पूर्वम्: २।४।६१
अनन्तरम्: २।४।६३
 
सूत्रम्
तद्राजस्य बहुषु तेनैवास्त्रियाम्॥ २।४।६२
काशिका-वृत्तिः
तद्राजस्य बहुषु तेन एव अस्त्रियाम् २।४।६२

ते तद्राजाः ४।१।१७०, ञ्याऽदयस् तद्राजाः ५।३।११९ इति वक्ष्यति, तस्य तद्राजसंज्ञस्य प्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुग् भवति, तेन एव चेत् तद्राजेन कृतं बहुत्वं भवति। अङ्गाः। वङ्गाः। पुण्ड्राः। सुह्माः। मगधाः। लोहध्वजाः। व्रीहिमन्तः। तद्राजस्य इति किम्? औपगवाः। बहुषु इति किम्? आङ्गः। तेन एव ग्रहणं किम्? प्रियो वाङ्गो येषां ते इमे प्रियवाङ्गाः। अस्त्रियाम् इति किम्? आङ्ग्यः स्त्रियः।
लघु-सिद्धान्त-कौमुदी
तद्राजस्य बहुषु तेनैवास्त्रियाम् १०३४, २।४।६२

बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम्। इक्ष्वाकवः। पञ्चालाः इत्यादि॥
न्यासः
तद्राजस्य बहुषु तेनैवास्त्रियाम्। , २।४।६२

"बहुषु वत्र्तमानस्य" इति। बहुष्वर्थेषु वत्र्तमानस्येत्यर्थःर। अथ "बहुवचने परतः" इत्येवं कस्मान्न व्याख्यायते? अशक्यमेवं वक्तुम्; यतः संख्यावाची बहुशब्दो न बहुवचनवाची। यदि तु "बहुवचने परतः" इत्ययमर्थोऽत्राभिमतः स्यात्, अस्त्रियामिति प्रतिषेधे न कुर्यात्; प्राप्त्यभावात्। न हि तद्राजान्तदुत्पन्नेन स्त्रीप्रत्ययेन व्यवहिते बहुवचने परतो लुकः प्राप्तिरस्ति। किञ्च, अत्त्रय इत्यत्र बहुचने परतो लुकि विधीयमाने उदात्तनिवृत्तिस्वरः प्रसज्येत। कथम्? अत्त्रेरपत्यानि बहूनीति "इतश्चानिञः" ४।१।१२२ इति ढकि तस्य "तद्धितस्य", "कितः" (६।१।१६४,१६५) इत्यन्तोदात्तत्तत्वे कृते बहुवचने जसि परतः "अत्त्रिभृगुकुत्सवसिष्ठ" २।४।६५ इत्यादिना लुकि कृते "अनुदात्तस्य च यत्रोदात्तलोपः" ६।१।१५५ इति विभक्तेरुदात्तत्वं प्राप्नोति। तस्मात् बहुषु वत्र्मानस्येत्ययमेवार्थः। बहुष्विति च तद्राजान्तस्य विशेषणम्, न तद्राजस्य; अन्यथा हि द्वन्द्वे दोषः प्रसज्येत-- आङ्गश्च वाङ्गश्च सौहृश्चाऽङ्गवाङ्गसुहृआ इत्यत्र हुङ् न स्यात्; न ह्रत्र तद्राजो बहुषु वत्र्तते। तदन्तस्तु वत्र्तते, युगपदधिकरणवचनो हि द्वन्द्व इति कृत्वा। तस्मात् तद्राजान्तस्यैवेदं विशेषणम्, न तद्राजस्य। "तद्राजसंज्ञकस्य प्रत्ययस्य बहुषु वत्र्तमानस्यास्त्रीलिङ्गस्य लुग्भवति" इत्ययं तु वृत्तिग्रन्थ एवमुन्नेयः-- बहुषु वत्र्तमानस्यास्त्रीलिङ्गस्य तद्राजान्तस्य यः सम्बन्धी तद्राजसंज्ञकः प्रत्ययस्तस्य तद्राजसंज्ञकस्य प्रत्ययस्य लुग्भवति। कथम्? तद्राजान्तस्यैवैतत् सामथ्र्यं लब्धम्। न ह्रतद्राजान्तस्य तद्राजसंज्ञकः प्रत्ययः सम्बन्धी भवति। सूत्रेऽप्यन्तग्रहणं न कृतम्; प्रत्ययग्रहणपरिभाषयैव तदन्त स्य लब्धत्वात्। तथापि प्रत्ययान्तस्य लुगुच्यमानः प्रत्ययमात्रस्यैव विज्ञायते; "प्रत्ययस्य लुक्श्लुलुपः" १।१।६० इति प्रत्ययादशनस्यैव लुक्संज्ञाविधानात्। "तेनैव चेत्" इति। तद्राजप्रत्ययान्तेनैवेत्यर्थः। "अङ्गाः, वङ्गाः, सुह्माः" इति। अङ्गस्यापत्यानि बहुनि। "द्वयञ्मगध" ४।१।१६८ इत्यादिनाऽण्, तस्य लुक्। "लोहध्वजाः, व्रीहिमन्तः" इति। "पूगाञ्()ञ्योऽग्रामणीपूर्वात्" ५।३।११२ इति ञ्यप्रत्ययः, तस्य लुक्। "औपगवाः" इति। "प्राग्दीव्यतोऽण" ४।१।८३ "प्रियवाङ्गाः" इति। बहुव्रीहिः। नात्र तद्राजप्रत्ययेन बहुत्वं किं तर्हि? समासेन। न चासौ तद्राजप्रत्ययान्तःच ततस्तद्राजस्याविहितत्वात्। तद्येवम्, द्वन्द्वोऽपि, तद्राजप्रत्ययान्तो न भवतीति तत्रापि लुङ न स्यात्? नैतत् ; यदि द्वन्द्वोऽपि तद्राजप्रत्ययान्तो न भवति, तथापि प्रत्येकं द्वन्द्वावयवास्तद्राजप्रत्ययान्ता गह्वर्थाश्चेति तत्र भवत्येव लुक। न च बहुष्वित्यर्थग्रहणम्, यश्च बह्वर्थस्तत्रावश्यमेव तत्कृतेन बहुत्वेन भवितव्यम्, त()त्क तेनैवेत्यनेन? एवं मन्यते-- अन्तरङ्गत्वात् तद्राजप्रत्ययोत्पत्तिवेलायां यद्बहुत्वमुपजायते तदेव यदि गृह्रते, न तु तत्पदान्तरापेक्षम्, ततश्च द्वन्द्वेषु लुग् न स्यात्। तेनैवग्रहणं तु द्वितीयोऽयं यत्न इति-- यः प्रत्ययान्तस्य बहुत्वं तेनैव क्रियते, यच्च पदान्तरापेक्षेणापि तत्र सर्वत्र भवतीति। यद्येवम्, इहापि प्राप्नोति-- प्रियवाङ्गा इति? नैष दोषः; एवकारो ह्रत्र क्रियते। स तुल्यजातीयापेक्षयैव नियमं करोति, लोपिबिरेव यत् कृतं बहुत्वमिति। न च प्रियवाङ्गा इत्यत्र लोपिभिरेव कृतं बहुत्वम्, यस्मादत्र किञ्चिल्लोपि पदं किञ्चिदलोपि, एवञ्च नियमे सति द्वन्द्वे सति द्वन्द्वेऽपि यत्र लोप्यलोपिनां तत्रापि न भवति-- "गाग्र्यकाश्यपगालवानाम्" ८।४।६६ इति, अत्र गाग्र्यकाश्यपयोः "यञिञोश्च" ४।१।१०१ इति लोपः प्राप्नोति। गालवस्य तु ऋष्यणन्तत्वान्नास्ति लुकः प्राप्तिः। "आङ्ग्यः" इति। "टिड्ढाणञ्" ४।१।१५ इति ङीप्॥
बाल-मनोरमा
तद्राजस्य बहुषु तेनैवाऽस्त्रियाम् ११७५, २।४।६२

