पूर्वम्: २।४।७४
अनन्तरम्: २।४।७६
 
प्रथमावृत्तिः

सूत्रम्॥ जुहोत्यादिभ्यः श्लुः॥ २।४।७५

पदच्छेदः॥ जुहोत्यादिभ्यः ५।३ ७६ श्लुः १।१ ७६ शपः ६।१ ७२

समासः॥

जुहोति आदिर्येषां ते जुहोत्यादयः, तेभ्यः, बहुव्रीहिः॥

अर्थः॥

जुहोत्यादिभ्यो धातुभ्य उत्तरस्य शपः श्लुर्भवति॥

उदाहरणम्॥

जुहोति। बिभर्ति। नेनेक्ति॥
काशिका-वृत्तिः
जुहोत्यादिभ्यः श्लुः २।४।७५

शपनुवर्तते, न यङ्। जुहोत्यादिभ्यः उत्तरस्य शपः श्लुर् भवति। लुकि प्रकृते श्लुविधानां द्विर्वचनार्थम्। जुहोति। विभर्ति। नेनेक्ति।
लघु-सिद्धान्त-कौमुदी
जुहोत्यादिभ्यः श्लुः ६०७, २।४।७५

शपः श्लुः स्यात्॥
न्यासः
जुहोत्यादिभ्यः श्लुः। , २।४।७५

"शबनुवत्र्तते, न यङ" इति। शब एव स्वरितत्वप्रतिज्ञानात्। "जुहोति" इति। "श्लौ" ६।१।१० द्विर्वचनम्। बिभर्ति" इति। "उरत्ट ७।४।६६ इत्यत्त्वम्। "रपरत्वम्। "भृञामित्" ७।४।७६ इतीत्त्वम्। "नेनेक्ति" इति। "णिजिर् शौचपोषयोः" (धा।पा।१०९३) , "निजां त्रयाणां गुणः" ७।४।७५, "श्लौ" ६।१।१० इति द्वर्वचनम्॥
बाल-मनोरमा
जुहोत्यादिभ्यः श्लुः ३१९, २।४।७५

जुहोत्यादिभ्यः श्लुः। शप इति। "अदिप्रभृतिभ्यः" इत्यस्तदनुवृत्तेरिति भावः। हु अ इति स्थिते शपः श्लौ कृते हु ति इति स्थिते श्लुः। शप इत। "अदिप्रभृतिभ्यः"इत्यतस्दनुवृत्तेरिति भावः। हु अ स्थिते शपः श्लौ कृते हु ति इति स्थिते--