पूर्वम्: २।४।८२
अनन्तरम्: २।४।८४
 
सूत्रम्
नाव्ययीभावादतोऽम्त्वपञ्चम्याः॥ २।४।८३
काशिका-वृत्तिः
न अव्ययीभावादतो ऽम् त्वपञ्चम्याः २।४।८३

पूर्वेण लुक् प्राप्तः प्रतिषिध्यते। दन्तादव्ययीभावादुत्तरस्य सुपो न लुग् भवति, अमादेशस् तु तस्य सुपो भवत्यपञ्चम्याः। एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवनम् एव भवति। उपकुम्भं तिष्ठति। उपकुम्भं पश्य। उपमणिकं तिष्ठति। उपमणिकं पश्य। अतः इति किम्? अधिस्त्रि। अधिकुमारि। अपञ्चम्याः इति किम्? उपकुम्भादानय।
लघु-सिद्धान्त-कौमुदी
नाव्ययीभावादतोऽम्त्वपञ्चम्याः ९१५, २।४।८३

अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमी विना अमादेशश्च स्यात्॥ गाः पातीति गोपास्तस्मिन्नित्यधिगोपम्॥
न्यासः
नाव्ययीभावदतोऽमत्वपञ्चम्याः। , २।४।८३

"एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति" इति। कथम्? इह द्वोयरर्थयोर्विधानात्, विधायके च वाक्ये द्वे एव। तत्र "नाव्ययीबावादतः" इत्येतत् प्रतिषेधस्य विधायकमेकं वाक्यम्। "अम् त्वपञ्चम्याः" इत्येतदमो विधायकं द्वितीयं वाक्यम्, तत्र चात इत्येतदपेक्षते। अत एव वृत्तौ वाक्यद्वयमुपन्यस्तम्-- "अदन्तादवययीभावदुत्तरस्य सुपो न लुग्भवति" इत्येकं वाक्यम्, "अमादेशस्तु तस्य भवत्यपञ्चम्याः" इति द्वितीयम्। तत्रापञ्चम्या इत्यनेन "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" (व्या।प।१९) इति पञ्चम्या अमादेश एव प्रतिषिध्यते, न त्वलुक् पूर्ववाक्येन विहितः। अत एवालुकि सति पञ्()चम्याः श्रवणमेव बवति। एकवाक्यतायां हि सत्यां कार्यद्वयस्यैकया पाठप्रवृत्या विधीयमानत्वात् कार्यद्वयस्यापञ्चम्या इति प्रतिषेधः स्यात्। पञ्चमीं वर्जयित्वैतत् कार्यद्वयं वेदितव्यम्। वाक्यभेदे त्वपञ्चमम्या इत्येतत् प्रत्यासन्नममादेशमपेक्षते, न तु वाक्यान्तरविहितमलुकम्। तेनापञ्चम्या इत्यनेन सम्बध्यमानः सामान्येन विधीयमानः सन्नलुक् पञ्चमीमप्यवगाहते; तस्मात् पञ्चम्याः श्रवणमेव युक्तम्। तुशब्देनाप्ययमर्थो लभ्यते। ननु च क्रियायाः कारकाणि भवन्ति, पूर्वपदार्थप्रधानश्चाव्ययीभाव उक्तः,पूर्वपदार्थस्य चासत्त्वभूतत्वात् क्रियामन्तरेण सम्बन्धाभावादपादानादिभावो नास्ति, तत् कुतोऽव्ययीभावात् पञ्चम्यादयो विभक्तयो भवेयुः?नैतदस्ति; पूर्वपदार्थप्राधान्येऽपि गुणभूतोत्तरपदार्थपेक्षः क्रियायोग उपपद्यते, यथा-- पञ्चपूलीमानयेति। तत्र भावप्राधान्येऽपि गुणभूत द्रव्यापेक्षः क्रियासम्बन्धः॥
बाल-मनोरमा
नाव्ययीभावादतोऽम्त्वपञ्चम्याः ६४९, २।४।८३

तथाच अव्ययीभावसमासादुत्पन्नानां सुपामव्ययादाप्सुप इति लुक् स्यादिति शङ्कायामाहनाव्ययीभावात्। "अम् तु अपञ्चम्या" इति छेदः। "नाव्ययीभावदतः" इत्येकं वाक्यम्। "ण्यक्षत्रियार्षे"त्यतो लुगित्यनुवर्तते। "अव्ययादाप्सुपः" इत्यतः "सुप" इति च। अता अव्ययीभावो विशेष्यते। तेन तदन्तविधिः। तदाह अदन्तादव्ययीभावात्सुपो न लुगिति। "अम् तु अपञ्चम्याः" इति वाक्यान्तरम्। पञ्चमीभिन्नस्य तु सुपोऽमादेशः स्यात्। पञ्चम्यास्तु अम्न भवतीति लभ्यते। तदाह--तस्य पञ्चमीं विना अमादेश इति। अत्राऽपञ्चम्या इति प्रतिषेधोऽयमनन्तरत्वादम एव भवति, न तु लुङ्निषेधस्यापि। एवंचाऽदन्तादव्ययीभावात्परस्य सुपो न लुक्, किंत्वमादेशः। पञ्चम्यास्तु लुगमादेशश्च न भवतीति स्थितिः। सूत्रे एतत्सूचनार्थमेव तुशब्दः। "अव्ययीभावादतोऽम्त्वपञ्चम्याः" इत्येवोक्तौ तु अदन्तादव्ययीभावात्परस्य पञ्चमीभिन्नस्य सुपो लुकोऽपवादोऽमादेशः स्यादित्येव लभ्येत। एवं सति पञ्चम्या अमोऽभावे "अव्ययादाप्सुपः" इति लुक् स्यात्। अतो लुङ् निषिध्यत इत्यास्तां तावत्। अपदिशमिति। पञ्चमीभिन्नविभक्तीनामुदाहरणम्। पञ्चम्यास्तु अपदिशादित्युदाहार्यम्। यद्यपि नपुंसकह्यस्वत्वेनाऽप्येतत्सिध्यति, "अव्ययीभावश्चे"ति नपुंसकत्वस्य वक्ष्यमाणत्वात्। तथापि "गोस्त्रियो"रिति सूत्रं चित्रगु अतिखट्व इत्याद्यर्थमावश्यकमितीहापि न्याय्यत्वादुपन्यस्तम्। तदेवमव्ययमिति भाष्याऽदृष्टेनापि योगविभागेनाऽपदिशमिति रूपसाधनं वृद्धसंमतमित्याह-क्लीबेऽव्ययमिति।

तत्त्व-बोधिनी
नाव्ययीभावादतोऽम्त्वपञ्चम्याः ५७४, २।४।८३

नाव्ययी। अत्र "अपञ्चम्याः" इथि प्रतिषेधोऽनन्तरत्वादम एव न तु व्यवहितस्याऽलुकोऽपि। अमुमेवार्थं द्योतयितुं सूत्रे "तु" शब्दः। तस्य पञ्चमीं विनेति। एवं चाऽदन्तादव्ययीभावात्परस्य पञ्चमभिन्नस्य सुपो लुङ् न, पञ्चम्यास्तु लुगमादेशावुभावपि न भवत इति स्थितम्। अतः किम्()। अधिहरि। दिशयोरिति। दिशोरिति हलन्तेन विग्रहेऽपि एतदेव रुपम्। दिश्शब्दस्य शरदादिषु पाठाट्टच्।