पूर्वम्: ३।१।१०४
अनन्तरम्: ३।१।१०६
 
सूत्रम्
अजर्यं संगतम्॥ ३।१।१०५
काशिका-वृत्तिः
अजर्यं सङ्गतम् ३।१।१०५

अजर्यम् इति निपात्यते, सङ्गतं चेद् भवति। जीर्यतेः नञ्पूर्वात् सङ्गते सङ्गमने कर्तरि यत् प्रययो निपात्यते। न जीर्यति इति अजर्यम्। अजर्यम् आर्यसङ्गतम्। अजर्यं नो ऽस्तु सङ्गतम्। सङ्गतम् इति किम्? अजरिता कम्बलः।
न्यासः
अजंर्य सङ्गतम्। , ३।१।१०५

"जीर्यतेः" इति। "जृ()ष् झृ()ष् वयोहानौ" (धा।पा।११३०, ११३१)। "सङ्गमन" इति। सङ्गमनम् = सङ्गतिः। "ल्युट् च" ३।३।११५ इति ल्युट्। एतेन सङ्तमित्यत्र "नपुंसके भावे क्तः" ३।३।११४ इति दर्शयति। "कत्र्तरि यत्प्रत्ययो निपात्यते"इति। तृजादीनामपवादः। "अजरिता" इति। तृच्॥
बाल-मनोरमा
अजर्यं सङ्गतम् ६७४, ३।१।१०५

अजर्यम्। कर्तरि यदिति। "कर्तरीति वक्तव्य"मिति वार्तिकम्। निपातनात्कर्तरीति लभ्यत इति तदाशयः। सङ्गतमिति। सङ्गतं = सङ्गमः। न जीर्यतीत्यजर्यमिति। "मित्रत्व"मिति शेषः। जरितृ न भवतीत्यर्थः। अत्र भट्टिप्रयोगमाह-- तेनेति। हे राम ! तेन आर्येण अजर्यम् = अन()आरं, सङ्गतं- सङ्गमं द्रुतं कुरु इत्यन्वयः। ननु "मृगौरजर्यं जरसा" इत्यत्र सङ्गतशब्दाऽभावात्कथं यदित्यत आह-- मृगैरित्यादि। कालिदासकाव्यमिदम्। अजरितेति। तृजऽभावान्न यदित्यर्थः।

तत्त्व-बोधिनी
अजर्यं सङ्गतम् ५६०, ३।१।१०५

संगतं चेदिति। नपुंसके भावे क्तः। विशेष्यमिति। इहाऽजर्यमिति समुदायस्य सङ्गतं वाच्यमित्यर्थो न ग्राह्रः, पर्यायाणां युगपत्प्रयोगाऽसंभवेनाऽजर्यंसतां सङ्गतमिति प्रयोगाऽनापत्तेः, "तेन सङ्गत"मिति भट्टिप्रयोगानुपपत्तेश्च।