पूर्वम्: २।४।५
अनन्तरम्: २।४।७
 
सूत्रम्
जातिरप्राणिनाम्॥ २।४।६
काशिका-वृत्तिः
जातिरप्राणिनाम् २।४।६

जातिवाचिनां शब्दानां द्वन्द्व एकवद् भवति प्राणिनो वर्जयित्वा। आराशस्त्रि। धानाशष्कुलि। जातिः इति किम्? नन्दकपाञ्चजन्यौ। अप्राणिनाम् इति किम्? ब्राह्मणक्षत्रियविट्शूद्राः। नञिवयुक्तन्यायेन द्रव्यजातीनाम् अयम् एकवद्भावः, न गुणक्रियाजातीनाम्। रूपरसगन्धस्पर्शाः। गमनाकुञ्चनप्रसारणानि। जाति परत्वे च जातिशब्दानाम् अयम् एकवद्भावो विधीयते, न नियतद्रव्यविवक्षायाम् इह कुण्डे बदरामलकानि तिष्ठन्ति इति।
न्यासः
जातिरप्राणिनाम्। , २।४।६

अयमपि गौण्या वृत्त्या जातिद्र्वन्द्व इति सामानाधिकरण्येन निर्देशः कृतः। जातिवाच्यवयवो द्वन्द्वो जातिरित्युक्तः। जातेश्च स्वरूपग्रहणं न भवति, अप्राणिनामिति प्रतिषेधात्। "आराशस्त्रि" इति। "ह्यस्वो नपुंसके प्रातिपदिकस्य" १।२।४७ इति ह्यस्वः। "नन्दकपाञ्चजन्यौ" इति। संज्ञाशब्दयोरेव द्वन्द्वोऽयम्, न जातिशब्दयोः। अनेनाप्राणिनामित्यस्य पर्युदासतां दर्शयति। तेनायमर्थो भवतीत्याह-- "नञिवयुक्त" इत्यादि। "रूपरसगन्धस्पर्शाः" इत्यादि गुणजातिः। "गमनाकुञ्चनप्रसारणानि" इति क्रियाजातिः। "जातिपरत्वे च" इति। यदा जातेः प्राधान्येन विवक्षा तदा जातेःपरत्वे प्रधानत्वे सति जातिशब्दानाममेकवद्भावो भवति। "न नियतद्रव्यविवक्षायाम्" इति। यदा क्वचिद्देशादौ नियतानां द्रव्यविशेषाणां विवक्षा भवति तदा जातिशब्दस्य प्रयोगेऽप्येकवद्भावो न भवति। कुत एतत्? जातिरित्यभिधानान्मुख्या जातिराश्रीयते; न गौणी। एतच्च प्रधाने कार्यसम्प्रत्ययाल्लभ्यते। एतदुक्तं भवति-- यदा जातिरेव व्यक्तिविशेषमाश्रित्य प्रयुज्यते तदा नैकवद्भावः। यदा तु व्यक्तिविशेषमनाश्रित्य प्रयुज्यते तदैवैकवद्भाव इति। "बदरामलकानि" इति। अत्र बदरामलकानाञ्च व्यक्तिप्रयुक्तानां प्रतीतिः; न जातिशब्दानाम्। अत एव व्यक्त्याश्रयं बहुवचनम्; अन्यथा जातेर्द्वित्वाद्दविवचनमेव स्यात्, न बहुवचनम्। अप्राणिनामिति पर्युदासोऽयम्। तेनायमर्थो लभ्यते-- नञिवयुक्तन्यायेन (व्या।प।६५) रूपरसस्पर्शादीनान्नैकवद्भाव इति। अप्राण#इनामिति प्रतिषेधे बहुत्वं श्रूयमाणं विधावपि बहुत्वं गमयति। तेन बहुप्रकृतेरेव द्वन्द्व एकदवद्भवति, न द्विप्रकृतेः-- आराशस्त्र्याविति॥
बाल-मनोरमा
जातिरप्राणिनाम् ९००, २।४।६

