पूर्वम्: २।४।६६
अनन्तरम्: २।४।६८
 
सूत्रम्
न गोपवनादिभ्यः॥ २।४।६७
काशिका-वृत्तिः
न गोपवनाऽदिभ्यः २।४।६७

गोपवनाऽदिभ्यः प्रस्य गोत्रप्रत्ययस्य लुग् न भवति। बदाद्यनतर्गणो ऽयम्। ततो ऽञो गोत्रप्रत्ययस्य यञञोश्च २।४।६४ इति लुक् प्राप्तः प्रतिषिध्यते। गौपवनाः। शैग्रवाः। गोपवन। शिग्रु। बिन्दु। भाजन। अश्व। अवतान। श्यामाक। श्वापर्ण। एतावन्त एव अष्टौ गोपवनाऽदयः। परिशिष्टानां हरितादीनं प्रमादपाठः। ते हि चतुर्थे बिदाऽदिषु पठ्यन्ते। तेभ्यश्च बहुषु लुग् भवत्येव, हरितः, किंदासाः इति।
न्यासः
न गोपवनादिभ्यः। , २।४।६७

विदाद्यन्तर्गणोऽयमिति लुक्प्रा()प्त दर्शयति। "शैग्रवाः" इति। "ओर्गुणः" ६।४।१४६। ननु चान्येऽपि हरितादयोऽत्र पठ()न्ते, तत्किमित्यवधार्यत एतावन्त इत्यत आह-- "परिशिष्टानाम्" इत्यादि। "प्रमादपाठः" इति। अनार्षः पाठः इत्यर्थः। यदि तेषां प्रमादपाठः, एवं तह्र्रविदादित्वादञप्येभ्यो न प्राप्नोतीत्यत आह-- "ते हि" इत्यादि। ते हि चतुर्थेऽध्याये बिदादिषु गोपवनादिभ्यः पर्वे पठ()न्त इति न भवत्येष दोषप्रसङ्गः। यस्त्विह गोपवनादिभ्योऽष्टभ्यः पर एषां पाठः, स प्रमादपाठ इत्युच्यते॥
बाल-मनोरमा
न गोपवनादिभ्यः ११३३, २।४।६७

न गोप। बिदाद्यन्तर्गणोऽयमिति। ततश्च अञः "यञञोश्चे"ति प्राप्तस्य लुङ् नेति भावः।

तत्त्व-बोधिनी
न गोपवनादिभ्यः ९४४, २।४।६७

विदाद्यन्तर्गणोऽयमिति। "यञञोश्चे"ति लुगत्र प्राप्नोतीति भावः।