पूर्वम्: २।४।६३
अनन्तरम्: २।४।६५
 
सूत्रम्
यञञोश्च॥ २।४।६४
काशिका-वृत्तिः
यञञोश् च २।४।६४

बहुषु तेन एव अस्त्रियाम्, गोत्रे इति च अनुवर्तते। यञो ऽज्श्च गोत्रप्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुङ् भवति। गर्गाऽदिभ्यो जञ् ४।१।१०५ गर्गाः। वत्साः। अञः खल्वपि, अनृष्यानन्तर्ये बिदाऽदिभ्यो ऽञ् ४।१।१०४ बिदाः। उर्वाः। बहुष्वित्येव, गार्ग्यः। बैदः। तेनैव इत्येव, प्रियगार्ग्याः। प्रियबैदाः। अस्त्रियाम् इत्येव, गार्ग्यः स्त्रियः। बैद्यः स्त्रियः। गोत्रे इत्येव, द्वीपादनुसमुद्रं यञ् ४।३।१० द्वैप्याः। उत्सादिभ्यो ऽञ् औत्साश्छात्राः। यञादीनाम् एकद्वयोर् वा तत्पुरुषे षष्ठ्या उपसङ्ख्यानम्। गार्ग्यस्य कुलम् गार्ग्यकुलं गर्गकुलं वा। गार्ग्ययोः कुलं गार्ग्यकुलं गर्गकुलं वा। एवं बैदस्य कुलं बैदकुलं बिदकुलं वा। बैदयोः कुलं बैदकुलं बिदकुलं वा। यञादीनाम् इति किम्? आङ्गकुलम्। एकद्वयोः इति किम्? गार्गाणां कुलं गर्गकुलम्। तत्पुरुषे इति किम्? गार्गस्य समीपम् उपगार्ग्यम्। षष्ठ्या इति किम्? परमगार्ग्यः।
लघु-सिद्धान्त-कौमुदी
यञञोश्च १०१२, २।४।६४

गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम्। गर्गाः। वत्साः॥
न्यासः
यञञोश्च। , २।४।६४

"गार्ग्यः" इति। "यञश्च" ४।१।१६ इति ङीप्। "यस्येति च" ६।४।१४८ इत्यकारलोपः, "हलस्तद्धितस्य" ६।४।५० इति यकारस्य च। तत्र हि "सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः" ६।४।१४९ इत्यतः "य" इत्यनुवत्र्तते, "अल्लोपोऽनः" ६।४।१३४ इत्यतो लोप इति च। "वैद्यः" इति। "शाङ्र्गरवाद्यञो ङीन्" ४।१।७३। "द्वैप्याः, औत्साः" इति। जातादौ शैषिकेऽर्थे यञञो। "यञादीनाम्" इत्यादि। यञादीनां बहुषु लुगुच्यमान एकत्वे द्वित्वे च प्राप्नोतीति वचनम्। एकद्वयोरिति च संख्याप्रधानोऽयं निर्देशः, यथा-- "द्वयेककयोर्द्विचवनैकवचने" १।४।२२ इति, एकत्वद्वित्वयोरिति यावत्; उपसंख्यानशब्दस्य प्रतिपादनमर्थः। कत्र्तव्यमित्यध्याहार्यम्। तत्रेदं प्रतिपादनम्-- "वा यौ" २।४।५७ इत्यतो मण्डूकप्लुतिन्यायेन वाग्रहणमनुवर्तते। चकारो वात्रानुक्तसमुच्चयार्थः क्रियते। तेन यञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ()आ लुग्भवतीति। यदि वेत्यनुवत्र्तते तदा बहुष्वपि विकल्पः स्यात्। व्यवस्थिविभाषाविज्ञानान्न भविष्यतीत्यदोषः। "आङ्गकुलम्" इति। अत्राङ्गशब्दात् तद्राजसंज्ञकोऽण्, स च यञादिर्न भवति तस्येह प्रकरणे यञादिभ्यः प्राङ्निर्देशात्। "उपगाग्र्यम्" इति। "अव्ययं विभक्ति" २।१।६ इत्यादिनाव्ययीभावः। "परमगार्ग्यः" इति। "सन्महत्" २।१।६० इत्यादिना प्रथमान्तयोस्तत्पुरुषः॥
बाल-मनोरमा
यञञोश्च १०९२, २।४।६४

यञञोश्च। द्वितीयचतुर्थपादे इदं सूत्रं न त्विदं चातुर्थिकमपत्याधिकारस्थम्। तत्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम्। "तद्राजस्य बहुषु तेनैवाऽस्त्रिया"मिति सूत्रं तद्राजस्येतिवर्जमनुवर्तते। "ण्यक्षत्रिये त्यतो "लु"गिति, "यस्कादिभ्यो गोत्रे" इत्यतो "गोत्रे" इति च। तदाह--गोत्रे यदिति। एतयोरिति। यञञोरित्यर्थः। प्रत्ययाऽदर्शनस्यैव लुक्त्वादिति भावः। तत्कृते इति। यञञ्प्रत्ययार्थगतबहुत्वे इति यावत्। गर्गाइति। गर्गस्यापत्यानीत्यादिविग्रहः। प्रियागाग्र्या इति। प्रियो गाग्र्यो येषामिति विग्रहः। अत्र यञर्थगतबहुत्वाऽभावान्न लुगिति भावः। द्वैप्या इति। द्वीपे भवा इत्यर्थः। "द्वीपादनुसमुद्र"मिति यञ्। औत्सा इति। उत्से भवा इत्यर्थः। "उत्सादिभ्योऽञ्"। इहोभयत्रापि यञञोर्गौत्रवाचित्वाऽभावान्न लुगिति भावः। ननु पौत्रा दौहित्रा इत्यत्राप्यनृषिविदादिलक्षणाऽञो लुक्स्यात्। नच तस्यानन्तरापत्यवाचित्वाऽभावान्न लुगिति भावः। ननु पौत्रा दौहित्रा इत्यत्राप्यनृषिविदादिलक्षणाऽञो लुक्स्यात्। नच तस्यानन्तरापत्यवाचित्वाद्रोत्रवाचित्वाऽभावान्न लुगिति वाच्यं, "यूनि लु"गिति सूत्रभाष्ये अपत्य#आधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते इति सिद्धान्तित्वादित्यत आह--प्रवरेति। "कश्यपोऽत्रिर्भरद्वाजो वि()आआमित्रोऽथ गौतमः। जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः। "तेषां यदपत्यं तद्गोत्रमित्याचक्षते" इति बोधायनीयादिप्रवराध्यायप्रसिद्धा भार्गवादय एवैह गोत्रत्वेन विवक्षिता इत्यर्थः। कैयटेन "लौकिकस्य गोत्रस्य ग्रहण"मिति भाष्यमुपादाय तथैव व्याख्यातत्वादिति भावः। एवंच पौत्रा दौहित्रा इत्यादौ पौत्रदौहित्रयोस्तथाविधगोत्रवाचित्वाऽभावान्न लुगिति स्थितम्। विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः।

तत्त्व-बोधिनी
यञञोश्च ९१३, २।४।६४

यञञोश्च। "ण्यक्षत्रियार्षे"त्यतो लुगिति, तद्राजस्ये"ति सूत्राद्बहुषु तेनैवाऽस्त्रियामिति चानुवर्तते, "यस्कादिभ्यो गोत्रे"इत्यतो गोत्र इति च।