जातिरप्राणिनां। "जाति"रिति षष्ठीबहुवचनस्थाने व्यत्ययेन प्रथमा जातिवाचिनामित्यर्थः। धानाशुष्कुलीति। धानाश्च शष्कुल्यश्च तासां समाहार इति विग्रहः। जातिवाचित्वादेकवत्त्वम्, नपुंसकत्वाद्ध्रस्व इति भावः। विट्छूद्रा इति। विशश्च शूद्राश्चेति विग्रहः। द्रव्यजातीयानामेवेति। "अप्राणिना"मिति पर्युदासे सति नञिवयुक्तन्यायादिदं लभ्यत इति भावः। रूपरसाविति। गुणगतजातिवचावेतौ। गमनाकुञ्चने इति। क्रियागतजातिविशेषवाचिनावेतौ। ननु बदर्याः फलानि बदरामि, आमलक्याः फलान्यामलकानि। "फले लु"गिति विकारप्रत्ययस्य लुकि "लुक्तद्धितलुकी"ति स्त्रीप्रत्ययस्य लुक्। फलत्वव्याप्यजातिविशेषवाचिनावेतौ। ततश्च बदराणि चामलकानि च बदरामलकं, बदरामलकानीति कथं रूपद्वयम्?, "जातिरप्राणिना"मित्येकवत्त्वस्य नित्यत्वादित्यत आह--जाति प्राधान्ये इति। व्यक्तिविशेषाऽनादरेण सकलतत्तद्व्यक्त्यनुस्यूतजातिविवक्षायामित्यर्थः। "घटमानये"त्यादौ हि घटादिशब्दानामाकृत्यधिकरणन्यायेन घटत्वादिजातिरर्थः। जातेश्च निराश्रयाया उपस्थित्यसंभवादाश्रयभूतव्यक्त्याकाङ्क्षायामविशेषात्कृत्स्नाप्युपस्थिता। तत्र घटमानयेत्यादिप्रयोगेषु जातेरतीतानागतवर्तमानकृत्स्नव्यक्तीनां च क्रियान्वयाऽसंभवाद्ध्यक्तिविशेषमेव कञ्चिदादाय क्रिया विश्राम्यति। इदमेव च जातेः प्राधान्यं, तत्तज्जात्याश्रयसकलतत्तद्व्यक्तिबोधकत्वात्मकम्। "घटाः शुक्लाः" इत्यादिप्रयोगेषु पदान्तरसमभिव्याहारादिवसाद्व्यक्तिविशेषामेव जातिरुपस्थापयतीति जातेरप्रधान्यम्, जात्याश्रयसकलव्यक्त्यनुपस्थधापकत्वादिति "तस्यादितः" इति सूत्रे कैयटे स्पष्टम्। ततश्च फलत्वव्याप्यया बदरत्वजात्या, आमलकत्वजात्या चाऽविशेषात्तदाश्रयसकलव्यक्त्युपस्थितौ बदरामलकमित्येकवद्भावः। द्रव्यविशेषेति। "आरण्यानि बदरामलकानी"त्यादौ फलत्वव्याप्यबदरत्वामलकत्वादिजातिभ्यामारण्यत्वादिविशेषितकतिपयव्यक्तीनामेवोपस्थितिः, ग्राम्याणां व्यक्तीनामनुपस्थितेस्तयोर्जात्योरप्राधान्यान्ना।डयमेकवद्बाव इत्यर्थः। "क्षीरोदके संपृक्ते"इत्यन्तादिवत्सूत्रभाष्यप्रयोगोऽत्र लिङ्गमित्याहुः।

तत्त्व-बोधिनी
जातिरप्राणिनाम् ७७६, २।४।६

जातिर। जातिवाच्यवयवकद्वन्द्वोऽपि जातिरित्युपचर्यत इत्याशयेनाह--जातिवाचिनामिति। विट्()शूद्रा इति। जातिप्राधान्येऽपि बहुवचनमुपपद्यते, "जात्याख्यायामेकस्मि"न्निति विधानात्। तेनात्र व्द्यङ्गविकलं नेति भावः। द्रव्यजातीयानामेवेति। "अप्राणिना"मिति पर्युदासात् "नञिवयुक्त न्यायेन द्रव्यजातीयानामेकवद्भावो, न तु गुणक्रियाजातीयानामिति भावः। जातिः किम्()। नन्दकपाञ्चजन्यौ। संज्ञाशब्दावेतौ। जातिप्राधान्य एवेति। एतच्च जातिग्रहणाल्लब्धम्। अन्यथा पर्युदासेनैव जात्युपसर्जनद्रव्यवाचिनोऽपि ग्रहणोपपत्तौः किं तेनेति भावः। द्रव्यविशेषेति। नन्वेवं "रञ्जिता नु विविधास्तरुशैलाः"इति भारविप्रयोगः सङ्गच्छत एवेति किमिति तरुसहिताः शैला इति मनोरमायां समर्थितमिति चेत्। अत्राहुः--सकलतरुशैलरञ्जनं तत्र विवक्षितं, न तु केषांचित्तरुशैलविशेषणामिति जातिप्राधान्यादेकवद्भावमशङ्क्यो तथोक्तमिति। बदरामलकानिति। "फले लु"गिति लुक्। "लुक्तद्धितलुकी"ति स्त्रीप्रत्यस्यापि लुकि फलत्वजात्युपसर्जनद्रव्यवचनावेतौ। "विभाषा वृक्षमृगे"ति सूत्रे बदराणि चामलकानि च बदरामलकम्। "जातिरप्राणिना"मित्येकवद्भाव"इति वक्ष्यति, तत्तु नाऽनेन ग्रन्थेन व#इरुध्यते। "फलत्वजातिवाचिनां बहुवचनान्तानामेव द्वन्द्व एकवद्भवति, न त्वेकवचनान्तां द्वन्द्व" इति "फलसेनावनस्पती"ति वार्तिकोक्तनियममुपेत्य तत्प्रवृत्तेः।