पूर्वम्: ३।१।१०५
अनन्तरम्: ३।१।१०७
 
सूत्रम्
वदः सुपि क्यप् च॥ ३।१।१०६
काशिका-वृत्तिः
वदः सुपि क्यप् च ३।१।१०६

अनुपसर्गे इति वर्तते। वदेर् धातोः सुबन्तोः उपपदे अनुपसर्गे क्यप् प्रत्ययो भवति, चकाराद् यत् च। ब्रह्मोद्यम्, ब्रह्मवद्यम्। सत्योद्यम्, सत्यवद्यम्। सुपि इति किम्? वाद्यम्। अनुपसर्गे इत्येव, प्रवाद्यम्।
न्यासः
वदः सुपि क्यप् च। , ३।१।१०६

"अनुपसर्ग इति वत्र्तते" इति। ननु च "सत्सूद्विष" ३।२।६१ इत्यादौ सूत्रे वक्ष्यति-- एतदुपसर्गग्रहणं ज्ञापनार्थम्, अन्यत्र सुब्ग्रहण उपसर्गग्रहणं न भवतीति; एवञ्च तत एव ज्ञापकादुपसर्गे न भविष्यतीति किमिहानुपसर्गग्रहणानुवृत्त्या? विस्पष्टार्थमित्येके। तत्र वाज्ञापनार्थमुपसर्गग्रहणं कत्र्तव्यम्; इह वानुपसर्गमनुवत्र्यमिति विकल्पदर्शनार्थमित्यपरे। "ब्राहृओद्यम्" इति। ब्राहृणो वदनमित्यर्थः। भावे क्यप्, पूर्ववत् संप्रसारणम्, "आद्गुणः" ६।१।८४, उपपदसमासः॥
बाल-मनोरमा
वदः सुपि क्यप् च ६७५, ३।१।१०६

वदः सुपि। उत्तरेति। "भुवो भावे" इत्यत्तरसूत्राद्भावे इत्यपकृष्यते इत्यर्थः। भूधातोरकर्मकत्वेन उत्तरसूत्रे भावग्रहणस्य वैयथ्र्यादिति भावः। अनुपसर्गे इति। "वृः सुप्यनुसर्गग्रहण"मिति भाष्यादिति भावः। ब्राहृओद्यमिति। वदेः क्यपि " वचिस्वपी"पि संप्रसारणम्। "वस्तुतस्तु नेह भावग्रहणमपकृष्यते, तत्र भावग्रहणमुत्तरार्थमिति भाष्या"दिति मतमनुसृत्य आह-- कर्मणि प्रत्ययावित्येके इति। क्यब्यतावित्यर्थः।

तत्त्व-बोधिनी
वदः सुपि क्यप् च ५६१, ३।१।१०६

वदः। सकर्मकत्वाद्भावे कृत्यप्रत्ययो दुर्लभः, "लः कर्मणि" इति सूत्र इव "तयोरेव" इत्यत्रापि सकर्मकेभ्यः कर्मणि, अकर्मकेभ्य एव भावे इति सिद्धान्तात्। अत आह----भाव इत्याकृष्यत इति। "भुवो भावे" इत्यत्राऽनुपसर्ग इत्यनुवर्तनात्, निरुपसर्गस्य भवतेरकर्मकत्वात् "तयोरेव कृत्ये" ति भावे कृत्यप्रत्ययसिद्धौ भावग्रहणस्य वैयथ्र्यशङ्कायां भावग्रहणमुत्तरार्थमिति भाष्ये स्थितम्। तद्भाष्यस्वारस्यग्रहिणां मतमाह--- कर्मणीति। अनुपसर्ग इति। सुपि किम्?। "हनस्तोऽचिण्णलोः"घातः। अनुपसर्गे किम्?। प्रघातः। भावे घञ्।