पूर्वम्: २।४।६
अनन्तरम्: २।४।८
 
सूत्रम्
विशिष्टलिङ्गो नदी देशोऽग्रामाः॥ २।४।७
काशिका-वृत्तिः
विशिष्टलिङ्गो नदी देशो ऽग्रामाः २।४।७

विशिष्तलिङ्गानां भिन्नलिङ्गानां नदीवाचिनां शब्दानां देशवचिनां च ग्रामवर्जितानं द्वन्द्व एकवद् भवति। नद्यवयवो द्वन्द्वो नदी इत्युच्यते। देशावयवश्च देशः। नदी देशः इत्यसमासनिर्देश एव अयम्। उद्ध्यश्च इरावती च उद्ध्येरावति। गङ्गाशोणम्। देशः खल्वपि कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम्। कुरुकुरुजाङ्गलम्। विशिष्टलिङ्गः इति किम्? गङ्गायमुने। मद्रकेकयाः। नदी देशः इति किम्? कुक्कुटमयूर्यौ। अग्रामाः इति किम्? जाम्बवश्च शालूकिनी च जाम्बवशालूकिन्यौ। नदीग्रहणमदेशत्वात्। जनपदो हि देशः। तथा च पर्वतानां ग्रहणं न भवति, कैलासश्च गन्धमादनं च कैलासगन्धमादने। अग्रामा इत्यत्र नगरानां प्रतिषेधो वक्तव्यः। इह मा भूत्, मथुरा च पाटलिपुत्रं च मथुरापाटलिपुत्रम्। उभयतश्च ग्रामाणां प्रतिषेधो वक्तव्यः। सौर्यं च नगरं, केतवतं च ग्रामः सौर्यकेतवते।
न्यासः
विशिष्टलिङ्गो नदीदेशोऽग्रामाः। , २।४।७

विशिष्टशब्दोऽयं भेदवचनः। योञऽपि "क्तेन नञ्विशिष्टेनानञ्" (२।१।क६०) इत्यत्र सावधारणाधिक्ये विशिष्टशब्दो व्याख्यातः; सोऽपि भेद्दवारेणैव प्रतिपत्तयः। तेनेह वृत्तिकारोऽपि "भिन्नलिङ्गाना{अपि नास्ति--काशिका}मपि" इत्याह। "अग्रामाः" इति। प्रतिषेधादनयोः स्वरूपग्रहणं न भवतीत्याह-- "नदीवाचिनाम्" इत्यादि। यदि नदीवाचिनां द्वन्द्वो देशवाचिनाञ्चैकवद्भवतीत्ययमत्र सूत्रार्थोऽभिमतः, तत्कथं नदीदेश इत्ययं द्वन्द्व इत्यनेन प्रकृतेन सामानाधिकरण्येन निर्देश इत्याह-- "नद्यवयवो द्वन्द्वोनदीत्युच्यते" इत्यादि। एतेन गौणः सूत्रे निर्देश इति दर्शयति। नदीदेश इत्ययं यदि द्वन्द्वसमासस्तदा व्यतिकीर्णावयवो द्वन्द्वो यस्य कश्चिदवयवो नदी कश्चिद्देशस्तस्यैकवद्भावः स्यात्। किञ्च, द्वन्द्वो भवन्नेष समाहारे वा स्यात्? इतरेरतरयोगे वा? त्त्र पूर्वस्मिन् पक्षे "स नपुंसकम्" २।४।१७ इति नपुंसकत्वं स्यात्, इतरत्र तु द्विवचनमितीमं दोषं दृष्ट्वाऽ‌ऽह-- "नदीदेश" इति। "असमास एवायं निर्देशः" इति। "मद्रकेकयाः" इति। मद्राश्च केकयाश्च मद्रकेकयाः। अथ नदीग्रहणं कस्मात् क्रियते? न देशग्रहणादेव नदीग्रहणं सिद्धमित्यत आह-- "नदीग्रहणमदेशत्वात्" इति। कस्मात् पूनर्नदी देशो न भवतीत्याह-- "जनपदो हि देशः" इति। तत्रैव देशशब्दस्य रूढत्वात्। यत् पुनर्नदी देश इत्युच्यते तत् तात्स्थ्यात्। भवति हि तात्स्थ्यात् ताच्छब्द्यम्, यथा- मञ्चाः क्रोशन्तीति। "तथा च" इत्यादि। तस्माज्जनपद एव देशो नान्यः पर्वतादिः। एवञ्च कृत्वा देशग्रहणेन पर्वतादीनां ग्रहणं न भवति। "अग्रामा इत्यत्र " इत्यादि। लोके हि ग्रामग्रहणेन नगरग्रहणं भवति, तथा ह्रभक्ष्यो ग्राम्यशूकर इत्युक्ते नागरोऽपि न भक्ष्यते। ततश्चेहाग्रामा इति प्रतिषेधः क्रियमाणो नगराणामपि प्राप्नोति, तस्मादग्रामा इति प्रतिषेधे नगरप्रतिषेधो वक्तव्यः, अग्रामा इत्यनेन नगराणां यः प्रतिषेधः प्राप्नोति तस्य प्रतिषेधस्य प्रतिषेधो वक्तव्यः, व्याख्येय इत्यर्थः। तेन नगराणां विधिरेव भवति। तत्रेदं व्याख्यानम्-- यदयम् "प्राचां ग्रामनगराणाम्" ७।३।१४ इत्यत्र ग्रामनगरयोर्भेदेनोपदानं करोति कज्ज्ञापयति-- इह शस्त्रे ग्रामग्रहणेन नगराणां ग्रहणं न भवतीति। तेनाग्रामा इति प्रतिषेधो नगराणां न भवति। "उभयतच्च" इत्यादि। उभयस्मिन्नित्यर्थः उभयतः। यत्र कश्चिदवयवो ग्रामः कश्चिन्नगरं तत्र ग्रामाणां यः प्रतिषेध उच्यते स एव वक्तव्यः, व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- अग्रामा इति प्रसज्य प्रतिषेधोऽयं विज्ञेयः, नचेत् द्वन्द्वे ग्रामा विद्यन्त इति। तेन यत्र ग्रामगन्धोऽप्यस्ति तत्राप्येकवद्भावो न भवतीति॥
बाल-मनोरमा
विशिष्टलिङ्गो नदीदेशोऽग्रामाः ९०१, २।४।७

