पूर्वम्: ३।१।१०७
अनन्तरम्: ३।१।१०९
 
सूत्रम्
हनस्त च॥ ३।१।१०८
काशिका-वृत्तिः
हनस् त च ३।१।१०८

सुप्यनुपसर्गे इति वर्तते, भावे इति च। हन्तेर् धातोः सुबन्त उपपदे ऽनुपसर्गे भावे क्यप् प्रत्ययो भवति, तकारश्चान्तादेशः। ब्रहमहत्या। अश्वहत्या। सुपि इत्येव, घातः। ण्यत् तु भावे न भव्त्यनभिधानात्। अनुपसर्गे इत्येव, प्रघातो वर्तते।
न्यासः
हनस्त च। , ३।१।१०८

"ब्राहृहत्या" इति। ब्राहृणो हननमित्यर्थः। "धातः" इति। पूर्ववत् तत्वकत्वे। किमर्थं पुनर्घञ् प्रत्युदाह्यियते, न ण्यदित्याह-- "ण्यत्तु" इत्यादि। तत्रैव युक्तिमाह-- "अनभिधानात्" इति।अबिधानलक्षणा हि कृत्तद्धितसमासा भवन्ति, न च हन्तेर्विहितेन ण्यता भावः शक्यतेऽभिधातुम्। तथा हि धात्य इत्युक्ते कर्मैव प्रतीयते, न भावः॥
बाल-मनोरमा
हनस्त च ६७७, ३।१।१०८

हनस्त। अन्तादेश इति। "प्रकृते"रिति शेषः। भावे किम्?। घात्यो वृषलः। अनुपसर्गे किम्?। प्रघातः। निरुपपदं हत्येति त्वसाध्वेव।