पूर्वम्: २।४।५८
अनन्तरम्: २।४।६०
 
सूत्रम्
पैलादिभ्यश्च॥ २।४।५९
काशिका-वृत्तिः
पैलाऽदिब्यश् च २।४।५९

पैल इत्येवम् आदिभ्यश्च युवप्रत्ययस्य लुग् भवति। पीलाया वा ४।१।११८ इत्यण्, तस्मदणो द्व्यचः ४।१।१५६ इति फिञ्, तस्य लुक्। पैलः पिता। पैलः पुत्रः। अन्ये पैलाऽदयः इञन्ताः तेभ्यः इञः प्राचाम् २।४।६० इति लुकि सिद्धे ऽप्रागर्थः पाठः। पैल। शालङिक। सात्यकि। सात्यकामि। दैवि। औदमज्जि। औदव्रजि। औदमेघि। औदबुद्धि। दैवस्थानि। पैङ्गलायनि। राणायनि। रौहक्षिति। भौलिङ्गि। औद्गाहमानि। औज्जिहानि। तद्राजाच्चाणः। आकृतिगणो ऽयम्।
न्यासः
पैलादिभ्यश्च। , २।४।५९

"पीलाया वेत्यण्" इति। तत्र हि "शिवादिभ्योऽण्" ४।१।११२ इत्यतोऽण्ग्रहणानुवृत्तेः। "अन्ये पैलादयः इञन्ताः" इति। अत्रौदञ्चिशब्दो बाह्वादित्वादिञन्तः। बाह्वादिषु ह्रुदञ्चुशब्दः पठ()ते। उकारोच्चारणमतन्त्रम्। धातुप्रदर्शनार्थत्वात्। उदञ्चतीति "ऋत्विक्" ३।२।५९ इत्यादिना सूत्रेण क्विन्। उदचोऽपत्यमौदञ्चिः। निपातनात् "अनिदिताम्" ६।४।२४ इत्यादिना नलोपो न भवति, "अचः" ६।४।१३८ इत्यकारलोपश्च। भौलिङ्गिशब्दः शाल्वावयव इञन्तः। शेषास्तु "अत इञ्" ४।१।९५ इतीञन्ता वेदितव्याः। शालङ्किरिति पठ()ते, स कथम्, यावता नडादिषु "शलङ्कु शलङ्कञ्च" (ग।सू।६७) इति पाठात् शालङ्कायन इत भवितव्यम्? प्रकृत्यन्तरं शलङ्कुशब्दोऽस्ति, ततोऽयमिञ् विहित इत्येके। अस्मादेव निपातनाच्छलङ्कुशब्दादिञिति विज्ञायते, तत्सन्नियोगे च शलङ्कादेश इत्यपरे। "तद्राजाच्चाणः" इति। तद्राजसंज्ञकाच्चाण उत्तरस्य युवप्रत्ययस्य लुग् भवति। अङ्गस्यापत्यमिति "द्वयञ्मगध" ४।१।१६८ इति फिञ्, तस्यानेन लुक्॥
बाल-मनोरमा
पैलादिभ्यश्च १०६७, २।४।५९

पैलादिभ्यश्च। "ण्यक्षत्रियार्षे"त्यतो यूनि लुगित्यनुवर्तते। तदाह--एभ्यां युवप्रत्ययस्य लुगिति। अजादिप्रत्यये अविवक्षितेऽपि प्राप्त्यर्थमिदम्। पीलाया इति। पीलाया गोत्रापत्यमित्यर्थे "स्त्रीभ्यो ढ"गिति ढकं बाधित्वा "पीलाया वे"त्यणित्यर्थः। तस्मादिति। पैलस्यापत्यं युवेत्यर्थे पैलादिभ्यश्चे"ति लुक् "अमो द्व्यचः" इति फिञित्यर्थः। पीलाया गोत्रापत्यस्यापत्यं। पीलाया युवापत्यमिति पर्यवस्यति। तस्येति। तस्य-युवार्थकफिञ्प्रत्ययस्य अनेन लुगित्यर्थः। पीलाया गोत्रापत्ये, युवापत्ये च पैलशब्द इत्याह--पैलः पिता पुत्रश्चेति। यूनः पिता, युवा चेत्यर्थः। "तद्राजाच्चाऽणः"इति पैलादिगणसूत्रम्। तद्राजप्रत्ययात्परस्य युवप्रत्ययस्याऽणो लुगित्यर्थः। द्व्यञ्मगधेति। अङ्गशब्दो देशविशेषे तस्य राजा आङ्गः। तस्य गोत्रापत्यमप्याङ्गः। "द्व्यञ्मगधे"त्यण्। तस्यापत्यं युवाप्याङ्ग एव। "अणो द्व्यचः" इति फिञ्, तस्यानेन लुक्।

तत्त्व-बोधिनी
पैलादिभ्यश्च ८९४, २।४।५९

युवप्रत्ययस्येति। वक्ष्माण इति। "प्राचामवृद्धात्फिन्बहुल"मिति वक्ष्यमाणः। अजादौ किम्()। ग्लौचुकायनरूप्यम्। प्राग्दीव्यटतीये किम्()ष ग्लौचुकायनीयम्। "तस्मै हित"मिति छः। इह "द्विगोर्लुग नपत्येऽचि" "यूनि गोत्रे ने"त्येव सूत्रयितव्यम्। तथा च "लुगलुग्ग्रहणं शक्यमकर्तुं"मिति मनोरमायां स्थितम्। तत्र "फिक्फिञो"रिति सूत्रे "यूनी"त्यस्य मण्डूकप्लुतिराश्रयणीयेति क्लेशोऽयं लाघवानुरोधेन सोढव्य इति भावः। पैलदिभ्यश्च। "ण्यक्षत्रियार्षे"त्यतो "यूनि लु"गिति वर्तते। तदाह---।