तद्राजस्य। "ण्यक्षत्रियार्षे"त्यतो "लु"गित्यनुवर्तते। "तेने"त्यनन्तरं कृते बहुत्वे "इत्यध्याहारः। तदाह--बहुष्विति। तदर्थकृतबहुत्वे इति। अञादिप्रत्ययान्तमात्रार्थगतबहुत्वे सतीत्यर्थः। तेनेति किम्?। प्रियो वाङ्गो येषां ते प्रियवाङ्गा इत्यत्र बहुत्वस्यान्यपदार्थगतत्वाद्वाङ्गशब्दात्परस्य न लुक्। यद्यपि वर्तिपदार्थविसिष्टान्यपदार्थंगतं बहुत्वं वर्तिपदार्थगतमपि भवति, ततापि अञ्प्रत्ययान्तार्थवाङ्गमात्रगतं न भवतीति न लुक्। एतदर्थमेवकारग्रहणम्। इक्ष्वाकबः षञ्चाला इति। "जनपदशब्दा"दिति विहिस्य अञो लुकि आदिवृद्धिनिवृत्तिः। इत्यादीति। अङ्गाः वङ्गा इत्यादि बोध्यम्। कतं तर्हीति। "कौरव्या" इत्यत्र ण्यप्रत्ययस्य, "पाण्ड()" इत्यत्र ड()ण्प्रत्ययस्य च तद्राजतया बहुषु लुक्प्रसङ्गादित्यर्थः। साधव इतीति। कौरव्यशब्दात्, पाण्ड()आशब्दाच्च "तत्र साधुः" इति यत्प्रत्यये "यस्येति चे"त्यकारलोपे यत्प्रत्ययस्य तद्राजत्वाऽभावान्न लुगित्यर्थः। ननु रघुयदुशब्दयोर्जनपदवाचित्वाऽभावात्प्राग्दीव्यतीयेऽणि तस्य तद्राजत्वाऽभावात्कथं बहुषु तस्य लुगित्याशङ्क्यपरिहरति-रघूणामिति। लक्षणयेति। "प्रयोग" इति शेषः। ततश्च नेदमपत्यप्रत्यान्तमिति भावः। लक्षणाबीजं तु रघुयदुसमानवृत्तिकत्वं बोध्यम्।

तत्त्व-बोधिनी
तद्राजस्य बहुषु तेनैवाऽस्त्रियाम् ९७१, २।४।६२

तद्राजस्य। तदर्थेति। तद्राजप्रत्ययार्थेन कृत इत्यर्थः। तेनैवेति किम्()। प्रियपाञ्चालाः। साधव इतीति। तथाच "तत्र साधु"रिति यत्प्रत्ययस्य तद्राजत्वाऽभावल्लुङ् नेति भावः। रघुयदुशब्दयोक्जनपदवाचित्वाऽभावादाभ्यां परस्य तद्राजसंज्ञा नेति लुकोऽप्रवृत्त्या राघवाणां यादवैरित्येव भवतिव्यमित्याशङ्क्याह---रघुयदुशब्दयोरिति। लक्षणयेति। ततश्चोक्तार्थत्वादपत्यप्रत्ययो नाऽत्रोत्पन्न इति भावः।