पूर्वम्: ३।१।१०६
अनन्तरम्: ३।१।१०८
 
सूत्रम्
भुवो भावे॥ ३।१।१०७
काशिका-वृत्तिः
भुवो भावे ३।१।१०७

सुप्यनुपसर्गे इत्यनुवर्तते। भवतेर् धातोः सुबन्ते उपपदे ऽनुपसर्गे भावे क्यप् प्रत्ययो भवति। यत् तु न अनुवर्तते। ब्रह्मभूयं गतः ब्रहंत्वं गतः। देवभूयं, देवत्वं गतः। भावग्रहणम् उत्तरार्थम्। सुपि इत्येव, भव्यम्। अनुपसर्गे इत्येव, प्रभव्यम्।
न्यासः
भुवो भावे। , ३।१।१०७

"यत् तु नानुवत्र्तते" इति। पूर्वसूत्रे चानुकृष्टत्वात्। "ब्राहृभूयं गतः" इति। ब्राहृत्वं प्राप्त इत्यर्थः। ननु च "तयोरेव कृत्यक्तखलर्थाः" ३।४।७० इति भावकर्मणोः कृत्वा विधीयन्ते, अनुपसर्ग इति चानुवत्र्तते, अनुपसर्गश्च भवतिरकर्मक इतिसामथ्र्याद्भाव एव भविष्यति, न कर्मणि, किं भावग्रहणेन? इत्याह-- "भावग्रहणेन? इ()तयाह-- "भावग्रहणमुत्तरार्थम्" इति। एतेन "हनस्त च" ३।१।१०८ इत्यत्रोपयोगमाह-- तत्र भाव एव यथा स्यात्। "भव्यम्" इति। अचो यत्" ३।१।९७, धातोर्गुणः, "धातोस्तन्निमित्तस्यैव" ६।१।७७ इत्यवादेशः॥
बाल-मनोरमा
भुवो भावे ६७६, ३।१।१०७

भुवो भावे। ब्राहृभूयमिति। कित्त्वान्न गुणः। क्लीबत्वं लोकात्। भव्यमिति। भाव इत्यर्थः। अत् सुबुपपदत्वाऽभावाद्यदेव, गुणः, "वान्तो यी"त्यवादेशः। प्रभव्यमिति। प्रभाव इत्यर्थः।