पूर्वम्: ३।१।१०८
अनन्तरम्: ३।१।११०
 
सूत्रम्
एतिस्तुशस्वृदृजुषः क्यप्॥ ३।१।१०९
काशिका-वृत्तिः
एतिस्तुशास्वृदृजुषः क्यप् ३।१।१०९

सुप्यनुपसर्गे भावे इति निवृत्तम्। सामान्येन विधानमे तत्। एति स्तु शास् वृ दृ जुषित्येतेभ्यः क्यप् प्रत्ययो भवति। इत्यः। स्तुत्यः। शिष्यः। वृत्यः। आदृत्यः। जुष्यः। क्यपिति वर्तमाने पुनः क्यब्ग्रहणं बाधकबाधनार्थम्। ओरावश्यके ३।१।१२५ इति ण्यतं बाधित्वा क्यबेव भवति। अवश्य् स्तुत्यः। वृग्रहणे वृञो ग्रहणम् इष्यते, न वृङः। वार्याः ऋत्विजः। शंसिदुहिगुहिभ्यो वेति वक्तव्यम्। शस्यम्, शंस्यम्। दुह्यम्, दोह्यम् , गुह्यम्, गोह्यम्। आङ्पूर्वादञ्जेः संज्ञायाम् उपसङ्ख्यानम्। आज्यं घृतम्। कथम् उपेयम्? एः एतद् रूपं, न इणः।
लघु-सिद्धान्त-कौमुदी
एतिस्तुशास्वृदृजुषः क्यप् ७७९, ३।१।१०९

एभ्यः क्यप् स्यात्॥
न्यासः
एतिस्तुशास्वृदृजुषः क्यप्। , ३।१।१०९

"शिष्यः" इति। "शासु अनुशिष्टौ" (धा।पा।१०७५)," शास इदङहलोः" ६।४।३४ इतीत्त्वम्, "शासिवसि"८।३।६० इति षत्वम्। "आदृत्यः" इति। "दृङ आदरे" (धा।पा।११४१), आङपूर्वः। "जुष्यः" इति। "जुषी प्रीतिसेवनयोः" (धा।पा।१२८८)। अथ किमर्थं क्यब्ग्रहणम्, यावता "वदः सुपि क्यप् च" ३।१।१०६ इत्यतः क्यब्ग्रहमनुवत्र्तत एवेत्यत आह-- "क्यबिति वत्र्तमाने" इत्यादि। "बाधकबाधनार्थम्" इति। एतद्विस्पष्टीकर्त्तुमाह-- "ओरावश्यके" इति। स्तुग्रहणस्यावकाशो यत्रावश्यकं न विवक्ष्यते-- स्तुत्य इति, " ओरावश्यके" ३।१।१२५ इत्यस्यावकाशोऽन्यो धातुः-- अवश्यलाव्यमिति; इहोभयं प्राप्नोति-- अवश्यस्तुत्य इति, परत्वाद्बाधको ण्यत् स्यात्। पुनः क्यब्ग्रहणात् तमपि बाधित्वा क्यब्भवति। "वृग्रहणेन वृञो ग्रहणमिष्यते, न वृङः" इति। तत्कथम्? "कृषिरजोः" ३।१।९० इत्यादेः सूत्रादिह परस्मैपदग्रहणमनुवत्र्तते, तेन वृशब्दो विशिष्यते-- परसमैपदंस्य यो वृशब्द इति। कश्च परस्मैपदस्य वृशब्दः? यस्य परस्मैपदं प्रति निमित्त्भावो दृष्टः। वृञ एवोभयपदिनः स दृष्टः, न वृङः; तस्य नित्यात्मनेपदित्वात्। तेन वृञ एव ग्रहणं भवति, न वृङः। "शंसिदुहि" इत्यादि। एभ्यः शंसिप्रभृतिभ्यो वा क्यब्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तदेव बहुलग्रहणमाश्रित्य कत्र्तव्यम्। "शस्यम्" इति। "शन्सु स्तुतौ" (धा।पा।७२८), "अनिदिताम्" ६।४।२४ इति नलोपः। "गुह्रम" इति। "गुहू संवरणे" (धा।पा।८९६)। "अःङपूर्वादञ्जेः" इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तच्च पूर्ववत्। "अञ्जू व्यक्तिभ्रमणकान्तिगतिषु" (धा।पा।१४५८)। पूर्ववन्नलोपः। इयं च सर्पिषः संज्ञा। "कथमुपेयम्" इति। इण एतद्रूपमिति मन्यमानस्य प्रश्नः। "ईङ एतद्रूपम्" इति। "ईङ गतौ" (धा।पा।११४३) इत्यस्य "अचो यत्" ३।१।९७ इति यति सत्येतद्रूपम्, न त्विणः। तस्य हि क्यपि सत्युपेत्यमिति भवितव्यम्॥
बाल-मनोरमा
एतिस्तुशास्वृदृजुषः क्यप् ६७८, ३।१।१०९

एतिस्तु। एति, स्तु, शास्, वृ , दृ, जुष् एषां षण्णां समाहारद्वन्द्वात्प्रञ्चमी। सुप्यनुपसर्गे भाव इति निवृत्त्म्। तदाह-- एभ्यः क्यप्स्यादिति।

तत्त्व-बोधिनी
एतिस्तुशास्वृदृजुषः क्यप् ५६२, ३।१।१०९

एतिस्तु। एभ्य इति, सुप्यनुपसर्गे भावे इति च निवृत्तमिति भावः। एतीतीण एव ग्रहणं, नेङिकोः, तयोरधिपूर्वयोरेव ग्रहणादेतीति निर्देशानुपपत्तेः। तथा च "रक्षार्थं वेदानामध्येयं व्याकरण"मिति भाष्ये यदेव प्रयुक्तः। "इण्वदिक इति वक्तव्यम्" इति वचनादिकोऽपि भवतीत्यधीत्या मातेत्युदाहरन्ति। [ अधीत्या = स्मत्र्तव्या]।