पूर्वम्: २।४।७६
अनन्तरम्: २।४।७८
 
सूत्रम्
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु॥ २।४।७७
काशिका-वृत्तिः
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु २।४।७७

लुकनुवर्तते, न श्लुः। गाति स्था घु पा भू इत्येतेभ्यः। परस्य सिचो लुग् भवति, परस्मैपदेषु परतः। अगात्। अस्थात्। अदात्। अधात्। अपात्। अभूत्। गापोर्ग्रहने इण्पिबत्योर्ग्रहणम्। गायतेः पातेः च न भवति। अगासीन्नटः। अपासीन् नृपः। परस्मैपदेषु इति किम्? अगासातां ग्रामौ देवदत्तेन।
लघु-सिद्धान्त-कौमुदी
गातिस्थापाभूभ्यः सिचः परस्मैपदेषु ४४१, २।४।७७

एभ्यः सिचो लुक् स्यात्। गापाविहेणादेशपिबती गृह्यते॥
बाल-मनोरमा
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ७१, २।४।७७

गातिस्थाघु। गाति स्था घु पा भू एषां द्वन्द्वात्पञ्चमीबहुवचनम्। परस्येति शेषः। सिच इति षष्ठी। गातीति श्तिपा निर्देशाद्गाधातग्र्रहणम्। घु इत्येन दाधा घ्वदाबिति घुसंज्ञकयोर्दाधातोर्धाधातोश्च ग्रहणम्। "ण्यक्षत्रियार्षञितो यूनि लुगणिञो"रित्यस्माद्व्यवहितादपि लुगित्यनुवर्तते, "जुहोत्यादिभ्यः श्लु"रित्यव्यवहितमपि श्लुग्रहणं नानुवर्तते, व्याख्यानात्। तदाह-- एभ्यः सिच इत्यादिना। गापाविहेति। इह = गातिस्थेति, सूत्रे गातीत्यनेन पाग्रहणेन च इणो गा लुङीति लुग्विकरणस्येणो गादेशः, शब्विकरणः पिबादेशयोग्यः पाधातुश्च गृह्रेते इत्यर्थः। "गापोग्र्रहणे इण्पिबत्योग्र्रहण"मिति भाष्यादिति भावः। तथा च लुङस्तिबादेशे इतश्चेति इकारलोपे शबपवादे च्लिप्रत्यये तस्य सिचि तस्य लुकि अडागमे अभू-त् इति स्थिते पित्त्वान्ङित्त्वाऽभावे सार्वधातुकाद्र्धधातुकयोरिति गुणे प्राप्ते--

तत्त्व-बोधिनी
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ५४, २।४।७७

इह व्यवहितोऽपि लुगनुवर्तते, न तु श्लुः व्याख्यानादित्याशयेनाह-- लुगिति। गापाविति। गातीति श्तिपा विकरणशून्यस्य निर्देशाल्लुग्विकरण इणादेशो गृह्रते, "लुग्विकरणाऽलुग्विकरणयोरलुग्विकरणस्य ग्रहण"मिति परिभाषया पिबतिर्गृह्रते न तु पातिरित्यर्थः।