पूर्वम्: २।४।६२
अनन्तरम्: २।४।६४
 
सूत्रम्
यस्कादिभ्यो गोत्रे॥ २।४।६३
काशिका-वृत्तिः
यस्काऽदिभ्यो गोत्रे २।४।६३

बहुषु तेन एव अस्त्रियाम् इति सर्वम् अनुवर्तते। यस्क इत्येवम् आदिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुग् भवति, तेन एव चेद् गोत्रप्रत्ययेन कृतं बहुत्वं भवति। प्रत्ययविधेश्च अन्यत्र लौकिकस्य गोत्रस्य ग्रहणम् इत्यनन्तरापत्ये ऽपि लुग् भवत्येव। यस्काः। लभ्याः। बहुषु इत्येव, यास्काः। तेन एव इत्येव, प्रिययास्काः। अस्त्रियाम् इत्येव, यास्क्यः स्त्रियः। गोत्रे इति किम्? यास्काश्छात्राः। यस्क। लभ्य। दुह्य। अयःस्थूण। तृणकर्ण। एते पञ्च शिवादिसु पठ्यन्ते। ततः परेभ्यः षड्भ्यः इञ्। सदामत्त। कम्बलभार। बहिर्योग। कर्णाटक। पिण्डीजङ्घ। बकसक्थ। ततः परेभ्यश्चतुर्भ्यः गृष्ट्यादिभ्यश्च ४।१।१३६ इति ढञ्। बस्ति। कुद्रि। अजबस्ति। मित्रयु। ततः परेभ्यो द्वादशभ्य इञ्। रक्षोमुख। जङ्घारथ। उत्कास। कटुकमन्थक। पुष्करसत्। विषपुट। उपरिमेखल। क्रोष्तुमान्। क्रोष्टुपाद। क्रोष्टुमाय। शीर्षमाय। पुष्करसच्छब्दाद् बाह्वादिपाठादिञ्। खरपशब्दो नडादिषु पथ्यते, ततः फक्। पदक। वर्मक। एताभ्याम् अत इञ् ४।१।९५। भलन्दनशब्दात् शिवादिभ्यो ऽण् ४।१।११२। भडिल। भण्डिल। भदित। भण्डित। एतेभ्यश्चतुर्भ्यः अश्वाऽदिभ्यः फञ् ४।१।११०
न्यासः
यस्कादिभ्यो गोत्रे। , २।४।६३

"अपत्यं पौत्रप्रभृति गोत्रम्" ४।१।१६२ इति पारिभाषिकमेवेदं गोत्रं गृह्रते, न लौकिकमिति कस्यचिद्भ्रान्तिः स्यात्। अतस्तां निराकर्त्तुमाह-- "प्रत्ययविधेयश्चान्यत्र " इत्यादि। एतच्चोभयगतिरिह शास्त्रे संभवतीति लभ्यते। लौकिके गोत्रे गृह्रमाणे शास्त्रीयमपि तत्रान्तर्भवति; प्रत्ययविधौ तु लौकिकगोत्रस्य ग्रहणं न भवतीति ज्ञापकात्। यदयम्-- "गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजादवुञ" ४।२।३८ इत्यत्र गौत्रग्रहणं कृत्वा राजन्यग्रहमं करोति, तज्ज्ञापयति-- प्रत्ययविधौ लौकिकगोत्रग्रहणं न भवतीति। "यास्काश्छात्राः" इति। "तस्येदम्" ४।३।१२० इत्यण्। पुष्करच्छब्दोऽप्यत्र पठ()ते, स किमर्थः; यावता "बह्वच इञ् प्राच्यभरतेषु" (२।४।६६) इत्येवं सिध्यति? न सिध्यति; "न गोपवनादिभ्यः" २।४।६७ इति प्रतिषेधः प्राप्नोति। गोपवनादिषु हि कैश्चित् तौल्वल्यादयश्चेति पठ()ते, तौल्वल्यादिषु पुष्करसच्छब्दः पठ()ते, तौल्वल्यादीनाञ्च गोपवनादिषु पाठोऽस्तीत्ययमेव यस्कादिषु पुष्करसच्छब्दपाठो ज्ञापयति॥
बाल-मनोरमा
यस्कादिभ्यो गोत्रे ११३०, २।४।६३

यस्कादिभ्यो। नेदं सूत्रमपत्याधिकारस्थं, किंतु द्वैतीयीकम्। अतो गोत्रशब्देन प्रवराध्यायप्रसिद्धमेव गोत्रमिह विवक्षितम्, "अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते" इति "यूनि लुक्" इति स्त्रीपुसाभ्या"मित्यादिसूत्रभाष्ये सिद्धान्तितत्वात्। "ण्यक्षत्रियार्षे"त्यतो सुगित्यनुवर्तते। "तद्राजस्य बहुषु तेनैवास्त्रिया"मिति सूत्रं तद्राजवर्जमनुवर्तते। तदाह--एभ्योऽपत्यप्रत्ययस्येति। मित्रयव इति। मित्रयोरपत्यानि पुमांस इत्यर्थः। गृष्ट()आदिढको लुकि आदिवृद्धिनिवृत्तिः।

तत्त्व-बोधिनी
यस्कादिभ्यो गोत्रे ९४१, २।४।६३

यस्कादिभ्यो। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्रत इत्याशयेनाह--अपत्यप्रत्ययस्येति। "ण्यक्षत्रियार्षे"त्यतो लुगित्यनुवर्तते, "तद्राजस्ये"ति सूत्रात् "बहुषु तेनैवास्त्रिया"मिति च, तदाह----लुक् स्यादित्यादि। तत्कृते इति किम्()। प्रिययास्काः। बहुत्वे किम्()। यास्कः। शिवद्यण्। यस्क, लुह्र, द्रुह्र, कर्णाटक, वस्ति, कुद्रि, मित्रयु--इत्यादि।