पूर्वम्: ३।१।९
अनन्तरम्: ३।१।११
 
सूत्रम्
उपमानादाचारे॥ ३।१।१०
काशिका-वृत्तिः
उपमानादाचारे ३।१।१०

क्यचनुवर्तते, न काम्यच्। उपमनात् कर्मणः सुबन्तादाचारे ऽर्थे वा क्यच् प्रत्ययो भवति। आचारक्रियायाः प्रत्ययार्थत्वात् तदपेक्षयैव उपमानस्य कर्मता। पुत्रमिव आचरति पुत्रीयति छात्रम्। प्रावारीयति कम्बलम्। अधिकरणाच् चेति वक्तव्यम्। प्रासादीयति कुट्याम्। पर्यङ्कीयति मञ्चके।
लघु-सिद्धान्त-कौमुदी
उपमानादाचारे ७२९, ३।१।१०

उपमानात्कर्मणः सुबन्तादाचारेर्ऽथे क्यच्। पुत्रमिवाचरति पुत्रीयति छात्रम्। विष्णूयति द्विजम्॥ (सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः)। अतो गुणे। कृष्ण इवाचरति कृष्णति। स्व इवाचरति स्वति। सस्वौ॥
न्यासः
उपमानादाचारे। , ३।१।१०

"क्यजनुवत्र्तते न काम्यच्" इति। अत्र च कारणं पूर्वमुक्तम्। आचारक्रियायाः प्रत्ययार्थत्वात् तदपेक्षयवोपमानस्य कर्मता; पूर्ववत् प्रत्यासत्तेः। "अधिकरणाच्च" इत्यादि। अधिकरणादाचारे क्यज्भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। व्याख्यानन्तु पूर्ववच्चकारकरणमनुवर्त्त्य तस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कत्र्तव्यम्॥
बाल-मनोरमा
उपमानादाचारे ४८९, ३।१।१०

उपमानादाचारे। "सुप आत्मनः क्य"जित्यतः सुप इत्यनुवर्तते। "धातोः कर्मणः समानक्रतृका"दित्यतः कर्मण इति। तदाह - उपमानात्कर्मण इत्यादिना। उपमां यत्कर्मकारकं तद्वृत्तेः सुबन्तादित्यर्थः। पुत्रमिवेति। "धातोः कर्मणः" इत्यतो वेत्यनुवृत्तिरनेन सूचिता। छात्रं पुत्रत्वेन उपचरतीत्यर्थः। विष्णूयतीति। द्विजं विष्णुत्वेन उपचरतीत्यर्थः। अधिकरणाच्चेति। उपमानभूताधिकरणवृत्तेरपि सुबन्तादाचारे क्यजिति वक्तव्यमित्यर्थः। प्रासादीयति कुट()आमिति। प्रासादे इव कुठ()आं ह्मष्टो वर्तते इत्यर्थः। कुटीयति प्रासादे इति। कुट()आमिव प्रासादे क्लिष्टो वर्तते इत्यर्थः।