्ति, अत एवमुक्तमित्यदोषः। "दाक्षायणः" इति। "यञिञोश्च" ४।१।१०१ इति फक्। "अब्राआहृणगोत्रमात्रात्" इति। इह कैश्चिदुक्तम्-- "अणिञोर्लुकि क्षत्रियगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम्" इति। तेषां वैश्यगोत्रान्न प्राप्नोति; तस्माद्वैश्यगोत्रादपि यथा स्यादित्येवमर्थं मात्रग्रहणम्। ब्राआहृणक्षत्रियवैश्यानां हि गोत्राणि सम्भवन्ति, तत्र ब्राआहृणगोत्रं वर्जयित्वाऽन्यतः सर्वस्माद्भवति। पूर्वके तु वाक्येऽतद्राजादपि क्षत्रियगोत्राद्यथा स्यादित्येवमर्थं मात्रग्रहणम्। तथा हि "अणिञोर्लुकि तद्राजाद्युप्रत्ययस्योपसंख्यान्" दर्शयति। "भाण्डीजङ्घिः" इत्येवमादिना वैश्यगोत्रोदाहरणम्। ब्राआहृणगोत्रप्रतिषेधादिह न भवति--दाक्षायण इति। "शाल्वावयवलक्षणः" इति। क्षत्रियगोतर्मधिकृत्येदमुक्तम्। भाण्डीजङ्घिरित्यत्र वैश्यगोत्रे "अत इञ्" ४।१।९५ इत्यनेनेञेव भवतीति वेदितव्यम्। "पैलादिदर्शनात् सिद्धम्" इति। पैलादेराकृतिगणत्वात् तत्रेते द्रष्टव्या इति दर्शयति॥
बाल-मनोरमा
ण्यक्षत्रियार्षञितो यूनि लुगणिञोः १२५७, २।४।५८

अत्र इञो लुकमाशङ्कितुमाह--ण्यक्षित्रियार्ष। ण्यादयः सर्वे गोत्रप्रत्यया एव गृह्रन्ते, "गोत्राद्यूनी"त्युक्तेः। तदाह--गोत्रप्रत्ययान्तादित्यादि। ण्यप्रत्ययस्योदाहरति--कौरव्य इति। कुरोर्गोत्रापत्यं कौरव्यः। "कुर्वादिभ्यो ण्यः"। कौरव्यस्यापत्यं युवेत्यर्थेऽत इञ्। तस्यानेन लुक्। क्षत्रियप्रत्ययस्योदाहरति--()आआफल्क इति। ()आफल्कस्य गोत्रापत्यं ()आआफल्कः। "ऋष्यन्धके"त्यण्। ()आआफल्कस्यापत्यं युवेत्यर्थे "अत इञ्"। तस्याऽनेन लुक्। आर्षप्रत्ययस्योदाहरति--वासिष्ठ इति। वसिष्ठस्य गोत्रापत्यं वासिष्ठः। ऋष्यण्। वासिष्ठस्यापत्यं युवेत्यर्थे इञ्। तस्यानेन लुक्। ञित उदाहरति--तैकायनिरिति। तिकस्य गोत्रापत्यं तैकायनि। तिकादिभ्यः फिञ्। तैकायनेरपत्यं युवेत्यर्थे तस्यापत्यमित्यण्। तस्यानेन लुक्। वामरथ्यस्येति। वामरथस्य गोत्रापत्यं वामरथ्यः। "कुर्वादिभ्यो ण्यः" वामरथ्यस्य छात्रा इत्यर्थे "कण्वादिभ्यो गोत्रे" इति छापवादोऽण्, तस्यानेन लुङ्ग भवति, तस्य युवार्थकत्वाऽभावादिति भावः। इत्यणो लुक्तु न भवतीति। "ण्यक्षत्रिये"ति सूत्रेण पाणिनिरित्यत्र [अणः परस्य]इणो लुङ्न भवतीत्यर्थः। कुत इत्यत आह--आर्षग्रहणेनेति। पाणिनिशब्दे पणिन्शब्दादण्प्रत्ययस्य औत्सर्गिकस्य वस्तुगत्या ऋषिवाचित्वेऽपि ऋषौ प्रतिपदोक्तत्वाऽभावान्न ततः परस्य इञो लुगिति भावः। नच पणिन्शब्दाद्गोत्रापत्ये "ऋष्यन्धके"त्यणेव कुतो न स्यादिति वाच्यं, यत्र औत्सर्गिकस्य अण इञादिना बाधः प्रसक्तः, तत्रैव तद्वाधनार्थभृष्यणः प्रवृत्तेः। वस्तुतस्तु "वाऽन्यस्मिन्सपिण्डे" इति सूत्रभाष्येऽत्रिशब्दात् "इतश्चानिञः" इति ढकि आत्रेयशब्दादिञो "ण्यक्षत्रियार्षे"ति लु"गित्युक्तत्वादिदमुपेक्ष्यम्। "ण्यक्षत्रिये"त्यत्र तु ऋशिवाचकस्य रूञस्यैव ग्रहणम्। पणिन्शब्दः, तदपत्ये पाणिनशब्दश्च न ऋषिवाचकौ। अत औत्सर्गिकाणन्त एव पाणिनशब्द इति शब्देन्दुशेखरे प्रपञ्चितम्। पाणिनिनेति। पाणिनिना प्रोक्तमित्यर्थे "तेन प्रोक्त"मित्यणं बाधित्वा"वृद्धाच्छः" इति छप्रत्यये ईयादेशे पाणिनीयशब्द इत्यर्थः। ननु पाणिनिशब्दात्तद्धिते विवक्षिते "यूनिलुगितीञो लुकि सत्यपि प्रत्ययलक्षणेन इञन्तत्वमाश्रित्य छापवादोऽण्स्यादित्यत आह--इञश्चेत्यण्तु नेति। पाणिनिशब्दे इञ् युवापत्यार्थक एव, न तु गोत्रार्थकः, युवसंत्रया गोत्रसंज्ञाया बाधादिति भावः। अद्यपि अपत्याधिकारादन्यत्र न पारिभाषिकं गोत्रमित्युक्तं, तथाप्यत्र पारिभाषिकमेव गोत्रं गृह्रते इत्युपरिष्टात् "इञश्चे"ति सूत्रे वक्ष्यते। तत इति। पाणिनीयशब्दादित्यर्थः। पाणिनीयमधीते वेति वेत्यर्थे पाणिनीयशब्दादणि "प्रोक्ताल्लु"गिति तस्य लुगिति भावः। ननु असत्यपि अध्येतृवेतितृप्रत्ययस्याऽणो लुकि पाणिनीयशब्दः सिध्यत्येवेत्यत आह--स्वरे स्त्रियां च विशेष इति। अध्येतृवेदितृप्रत्ययस्याऽणो लुगभावे प्रत्ययस्वरेणान्तोदात्तत्वं स्त्रियां च ङीप्स्यात्। लुकि तु सति छादेशस्य ईयादेशस्य ईकारः। प्रत्ययस्वरेणोदात्तः टाप्च सिध्यति। तदाह--पाणिनीयः पाणिनीयेति।

