पूर्वम्: ३।१।११६
अनन्तरम्: ३।१।११८
 
सूत्रम्
विपूयविनीयजित्या मुञ्जकल्कहलिषु॥ ३।१।११७
काशिका-वृत्तिः
विपूयविनीयजित्या मुङ्जकल्कहलिषु ३।१।११७

निपूय विनीय जित्य इत्येते शब्दा निपात्यन्ते यथासङ्ख्यं मुञ्ज कल्क हलि इत्येतेषु अर्थेषु वोध्येषु। विपूर्वात् पवतेर् नयतेश्च तथा जयतेर् यति प्राप्ते कर्मणि क्यब् निपात्यते। विपूयो मुञ्जः। विपाव्यम् अन्यत्। विनीयः क्ल्कः। विनेयम् अन्यत्। जित्यो हलिः। जेयम् अन्यत्।
न्यासः
विपूयविनीयजित्या मुञ्जककल्कहलिषु। , ३।१।११७

"विपूर्वात् पवतेः" इति। "पङ पवने" (धा।पा।९६६)। "नयतेश्च" इति। विपूर्वादित्यपेक्षते। "यति प्राप्ते" इति। त्रयाणामप्यजन्तत्वात्। विपूयते विपूयः। विनीयते = सिद्धत्वं प्राप्यते विनीयः। तैलेन घृतेन वा त्रिफलादिद्रव्यसमवेतेन साध्यः कश्चिदौषधविशेषः कल्क इत्युच्यते। जेतव्यो "जित्यः"। बृहद्धलम् = हलिः॥
बाल-मनोरमा
विपूयविनीयजित्या मुञ्जकल्कहलिषु ६८८, ३।१।११७

विपूय। विपूय, विनीय, जित्य - एते यथाक्रमं मुञ्जुकल्कहलिषु क्यबन्ता निपात्यन्ते। तदाह-- पूङित्यादिना। न्यादिसाहचर्याद्भौवादिकस्यैव पूधातोग्र्रहणमिति भावः। हलिशब्दस्य विवरणं - कृष्टेति।

तत्त्व-बोधिनी
विपूयविनीयजित्या मुञ्जकल्कहलिषु ५७२, ३।१।११७

पापमिति वेति। "तपो न कल्कोऽध्ययनं न कल्कः" इत्युपक्रम्य "तान्येव बावोपहतानि कल्कः" इति भारते दर्शनात्। "कल्कः पापाशये पापे दम्बे विट्किट्टयोरपि" इति कोशाच्चेति भावः।