पूर्वम्: ३।१।११२
अनन्तरम्: ३।१।११४
 
सूत्रम्
मृजेर्विभाषा॥ ३।१।११३
काशिका-वृत्तिः
मृजेर् विभाषा ३।१।११३

मृजेर् धातोः विभाषा क्यप् प्रत्ययो भवति। ऋदुपधत्वात् प्राप्तविभाषेयम्। परिमृज्यः, परिमार्ग्यः।
लघु-सिद्धान्त-कौमुदी
न यदि ७६५, ३।१।११३

यद्योगे उक्तं न। अभिजानासि कृष्ण यद्वने अभुञ्ज्महि॥
लघु-सिद्धान्त-कौमुदी
मृजेर्विभाषा ७८२, ३।१।११३

मृजेः क्यब्वा। मृज्यः॥
न्यासः
मृजेर्विभाषा। , ३।१।११३

ऋदुपधत्वात् प्राप्तविभाषेयम्। "ऋदुधाच्चाक्लृपिचृतेः" ३।१।११० इति क्यपो विधानात्। "परिमार्ग्यः" इति। पूर्ववत् कुत्वम्, "गृजेर्वृद्धिः" ७।२।११४
बाल-मनोरमा
मृजेर्विभाषा ६८३, ३।१।११३

मृजेर्विभाषा। क्यप्पक्षे उदाहरति-- मृज्य इति। कित्त्वान्न गुणः।

तत्त्व-बोधिनी
मृजेर्विभाषा ५६६, ३।१।११३

मृजेर्विभाषा। ऋदुपधत्वान्नित्यं क्यपि प्राप्तेऽयमारम्भः।