तत्त्व-बोधिनी
ण्यक्षत्त्रियार्षञितोयूनि लुगणिञोः १०२१, २।४।५८

ण्यक्षत्रियार्ष। कौरव्य इति। "कुर्वादिभ्यो ण्यः"। तत इञो लुक्। कौरव्यः पुत्रः। ननु तिकादिषु कौरव्यशब्दः पठ()ते, तथा च कौरव्यायणिरिति फञा भाव्यं, नत्विञेति चेत्सत्यम्। "कुरुनादिभ्यो ण्यः" इति क्षत्रियगोत्रे विहितो यो ण्यस्तदन्तं तत्र पठ()ते। प्रकृते तु ब्राआहृणगोत्रप्रत्ययान्तमित्यवधेयम्। ()आआफल्क इति। "ऋष्यन्धके"त्यण्। तत इञो लुक्, ()आआफल्कः पुत्रः। वासिष्ठ इति। ऋष्यञ्। तत इञो लुक्। वासिष्ठः पुत्रः। तैकायनिरिति। "तिकादिभ्यः फिञ्"। ततोऽणो लुक्। तैकायनिः पुत्रः। वामरथा इति। कुर्वादित्वाण्ण्यः। ततो वृद्धाच्छं बाधित्वा "कण्वादिभ्यो गोत्रे" इति शैषिकोऽण्। इतीति। "ण्यक्षत्रियार्षे"त्युदाह्मतसूत्रेणेत्यर्थः। ऋष्यण एवेति। पाणिनशब्दे तु औत्सर्गिक एवाऽणिति भावः। नन्विदं "वान्यस्मिन् सपिण्डे"इति सूत्रस्थभाष्यकैयटाभ्यां विरुध्यते। अत्रेर्युवापत्यानि पुमांसोऽत्रयः। इनश्चानिञः "इति ढक्। तदन्ताद्यूनि "अत इञ्"। तस्य "ण्यक्षत्रिये"ति लुक्, "अत्रिमृगुकुत्से"ति ढकोऽपि लुक्" इत्युक्तत्वात्ष। "ऋष्यन्धके"त्यण एव ग्रहणे तु ढकोऽग्रहणात्ततः परस्येञो लुङ्न स्यादित्याहुओः। वस्तुतस्तु "दाक्षीपुत्रस्य पाणिने"रिति भाष्यप्रयोगादस्य साधुत्वमिति ज्ञेयम्। इञश्चेतीति। "यूनि लु"गिति लुक्यपि प्रत्ययलक्षणेन इञन्तमस्तीति भावः। गोत्रे य इञिति। "गोत्रमिह शास्त्रीयं, न तु लौकिक"मिति तत्र वक्ष्यते इति भावः। स्वरे इति। लुगभावे प्रत्ययस्वरेणान्तोदात्तत्वं स्त्रियां च ङीप्स्यात्। लुकि सति त्वोकार उदात्तः, टाप् च सिध्यतीति भावः।