विसिष्टलिङ्गो नदीदेशोऽग्रामाः। अग्रामा" इति च्छेदः। व्यत्ययेन बहुत्वे एकवचनम्। विपूर्वकशिषधातुर्भेदेवर्तते "विशेषणं विशेष्येणे"त्यादौ यथा। विशिष्टं लिङ्गं येषामिति विग्रहः। तथा च ग्रामवाचकभिन्ना भिन्नलिङ्गका ये नदीवाचिनो, ये देशवाचिनश्च तेषा द्विन्द्व एकवत्स्यादिति लभ्यते। तदाह--ग्रामवर्जेति। समाहारे द्वन्द्वः स्यादिति। एकवत्त्वविधेः फलाभिप्रायमेतत्। अस्यैकवद्भावप्रकरणस्य समाहार एव द्वन्द्व इति नियमार्थताया अनुपदमेवोक्तत्वात्। उद्द्यश्चेति। उद्ध्यो ना नदविशेषः। इरावती नाम कचिन्नदी। तयोर्नदीविशेषवाचकत्वादेकवत्त्वम्, नदीशब्देन नदस्यापि ग्रहणात्, अन्यथा भिन्नलिङ्गत्वाऽसम्भवादिति भावः। जाम्बवशालूकिन्याविति। "अग्रामाः" इत्यनेन ग्रामावयवकद्वन्द्वपर्युदासो विवक्षितः। अयं च द्वन्द्वे नगरग्रामोभयावयवकोऽपि ग्रामावयवक इति तस्य पर्युदास इति भावः।

तत्त्व-बोधिनी
विशिष्टलिङ्गो नदीदेशोऽग्रामाः ७७७, २।४।७

विशिष्टलिङ्गो। सूत्रे चत्वारोऽपि शब्दा अवयवधर्मेणाऽवयविद्वन्द्वे वर्तन्त इत्याशयेनाह---ग्रामेत्यादि। इह "नदीवाचिनां द्वन्द्वः, "देशवाचिनां द्वन्द्व" इति वाक्यभेदेन व्याख्येयम्। तेन "गङ्गाकुरुक्षेत्रे"इत्यत्र न भवति। देशशब्देनात्र प्रसिद्ध एव जनपदो गृह्रते, नद्याः पृथग्ग्रहणात्। तेन पर्वतानां न, कैलासश्च गन्धमादनं च कैलासगन्धमादने। नदीदेश इति किम्()। कुक्कुट मयूर्यौ। विशिष्टपदस्यऽर्थमाह---भिन्नलिङ्गानामिति। विपूर्वो हि शिषिर्भेदार्थः। अतएव "विशेषणं विश्ष्येणे"ति सूत्रे भेदकं भेद्येनेति व्याख्यातम्। समाहारे द्वन्द्वः स्यादिति। निष्कर्षाभिप्रायेणेयमुक्तः। यथाश्रुताभिप्रायेण तु "द्वन्द्व एकवत्स्या"दिति केषु चित्सूत्रेषु व्याख्यायत इति ज्ञेयम्। उद्ध्येरावतीति। उव्द्यो नदः, सोऽपि नदीविशेषत्वान्नदीशब्देन गृहीतः। एवं शोणोऽपि। "अग्रामा इत्यत्र नगरप्रतिषेधो वक्तव्यः"। तेन "मथुरापाटलिपुत्र"मित्यत्र निषेधो न भवति, उभयोरपि नगरत्वात्।