पूर्वम्: २।४।८४
अनन्तरम्: ३।१।१
 
सूत्रम्
लुटः प्रथमस्य डारौरसः॥ २।४।८५
काशिका-वृत्तिः
लुटः प्रथमस्य डारौरसः २।४।८५

लुडादेशस्य प्रथमपुरुषस्य प्रस्मैपदस्य आत्मनेपदस्य च यथाक्रमम् डा रौ रसित्येते आदेशा भवन्ति। कर्ता, कर्तारौ, कर्तारः। आत्मनेपदस्य अध्येता, अध्येतारौ, अध्येतारः। प्रथमस्य इति किम्? श्वः कर्तासि। श्वो ऽध्येतासे। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः। तृतीयो ऽद्यायः प्रथमः पादः।
लघु-सिद्धान्त-कौमुदी
लुटः प्रथमस्य डारौरसः ४०७, २।४।८५

डा रौ रस् एते क्रमात्स्युः। डित्वसामर्थ्यादभस्यापि टेर्लोपः। भविता॥
न्यासः
लुटः प्रथमस्य डारौरसः। , २।४।८५

परस्मैपदस्यात्मनेपदस्य च यथाक्रमं डारौरस्-- इत्येत आदेशा भवन्ति" इति। यद्ेयवम्, परस्मैपदेषु तिप् तस् झीत्येतत् प्रत्येकं प्रथमपुरुषसंज्ञा, आत्मनेपदेष्वपि त आतां झ इति; तत्र स्थानिनः षट्, त्रय आदेशा इति वैषम्यात् संख्यायानुदेशाभावादेकैकस्य पर्यायेण सर्व आदेशाः स्युः? नैष दोषः; आनन्तर्यतो हि व्ययस्था भविष्यति। तच्चार्थकृतमानन्तर्यम्---" एकार्थस्यैकार्थः, द्वयर्थस्य द्व्यर्थः, बह्वर्थस्य बह्वर्थ इति। "कत्र्ता" इति। "अनद्यतने लुट्" ३।३।१५, तिप्, तस्यानेकाल्त्वात् डा इत्ययं सर्वादेशः। ननु च नानुबन्धकृतमनेकाल्त्वम् (व्या।प।१४), डकारश्चानुबन्धः,तत् कुतोऽनेकाल्त्वं यतः सर्वादेशः स्यात्? नैष दोषः; न ह्रकृते सर्वादेशे "चुटू" १।३।७ इतीत्संज्ञा भवति। इत्संज्ञाया अभावे चानुबन्धो न भवतीत्यनेकाल्त्वात् सर्वादेशो भवति। डित्यभस्यापि "टेः" ६।४।१४३ इति टिलोपः। "कत्र्तारौ, कात्र्तारः" इति। "रिच" ७।४।५१ इति सकारलोपः। एवमध्येतेत्येवमादीनि रूपाणि "इङ अध्ययने" (धा।पा।१०४६) इत्येतस्य। अत्र परमपि टेरेत्वं बाधित्वाऽन्तरङ्गत्वात् डादय आदेशा भवन्ति। अन्तरङ्गत्वं पुनस्तेषां स्थानिमात्रापेक्षत्वात्। टेरेत्वन्तु बहिरङ्गम्; तद्धि धातुमप्यपेक्षते, न केवलं स्थानिनम्; आ तृतीयाध्यायपरिसमाप्तेः "धातोः" ३।१।७ इत्यस्याधिकृतत्वात्। "थासः से" ३।४।८० इति ज्ञापकम्-- तिङादेशस्य टेरेत्वं न भवतीति। तेन कृतेष्वपि डारौरस्स्वेत्त्वं न भवति। "कत्र्तासि" इति। "तासस्त्योर्लोपः"७।४।५० इति सकारलोपः॥ इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां द्वितीयाध्यायस्य चतुर्थः पादः समाप्तश्चायं द्वितीयोऽध्यायः॥ ---------------------------------- श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचिता न्यासापरपर्याया काशिकाविवरणपञ्जिकाख्या काशिकाव्याख्या तृतीयोऽध्यायः प्रथमः पादः
बाल-मनोरमा
लुटः प्रथमस्य डारौरसः ३७, २।४।८५

भू इ तास् इति स्थिते-- उकारस्य गुणेऽवादेशे च भविता स् इति स्थिते--लुटः प्रथमस्य। डा रौ रस् एषां द्वन्द्वात्प्रथमाबहुवचनम्। "लुट" इति स्थानषष्ठी। लुडादेशस्य प्रथमपुरुषस्येत्यर्थः। क्रमादिति -- यथासङ्ख्यलभ्यम। ननु परस्मैपदस्य त्रयः प्रथमाः, आत्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट्, आदेशास्तु त्रय इति कथं यथासङ्ख्यमिति चेन्न, डाश्च रौश्च रस् चेति कृतद्वन्द्वानां डारौरसश्च डारौरसश्चेत्येकशेषमाश्रित्य भाष्ये समाहितत्वात्। डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाऽभावेन "चुटू" इत्यस्याऽप्रवृत्त्या सर्वादेशत्वम्। सति च तस्मिन् प्रत्ययत्वच्चुटू इति टकारस्येत्संज्ञेति भाष्ये स्पष्टम्। एवं च भू तास् आ इति स्थिते प्रक्रियां दर्शयति--डित्त्वसामथ्र्यादिति। डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तर्भूतत्वेन तस्मिन् परे भत्वाऽभावेऽपि डित्त्वसामथ्र्याट्टेरिति टिलोप इत्यर्थः।